०७० वृक्षारामादिप्रतिष्ठा

{अथ सप्ततितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

वृक्षादिप्रतिष्ठाकथनं

भगवानुवाच
प्रतिष्ठां पादपानाञ्च वक्ष्ये ऽहं भुक्तिमुक्तिदां ।
सर्वौषध्युदकैर् लिप्तान् पिष्टातकविभूषितान् ॥००१॥

मूलम्

वृक्षान्माल्यैर् अलङ्कृत्य वासोभिरभिवेष्टयेत् ।
सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम् ॥००२॥

हेमशलाकयाञ्जनञ्च वेद्यान्तु फलसप्तकम् ।
अधिवासयेच्च प्रत्येकं घटान् बलिनिवेदनं ॥००३॥

इन्द्रादेरधिवासो ऽथ होमः कार्यो वनस्पतेः ।
वृक्षमध्यादुत्सृजेद्गां ततो ऽभिषेकमन्त्रतः ॥००४॥

ऋग्यजुःसाममन्त्रैश् च वारुणैर् मङ्गलै रवैः1
वृक्षवेदिककुम्भकैश् च2 स्नपनं द्विजपुङ्गवाः ॥००५॥

तरूणां यजमानस्य कुर्युश् च यजमानकः ।
भूषितो दक्षिणां दद्याद्गोभूभूषणवस्त्रकं ॥००६॥

:न्

[[२०२]]

विश्वास-प्रस्तुतिः

क्षीरेण भोजनं दद्याद्यावद्दिनचतुष्टयं ।
होमस्तिलाद्यैः कार्यस्तु पलाशसमिधैस् तथा ॥००७॥

आचार्ये द्विगुणं दद्यात् पूर्ववन् मण्डपादिकम् ।
पापनाशः परा सिद्धिर्वृक्षारामप्रतिष्ठया ॥००८॥

स्कन्दायेशो यथा प्राह प्रतिष्ठाद्यं तथा शृणु ।
सूर्येशगणशक्त्यादेः परिवारस्य वै हरेः ॥००९॥

{इत्य् आदिमाहापुराणे आग्नेये पादपारामप्रतिष्ठाकथनं नाम सप्ततितमो ऽध्यायः ॥ }

  1. वारुणमनुमिर्वररिति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  2. वृक्षवेदीशकुम्भैस्तु इति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎