{अथोनसप्ततितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
स्नानविधानं
अग्निर् उवाच
ब्रह्मन् शृणु प्रवक्षामि स्नपनोत्सवविस्तरं ।
प्रासादस्याग्रतः कुम्भान्मण्डपे मण्डले न्यसेत् ॥००१॥
मूलम्

कुर्याद् ध्यानार्चनं होमं हरेरादौ च कर्मसु ।
सहस्रं वा शतं वापि होमयेत् पूर्णया सह ॥००२॥

स्नानद्रव्याण्यथाहृत्य कलशांश्चापि विन्यसेत् ।
अधिवास्य सूत्रकण्ठान् धारयेन्मण्डले घटान् ॥००३॥

चतुरस्रं पुरं कृत्वा रुद्रैस्तं प्रविभाज्येत्1 ।
मध्येन तु चरुं स्थाप्य पार्श्वे पङ्क्तिं प्रमार्जयेत् ॥००४॥

शालिचूर्णादिनापूर्य पूर्वादिनवकेषु च ।
कुम्भमुद्रां ततो बध्वा घटं तत्रानयेद् बुधः ॥००५॥

पुण्डरीकाक्षमन्त्रेण दर्भांस्तांस्तु विसर्जयेत् ।
अद्भिः पूर्णं सर्वरत्नयुतं मध्ये न्यसेद् घटं ॥००६॥

यवव्रीहितिलांश् चैव नीवरान् श्यामकान् क्रमात् ।
कुलत्थमुद्गसिद्धार्थांस्तच्छुक्तानष्टदिक्षु च ॥००७॥

ऐन्द्रे तु नवके मध्ये घृतपूर्णं घटं न्यसेत् ।
पलाशाश्वत्थन्यग्रोधविल्वोदुम्बरशीर्षां ॥००८॥

जम्बूशमीकपित्थानां त्वक्कषायैर् घटाष्टकं ।
आग्नेयनवके मध्ये मधुपूर्णं घटं न्यसेत् ॥००९॥

गोशृङ्गनश्वगङ्गागजेन्द्रदशनेषु च ।
तीर्थक्षेत्रखलेष्वष्टौ मृत्तिकाः स्युर्घटाष्टके ॥०१०॥

:न्
[[२००]]
विश्वास-प्रस्तुतिः
याम्ये तु नवके मध्ये तिलतैलघटं न्यसेत् ।
नारङ्गमथ जम्बीरं खर्जूरं मृद्विकां क्रमात् ॥०११॥

नारिकेलं न्यसेत् पूगं दाडिमं पनसं फलं ।
नैरृते नवके मध्ये क्षीरपूर्णं घटं न्यसेत् ॥०१२॥

कुङ्कुमं नागपुष्पञ्च चम्पकं मालतीं क्रमात् ।
मल्लिकामथ पुन्नागं करवीरं महोत्पलं ॥०१३॥

पुष्पाणि चाप्ये नवके मध्ये वै नारिकेलकम् ।
नादयेमथ सामुद्रं सारसं कौपमेव च ॥०१४॥

वर्षजं हिमतोयञ्च नैर्झरङ्गाङ्गमेव च ।
उदकान्यथ वायव्ये नवके कदलीफलं ॥०१५॥
मूलम्
वर्षजं हिमतोयञ्च नैर्झरङ्गाङ्गमेव च ।
उदकान्यथ वायव्ये नवके कदलीफलं ॥०१५॥
विश्वास-प्रस्तुतिः
सहदेवीं कुमारीं च सिंहीं व्याघ्रीं तथामृतां ।
विष्णुपर्णीं शतशिवां वचां दिव्यौषधीर्न्यसेत् ॥०१६॥

पूर्वादौ सौम्यनवके मध्ये दधिघटं न्यसेत् ।
पत्रमेलां त्वचं कुष्ठं बालकं चन्दनद्वयं ॥०१७॥

लतां कस्तूरिकां चैव कृष्णागुरुमनुक्रमात् ।
सिद्धद्रव्याणि पूर्वादौ शान्तितोयमथैकतः ॥०१८॥

चन्द्रतारं क्रमाच्छुक्लं गिरिसारं त्रपु न्यसेत् ।
घनसारं1 तथा शीर्षं पूर्वादौ रत्नमेव च ॥०१९॥

घृतेनाभ्यर्ज्य चोद्वर्त्य स्नपयेन्मूलमन्त्रतः ।
गन्धाद्यैः पूजयेद्वह्नौ हुत्वा पूर्णाहुतिं चरेत् ॥०२०॥

बलिञ्च सर्वभूतेभ्यो भोजयेद्दत्तदक्षिणः ।
देवैश् च मुनिभिर्भूपैर् देवं2 संस्थाप्य चेश्वराः ॥०२१॥

[[२०१]]
विश्वास-प्रस्तुतिः
बभूवुः स्थापित्वेत्थं स्नपनोत्सवकं चरेत् ।
अष्टोत्तरसहस्रेण घटानां सर्वभाग् भवेत् ॥०२२॥

यज्ञावभृथस्नानेन पूर्णसंस्नापनं कृतम् ।
गौरीलक्ष्मीविवाहादि चोत्सवं स्नानपूर्वकम् ॥०२३॥

{इत्य् आदिमहापुराणे आग्नेये यज्ञावभृतस्नानं नाम ऊनसप्ततितमो ऽध्यायः ॥ }