{अथ पञ्चषष्टितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
सभास्थापनकथनं
भगवानुवाच
सभादिस्थानं वक्ष्ये तथैव तेषां प्रवर्तनं ।
भूमौ परीक्षितायाञ्च वास्तुयागं समाचरेत् ॥००१॥
मूलम्

:न्
[[१९१]]
विश्वास-प्रस्तुतिः
चतुष्पथे ग्रामादौ1 च न शून्ये कारयेत् सभां ॥००२॥

निर्मलः कुलमुद्धृत्य कर्ता स्वर्गे विमोदते ।
अनेन विधिना कुर्यात् सप्तभौमं हरेर्गृहं ॥००३॥

यथा राज्ञां तथान्येषां पूर्वाद्याश् च ध्वजादयः ।
कोणभुजान् वर्जयित्वा चतुःशालं तु वर्तयेत् ॥००४॥

त्रिशालं वा द्विशालं वा एकशालमथापि वा ।
व्ययाधिकं न कुर्वीत व्ययदोषकरं हि तत् ॥००५॥

आयाधिके भवेत् पीडा तस्मात् कुर्यात् समं द्वयं ।
करराशिं समस्तन्तु कुर्याद्वसुगुणं गुरुः ॥००६॥

सप्तार्चिषा हृते भागे गर्गविद्याविचक्षणः ।
अष्टधा भाजिते तस्मिन् यच्छेषं स व्ययो गतः ॥००७॥

अथवा करराशिं तु हन्यात् सप्तार्चिषा बुधः ।
वसुभिः संहृते भागे पृथ्व्यादि2 परिकल्पयेत् ॥००८॥

ध्वजो धूम्रस् तथा सिंहः श्वा वृषस्तु खरो गजः ।
तथा ध्वाङ्क्षस्तु पूर्वादावुद्भवन्ति विकल्पयेत् ॥००९॥

त्रिशालकत्रयं शस्तं उदक्पूर्वविवर्जितं ।
याम्यां परगृहोपेतं द्विशालं लभ्यते सदा ॥०१०॥

याम्ये शालैकशालं तु प्रत्यक्शालमथापि वा ।
एकशालद्वयं शस्तं शेषास्त्वन्ये भयावहाः ॥०११॥

चतुःशालं सदा शस्तं सर्वदोषविवर्जितं ।
एकभौमादि कुर्वीत भवनं सप्तभौमकं ॥०१२॥
मूलम्
चतुःशालं सदा शस्तं सर्वदोषविवर्जितं ।
एकभौमादि कुर्वीत भवनं सप्तभौमकं ॥०१२॥
विश्वास-प्रस्तुतिः
द्वारवेद्यादिरहितं पूरणेन विवर्जितं ।
देवगृहं देवतायाः प्रतिष्ठाविधिना सदा ॥०१३॥

[[१९२]]
विश्वास-प्रस्तुतिः
संस्थाप्य मनुजानाञ्च समुदायोक्तकर्मणा ।
प्रातः सर्वौषधीस्नानं कृत्वा शुचिरतन्द्रितः ॥०१४॥

मधुरैस्तु द्विजान् भोज्य पूर्णकुम्भादिशोभितं ।
सतोरणं स्वस्ति वाच्य द्विजान् गोष्ठहस्तकः1 ॥०१५॥

गृही गृहं प्रविशेच्च दैवज्ञान् प्रार्च्य2 संविशेत् ।
गृहे पुष्टिकरं मन्त्रं पठेच्चेमं समाहितः ॥०१६॥

ॐ नन्दे नन्दय वाशिष्ठे वसुभिः प्रजया सह ।
जये भार्गवदायदे प्रजानां विजयावहे ॥०१७॥

पूर्णे ऽङ्गिरसदायादे पूर्णकामं कुरुध्व मां ।
भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ॥०१८॥

सर्ववीजौषधीयुक्ते सर्वरत्नौषधीवृते ।
रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह ॥०१९॥

प्रजापतिसुते देवि चतुरस्रे महीयसि ।
सुभगे सुव्रते देवि गृहे काश्यपि रम्यतां ॥०२०॥

पूजिते परमाचार्यैर् गन्धमाल्यैर् अलङ्कृते ।
भवभूतिकरे देवि गृहे भार्गवि रम्यतां ॥०२१॥

अव्यक्ते व्याकृते पूर्णे मुनेरङ्गिरसः सुते ।
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहं ॥०२२॥

देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ।
मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ॥०२३॥
मूलम्
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ।
मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ॥०२३॥
{इत्य् आदिमहापुराणे आग्नेये सभागृहस्थापनं नाम पञ्चषष्टितमो ऽध्यायः ॥ }
:न्
[[१९३]]