{अथ एकसप्ततितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
गणेशपूजाविधिः
ऐश्वर उवाच
गणपूजां प्रवक्ष्यामि निर्विघ्नामखिलार्थदां1 ।
गणाय स्वाहा हृदयमेकदंष्ट्राय वै शिरः ॥००१॥
मूलम्

गजकर्णिने च2 शिखा गजवक्त्राय वर्म च ।
महोदराय स्वदन्तहस्तायाक्षि3 तथास्त्रकम् ॥००२॥
विश्वास-प्रस्तुतिः
गणो गुरुः पादुका च शक्त्यनन्तौ च धर्मकः ।
मुख्यास्थिमण्डलं4 चाधश्चोर्ध्वच्छदनमर्चयेत् ॥००३॥

पद्मकर्णिकवीजांश् च ज्वालिनीं नन्दयार्चयेत् ।
सूर्येशा कामरूपा च उदया कामवर्तिनी ॥००४॥

:न्
[[२०३]]
विश्वास-प्रस्तुतिः
सत्यां च विघ्ननाशा च आसनं गन्धमृत्तिका ।
यं शोषा रं च दहनं प्लवो लं वं तथामृतम् ॥००५॥

लम्बोदराय विद्महे महोदराय धीमहि तन्नो दन्ती प्रचोदयात् ।
गणपतिर्गणाधिपो गणेशो गणनायकः ।००६।
गणक्रीडो वक्रतुण्ड एकदंष्ट्रो महोदरः ॥००६॥

गजवक्त्रो लम्बुक क्षिर्विकटो विघ्ननाशनः1 ।
धूम्रवर्णा महेन्द्राद्याः पूज्या गणपतेः स्मृताः ॥००७॥

{इत्य् आदिमहापुराणे आग्नेये विनायकपूजाकथनं नाम एकसप्ततितमो ऽध्यायः ॥ }