:श् अथ अष्टषष्टितमो ऽध्यायः
विश्वास-प्रस्तुतिः
यात्रोत्सवविधिकथनं
भगवानुवाच
वक्ष्ये विधिं चोत्सवस्य स्थापिते तु सुरे चरेत् ।
तस्मिन्नब्दे चैकरात्रं त्रिरात्रञ्चाष्टरात्रकं ॥००१॥
मूलम्

उत्सवेन विना यस्मात् स्थापनं निष्फलं भवेत् ।
अयने विषुवे चापि शयनोपवने गृहे1 ॥००२॥

कारकस्यानुकूले वा यात्रान्देवस्य कारयेत् ।
मङ्गलाङ्कुररोपैस्तु गीतनृत्यादिवाद्यकैः ॥००३॥

शरावघटिकापालीस्त्वङ्कुरारोहणे हिताः ।
यवाञ्छालींस्तिलान् मुद्गान् गोधूमान् सितसर्षपान् ॥००४॥

कुलत्थमाषनिष्पावान् क्षालयित्वा तु वापयेत् ।
पूर्वादौ च बलिं दद्यात् भ्रमन् दीपैः पुरं निशि ॥००५॥

इन्द्रादेः कुमुदादेश् च सर्वभूतेभ्य एव च ।
अनुगच्छन्ति ते तत्र प्रतिरूपधराः पुनः ॥००६॥

पदे पदे ऽश्वमेधस्य फलं तेषां न संशयः ।
आगत्य देवतागारं देवं विज्ञापयेद् गुरुः ॥००७॥

तीर्थयात्रा तु या देव श्वः कर्तव्या सुरोत्तम ।
तस्यारम्भमनुज्ञातुमर्हसे देव सर्वथा ॥००८॥

देवमेवन्तु विज्ञाप्य ततः कर्म समारभेत्2 ।
प्ररोहघटिकाभ्यान्तु वेदिकां भूषितां व्रजेत् ॥००९॥

:न्
[[१९८]]
विश्वास-प्रस्तुतिः
चतुःस्तम्भान्तु तन्मध्ये स्वस्तिके प्रतिमां न्यसेत् ।
काम्यार्थां लेख्यचित्रेषु स्थाप्य तत्राधिवासयेत् ॥०१०॥

वैष्णवैः सह कुर्वीत घृताभ्यङ्गन्तु मूलतः ।
घृतधाराभिषेकं वा सकलां शर्वरीं बुधः ॥०११॥

दर्पणं दर्श्य नीराजं गीतवाद्यैश् च मङ्गलं ।
व्यजनं पूजनं दीपं गन्धपुष्पादिभिर्यजेत् ॥०१२॥

हरिद्रामुद्गकाश्मीरशुक्लचूर्णादि मूर्ध्नि ।
प्रतिमायाश् च भक्तानां सर्वतीर्थफलं धृते ॥०१३॥

स्नापयित्वा समभ्यर्च्य यात्राविम्बं रथे स्थितं ।
नयेद्गुरुर् नदीर्नादैश्छत्राद्यै राष्ट्रपालिकाः ॥०१४॥

निम्नगायोजनादर्वाक् तत्र वेदीन्तु कारयेत् ।
वाहनादवतार्यैनं तस्यां वेद्यान्निवेशयेत् ॥०१५॥

चरुं वै श्रपयेत् तत्र पायसं होमयेत्ततः ।
अब्लिङ्गैः1 वैदिकैर् मन्त्रैस्तीर्थानावाहयेत्ततः ॥०१६॥

आपो हिष्ठोपनिषदैः पूजयेदर्घ्यमुख्यकैः ।
पुनर्देवं समादाय तोये कृत्वाघमर्षणं ॥०१७॥

स्नायान्महाजनैर् विप्रैर् वेद्यामुत्तार्य तं न्यसेत् ।
पूजयित्वा तदह्ना च प्रासादं तु नयेत्ततः ।०१८।
पूजयेत् पावकस्थन्तु गुरुः स्याद्भुक्तिमुक्तिकृत् ॥०१८॥

{इत्य् आदिमहापुराणे आग्नेये देवयात्रोत्सवकथनं नाम अष्टषष्टितमो ऽध्यायः ॥ }
:न्
[[१९९]]