०७१ विनायकपूजा

{अथ एकसप्ततितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

गणेशपूजाविधिः

ऐश्वर उवाच
गणपूजां प्रवक्ष्यामि निर्विघ्नामखिलार्थदां1
गणाय स्वाहा हृदयमेकदंष्ट्राय वै शिरः ॥००१॥

मूलम्

गणेशपूजाविधिः

ऐश्वर उवाच
गणपूजां प्रवक्ष्यामि निर्विघ्नामखिलार्थदां1
गणाय स्वाहा हृदयमेकदंष्ट्राय वै शिरः ॥००१॥

विश्वास-प्रस्तुतिः

गजकर्णिने च2 शिखा गजवक्त्राय वर्म च ।
महोदराय स्वदन्तहस्तायाक्षि3 तथास्त्रकम् ॥००२॥

मूलम्

गजकर्णिने च2 शिखा गजवक्त्राय वर्म च ।
महोदराय स्वदन्तहस्तायाक्षि3 तथास्त्रकम् ॥००२॥

विश्वास-प्रस्तुतिः

गणो गुरुः पादुका च शक्त्यनन्तौ च धर्मकः ।
मुख्यास्थिमण्डलं4 चाधश्चोर्ध्वच्छदनमर्चयेत् ॥००३॥

मूलम्

गणो गुरुः पादुका च शक्त्यनन्तौ च धर्मकः ।
मुख्यास्थिमण्डलं4 चाधश्चोर्ध्वच्छदनमर्चयेत् ॥००३॥

विश्वास-प्रस्तुतिः

पद्मकर्णिकवीजांश् च ज्वालिनीं नन्दयार्चयेत् ।
सूर्येशा कामरूपा च उदया कामवर्तिनी ॥००४॥

मूलम्

पद्मकर्णिकवीजांश् च ज्वालिनीं नन्दयार्चयेत् ।
सूर्येशा कामरूपा च उदया कामवर्तिनी ॥००४॥

:न्

[[२०३]]

विश्वास-प्रस्तुतिः

सत्यां च विघ्ननाशा च आसनं गन्धमृत्तिका ।
यं शोषा रं च दहनं प्लवो लं वं तथामृतम् ॥००५॥

मूलम्

सत्यां च विघ्ननाशा च आसनं गन्धमृत्तिका ।
यं शोषा रं च दहनं प्लवो लं वं तथामृतम् ॥००५॥

विश्वास-प्रस्तुतिः

लम्बोदराय विद्महे महोदराय धीमहि तन्नो दन्ती प्रचोदयात् ।
गणपतिर्गणाधिपो गणेशो गणनायकः ।००६।
गणक्रीडो वक्रतुण्ड एकदंष्ट्रो महोदरः ॥००६॥

मूलम्

लम्बोदराय विद्महे महोदराय धीमहि तन्नो दन्ती प्रचोदयात् ।
गणपतिर्गणाधिपो गणेशो गणनायकः ।००६।
गणक्रीडो वक्रतुण्ड एकदंष्ट्रो महोदरः ॥००६॥

विश्वास-प्रस्तुतिः

गजवक्त्रो लम्बुक क्षिर्विकटो विघ्ननाशनः1
धूम्रवर्णा महेन्द्राद्याः पूज्या गणपतेः स्मृताः ॥००७॥

मूलम्

गजवक्त्रो लम्बुक क्षिर्विकटो विघ्ननाशनः1
धूम्रवर्णा महेन्द्राद्याः पूज्या गणपतेः स्मृताः ॥००७॥

{इत्य् आदिमहापुराणे आग्नेये विनायकपूजाकथनं नाम एकसप्ततितमो ऽध्यायः ॥ }


  1. निर्विघ्नां पापनाशिनीमिति ग, घ,
    चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎

  2. बलकर्णिने चेति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  3. महोदराये दण्डहस्तायाक्षि इति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  4. मुख्यास्तिमण्डलमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎