{अथ सप्तषष्टितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
जीर्णोद्धारविधानं
भगवानुवाच
जीर्णाद्धारविधिं वक्ष्ये भूषितां स्नपयेद्गुरुः1 ।
अचलां विन्यसेद्गेहे अतिजीर्णां परित्यजेत् ॥००१॥
मूलम्

व्यङ्गां भग्नां च शैलाढ्यां न्यसेदन्यां च पूर्ववत् ।
संहारविधिना तत्र तत्त्वान् संहृत्य देशिकः ॥००२॥

सहस्रं नारसिंहेन हुत्वा तामुद्धरेद् गुरुः ।
दारवीं दारयेद्वह्नौ शैलजां प्रक्षिपेज्जले ॥००३॥

धातुजां रत्नजां वापि अगाधे वा जले ऽम्बुधौ ।
यानमारोप्य जीर्णाङ्गं छाद्य वस्त्रादिना नयेत् ॥००४॥

वादित्रैः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत् ।
यत्प्रमाणा च यद्द्रव्या तन्मानां स्थापयेद्दिने ।००५।
कूपवापीतडागादेर्जीर्णोद्धारे महाफलं ॥००५॥

{इत्य् आदिमहापुराणे आग्नेये जीर्णोद्धारकथनं नाम सप्तषष्टितमो ऽध्यायः ॥ }
:न्
[[१९७]]