०६६ साधारणप्रतिष्ठा

{अथ षट्षष्टितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

साधारणप्रतिष्ठाविधानं

भगवानुवाच
समुदायप्रतिष्ठाञ्च वक्ष्ये सा वासुदेववत् ।
आदित्या वसवो रुद्राः साध्या विश्वे ऽश्विनौ तथा ॥००१॥

मूलम्

ऋषयश् च तथा सर्वे वक्ष्ये तेषां विशेषकं ।
यस्य देवस्य यन्नाम तस्याद्यं गृह्य चाक्षरं ॥००२॥

मात्राभिर्भेदयित्वा तु दीर्घाण्यङ्गानि भेदयेत्1
प्रथमं कल्पयेद्वीजं सविन्दुं प्रणवं नतिं2 ॥००३॥

सर्वेषां मूलमन्त्रेण पूजनं स्थापनं तथा ।
नियमव्रतकृच्छ्राणां मठसङ्क्रमवेश्मनां ॥००४॥

मासोपवासं द्वादश्यां इत्य् आदिस्थापनं वदे ।
शिलां पूर्णघटं कांस्यं सम्भारं स्थापयेत्ततः ॥००५॥

ब्रह्मकूर्चं समाहृत्य श्रपेद् यवमयं चरुं ।
क्षीरेण कपिलायास्तु तद्विष्णोरिति साधकः ॥००६॥

प्रणवेनाभिघार्यैव दर्व्या सङ्घट्टयेत्ततः ।
साधयित्वावतार्याथ विष्णुमभ्यर्च्य होमयेत् ॥००७॥

व्याहृता चैव गायत्र्या तद्विप्रासेति होमयेत् ।
विश्वतश् चक्षुर्वेद्यैर् भूरग्नये तथैव च ॥००८॥

सूर्याय प्रजापतये अन्तरिक्षाय होमयेत् ।
द्यौः स्वाहा ब्रह्मणे स्वाहा पृथिवी महाराजकः ॥००९॥

तस्मै सोमञ्च राजानं इन्द्राद्यैर् होममाचरेत् ।

:न्

[[१९४]]

विश्वास-प्रस्तुतिः

एवं हुत्वा1 चरोर्भागान् दद्याद्दिग्बलिमादरात् ॥०१०॥

समिधो ऽष्टशतं हुत्वा पालाशांश्चाज्यहोमकं ।
कुर्यात् पुरुषसूक्तेन इरावती तिलाष्टकं ॥०११॥

हुत्वा तु ब्रह्मविष्ण्वीशदेवानामनुयायिनां ।
ग्रहाणामाहुतीर्हुत्वा लोकेशानामथो पुनः ॥०१२॥

पर्वतानां नदीनाञ्च समुद्राणां तथा।अहुतीः ।
हुत्वा च व्याहृतीर्दद्द्यात् स्रुवपूर्णाहुतित्रयं ॥०१३॥

वौषडन्तेन मन्त्रेण वैष्णवेन पितामह ।
पञ्चगव्यं चरुं प्राश्य दत्वाचार्याय दक्षिणां ॥०१४॥

तिलपात्रं हेमयुक्तं सवस्त्रं गामलङ्कृतां ।
प्रीयतां भगवान् विष्णुरित्युत्सृजेद्व्रतं बुधः ॥०१५॥

मासोपवासादेरन्यां प्रतिष्ठां वच्मि पूर्णतः ।
यज्ञेनातोष्य देवेशं श्रपयेद्वैष्णवं चरुं ॥०१६॥

तिलतण्डुलनीवारैः श्यामाकैर् अथवा यवैः ।
आज्येनाधार्य चोत्तार्य होमयेन्मूर्तिमन्त्रकैः ॥०१७॥

विष्ण्वादीनां मासपानां तदन्ते होमयेत् पुनः ।
विश्वास-प्रस्तुतिः

ॐ विष्णवे स्वाहा । ॐ विष्णवे2 निभूयपाय स्वाहा । ॐ
विष्णवे शिपिविष्टाय स्वाहा । ॐ नरसिंहाय स्वाहा । ॐ
पुरुषोत्तमाय स्वाहा
द्वादशाश्वत्थसमिधो होमयेद्घृतसम्प्लुताः ॥०१८॥

विष्णो रराटमन्त्रेण ततो द्वादश चाहुतीः ।

:न्

[[१९५]]

विश्वास-प्रस्तुतिः

इदं विष्णुरिरावती चरोर्द्वादश आहुतीः ॥०१९॥

हुत्वा चाज्याहुतीस्तद्वत्तद्विप्रासेति होमयेत् ।
शेषहोमं ततः कृत्वा दद्यात् पूर्णाहुतित्रयं ॥०२०॥

युञ्जतेत्यनुवाकन्तु1 जप्त्वा प्राशीत वै चरुं ।
प्रणवेन स्वशब्दान्ते कृत्वा पात्रे तु पैप्पले ॥०२१॥

ततो मासाधिपानान्तु विप्रान् द्वादश भोजयेत् ।
त्रयोदश गुरुस्तत्र तेभ्यो दद्यात्त्रयोदश ॥०२२॥

कुम्भान् स्वाद्वम्बुसंयुक्तान्2 सच्छत्रोपानहान्वितान् ।
गावः प्रीतिं समायान्तु प्रचरन्तु प्रहर्षिताः ।
इति गोपथमुत्सृज्य यूपं तत्र निवेशयेत् ॥०२४॥

दशहस्तं प्रपा।अराममठसङ्क्रमणादिषु ।
गृहे च होममेवन्तु कृत्वा सर्वं यथाविधि ॥०२५॥

पूर्वोक्तेन विधानेन प्रविशेच्च गृहं गृही ।
अनिवारितमन्नाद्यं सर्वेष्वेतेषु कारयेत् ॥०२६॥

द्विजेभ्यो दक्षिणा देया यथाशक्त्या विचक्षणैः ।
आरामं कारयेद्यस्तु नन्दने स चिरं वसेत् ॥०२७॥

मठप्रदानात् स्वर्लोके शक्रलोके वसेत्ततः ।
प्रपादानाद्वारुणेन सङ्क्रमेण वसेद्दिवि ॥०२८॥

इष्टकासेतुकारी च गोलोके मार्गकृद्गवां ।
नियमव्रतकृद्विष्णुः कृच्छ्रकृत्सर्वपापहा ॥०२९॥

गृहं दत्वा वसेत्स्वर्गे यावदाभूतसम्प्लवं ।

:न्

[[१९६]]

विश्वास-प्रस्तुतिः

समुदायप्रतिष्ठेष्टा शिवादीनां गृहात्मनां ॥०३०॥

{इत्य् आदिमहापुराणे आग्नेये समुदायप्रतिष्ठाकथनं नाम षट्षष्टितमो ऽध्यायः ॥ }

  1. अङ्गानि कल्पयेदिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. प्रणवं गतिमिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎