०६४ कूपादिप्रतिष्ठा

{अथ चतुःषष्टितमोध्यायः}

विश्वास-प्रस्तुतिः

कूपादिप्रतिष्ठाकथनं

भगवानुवाच
कूपवापीतडागानां प्रतिष्ठां वच्मि तां शृणु ।
जलरूपेण हि हरिः सोमो वरुण उत्तम ॥००१॥

मूलम्

अग्नीषोममयं विश्वं विष्णुरापस्तु कारणं ।
हैमं रौप्यं रत्नजं वा वरुणं कारयेन्नरः ॥००२॥

द्विभुजं हंसपृष्ठस्थं दक्षिणेनाभयप्रदं ।
वामेन नागपाशं तं नदीनागादिसंयुतं ॥००३॥

यागमण्डपमध्ये स्याद्वेदिका कुण्डमण्डिता ।
तोरणं वारुणं कुम्भं न्यसेच्च करकान्वितं ॥००४॥

भद्रके चार्धचन्द्रे वा स्वस्तिके द्वारि कुम्भकान् ।
अग्न्याधानं चाप्यकुण्डे कृत्वा पूर्णां प्रदापयेत् ॥००५॥

[[१८७]]

विश्वास-प्रस्तुतिः

वरुणं स्नानपीठे तु ये ते शतेति संस्पृशेत् ।
घृतेनाभ्यञ्जयेत् पश्चान्मूलमन्त्रेण देशिकः ॥००६॥

शन्नो देवीति प्रक्षाल्य शुद्धवत्या शिवोदकैः ।
अधिवासयेदष्टकुम्भान् सामुद्रं पूर्वकुम्भके ॥००७॥

गाङ्गमग्नौ वर्षतोयं दक्षे रक्षस्तु नैर्झरं ।
नदीतोयं पश्चिमे तु वायव्ये तु नदोदकं ॥००८॥

औद्भिज्जं चोत्तरे स्थाप्य ऐशान्यां तीर्थसम्भवं ।
अलाभे तु नदीतोयं1 यासां राजेति मन्त्रयेत्2 ॥००९॥

देवं निर्मार्ज्य निर्मञ्छ्य दुर्मित्रियेति विचक्षणः3
नेत्रे चोन्मीलयेच्चित्रं तच्चक्षुर्मधुरत्रयैः ॥०१०॥

ज्योतिः सम्पूरयेद्धैम्यां गुरवे गामथार्पयेत् ।
समुद्रज्येष्ठेत्यभिषिञ्चयेद्वरुणं पूर्वकुम्भतः ॥०११॥

समुद्रं गच्छ गाङ्गेयात् सोमो धेन्विति वर्षकात् ।
देवीरापो निर्झराद्भिर् नदाद्भिः पञ्चनद्यतः ॥०१२॥

उद्भिदद्भ्यश्चोद्भिदेन पावमान्याथ तीर्थकैः ।
आपो हि ष्ठा पञ्चगव्याद्धिरण्यवर्णेति स्वर्णजात् ॥०१३॥

आपो अस्मेति वर्षोप्त्यैर् व्याहृत्या कूपसम्भवैः ।
वरुणञ्च तडागोप्त्यैर् वरुणाद्भिस्तु वश्यतः ॥०१४॥

आपो देवीति गिरिजैर् एकाशीविघटैस्ततः ।
स्नापयेद्वरुणस्येति त्वन्नो वरुणा चार्घ्यकं ॥०१५॥

व्याहृत्या मधुपर्कन्तु वृहस्पतेति वस्त्रकं ।
वरुणेति पवित्रन्तु प्रणवेनोत्तरीयकं ॥०१६॥

:न्

[[१८८]]

विश्वास-प्रस्तुतिः

यद्वारण्येन पुष्पादि प्रदद्याद्वरुणाय तु ।
चामरं दर्पणं छत्रं व्यजनं वैजयन्तिकां ॥०१७॥

मूलेनोत्तिष्ठेत्युत्थाप्य तां रात्रिमधिवासयेत् ।
वरुणञ्चेति सान्निध्यं यद्वारण्येन पूजयेत् ॥०१८॥

सजीवीकरणं मूलात् पुनर्गन्धादिना यजेत् ।
मण्डपे1 पूर्ववत् प्रार्च्य कुण्डेषु समिदादिकं ॥०१९॥

वेदादिमन्त्रैर् गन्धाद्याश् चतस्रो धेनवो दुहेत् ।
दिक्ष्वथो वै यवचरुं ततः संस्थाप्य होमयेत्2 ॥०२०॥

व्याहृत्या वाथ गायत्र्या मूलेनामन्त्रयेत्तथा ।
सूर्याय प्रजापतये द्यौः स्वाहा चान्तरिक्षकः ॥०२१॥

तस्यै पृथिव्यै देहधृत्यै इह स्वधृतये ततः ।
इह रत्यै चेह रमत्या उग्रो भीमश् च रौद्रकः ॥०२२॥

विष्णुश् च वरुणो धाता रायस्पोषो महेन्द्रकः3
अग्निर्यमो नैरृतो ऽथ वरुणो वायुरेव च ॥०२३॥

कुवेर ईशो ऽनन्तो ऽथ ब्रह्मा राजा जलेश्वरः ।
तस्मै स्वाहेदं विष्णुश् च तद्विप्रासेति होमयेत् ॥०२४॥

सोमो धेन्विति षड् हुत्वा इमं मेति च होमयेत् ।
आपो हि ष्ठेति तिसृभिरिमा रुद्रेति होमयेत् ॥०२५॥

दशादिक्षु बलिं दद्यात् गन्धपुष्पादिनार्चयेत् ।
प्रतिमां तु समुत्थाप्य मण्डले विन्यसेद् बुधः ॥०२६॥

पूजयेद्गन्धपुष्पाद्यैर् हेमपुष्पादिभिः क्रमात् । :न्

[[१८९]]

विश्वास-प्रस्तुतिः

जलाशयांस्तु दिग्भागे वितस्तिद्वयसम्मितान् ॥०२७॥

कृत्वाष्टौ स्थण्डिलान् रम्यान् सैकतान् देशिकोत्तमः ।
वरुणस्येति मन्त्रेण साज्यमष्टशतं ततः ॥०२८॥

चरुं यवमयं हुत्वा1 शान्तितोयं समाचरेत् ।
सेचयेन्मूर्ध्नि देवं तु सजीवकरणं चरेत् ॥०२९॥

ध्यायेत्तु वरुणं युक्तं गौर्या नदनदीगणैः ।
ॐ वरुणाय नमो ऽभ्यर्च्य ततः सान्निध्यमाचरेत् ॥०३०॥

उत्थाप्य2 नागपृष्ठाद्यैर् भ्रामयेत्तैः समङ्गलैः ।
आपो हि ष्ठेति च क्षिपेत्त्रिमध्वाक्ते घटे जले ॥०३१॥

जलाशये मध्यगतं सुगुप्तं विनिवेशयेत् ।
स्नात्वा ध्यायेच्च वरुणं सृष्टिं ब्रह्माण्डसञ्ज्ञिकां ॥०३२॥

अग्निवीजेन सन्दग्द्ध्य तद्भस्म प्लावयेद्धरां ।
सर्वमपोमयं लोकं ध्यायेत् तत्र जलेश्वरं ॥०३३॥

तोयमध्यस्थितं देवं ततो यूपं निवेशयेत् ।
चतुरस्रमथाष्टास्रं वर्तुलं वा प्रवर्तितं3 ॥०३४॥

आराध्य देवतालिङ्गं दशहस्तं तु कूपके ।
यूपं यज्ञीयवृक्षोत्थं मूले हैमं फलं न्यसेत् ॥०३५॥

वाप्यां पञ्चदशकरं पुष्करिण्यां तु विंशतिकं ।
तडागे पञ्चविंशाख्यं जलमध्ये निवेशयेत् ॥०३६॥

यागमण्डपाङ्गेण वा यूपब्रस्केति मन्त्रतः 4
स्थाप्य तद्वेष्टयेद्वस्त्रैर् यूपोपरि पताकिकां ॥०३७॥

[[१९०]]

विश्वास-प्रस्तुतिः

तदभ्यर्च्य च गन्धाद्यैर् जगच्छान्तिं समाचरेत् ।
दक्षिणां गुरवे दद्याद्भूगोहेमाम्बुपात्रकं ॥०३८॥

द्विजेभ्यो दक्षिणा देया आगतान् भोजयेत्तथा ।
आब्रह्मस्तम्बपर्यन्ता ये केचित्सलिलार्थिनः ॥०३९॥

ते तृप्तिमुपगच्छन्तु तडागस्थेन वारिणा ।
तोयमुत्सर्जयेदेवं1 पञ्चगव्यं विनिक्षिपेत् ॥०४०॥

आपो हि ष्ठेति तिसृभिः शान्तितोयं द्विजैः कृतं ।
तीर्थतोयं क्षिपेत् पुण्यं गोकुलञ्चार्पयेद्विजान्2 ॥०४१॥

अनिवारितमन्नाद्यं सर्वजन्यञ्च कारयेत् ।
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥०४२॥

एकाहं स्थापयेत्तोयं तत्पुण्यमयुतायुतं ।।
विमाने मोदते स्वर्गे नरकं न स गच्छति ॥०४३॥

गवादि पिवते यस्मात्तस्मात् कर्तुर् न पातकं ।
तोयदानात्सर्वदानफलं प्राप्य दिवं यजेत् ॥०४४॥

{इत्य् आदिमहापुराणे आग्नेये कूपवापीतडागादिप्रतिष्ठाकथनं नाम } चतुःषष्टितमो ऽध्यायः ॥

  1. नदीक्षोदमिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. आसां रुद्रेति कीर्तयेदिति ङ, ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. इन्द्रियेति विचक्षण इति ग, घ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. यूपस्थानेति मन्त्रत इति ग, घ, ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎