०६३ सुदर्शनचक्रादिप्रतिष्ठा

{अथ त्रिषष्टितमो ऽध्यायः}

सुदर्शनचक्रादिप्रतिष्ठाकथनं

भगवानुवाच
एवं तार्क्ष्यस्य चक्रस्य ब्रह्मणो नृहरेस् तथा ।
प्रतिष्ठा विष्णुवत् कार्या स्वस्वमन्त्रेण तां शृणु ॥००१॥
सुदर्शन महाचक्र शान्त दुष्टभयङ्कर ।
च्छिन्द छिन्द भिन्द भिन्द विदारय विदारय परमन्त्रान् ग्रस ग्रस
भक्षय भक्षय भूतान् त्रायस त्रायस हूं फट् सुदर्शनाय
नमः ॥
अभ्यर्च्य चक्रं चानेन रणे दारयेते रिपून् ॥००२॥
ॐ क्षौं नरसिम्ह उग्ररूप ज्वल ज्वल प्रज्वल प्रज्वल स्वाहा ॥
नरसिंहस्य मन्त्रोयं पातालाख्यस्य वच्मि ते1
ॐ क्षौं नमो भगवते नरसिंहाय
प्रदीप्तसूर्यकोटिसहस्रसमतेजसे वज्रनखदंष्ट्रायुधायं
स्फुटविकटविकीर्णकेसरसटाप्रक्षुभितमहार्णवाम्भोददुन्दुभिनिर्घोषाय सर्वमन्त्रोत्तारणाय एह्येहि भगवन्नरसिम्ह
पुरुषपरापरब्रह्मसत्येन स्फुर स्फुर विजृम्भ विजृम्भ आक्रम
गर्ज गर्ज मुञ्च मुञ्च सिंहनादान् विदारय विदारय विद्रावय
विद्रावय आविश

:न्

[[१८४]]

आविश सर्वमन्त्ररूपाणि सर्वमन्त्रजातयश् च हन हन छिन्द
सङ्क्षिप सङ्क्षिप सर सर2 दारय दारय स्फुट स्फुट
स्फोटय स्फोटय ज्वालामालासङ्घातमय सर्वतो
ऽनन्तज्वालावज्राशनिचक्रेण सर्वपातालान् उत्सादय उत्सादय सर्वतो
ऽनतज्वालावज्रशरपञ्जरेण सर्वपातालान् परिवारय परिवारय
सर्वपातालासुरवासिनां हृदयान्याकर्षय आकर्षय
शीघ्रं दह दह पच पच मथ मथ शोषय शोषय निकृन्तय
निकृन्तय तावद्यावन्मे वशमागताः पातालेभ्यः फट्
असुरेभ्यः फट् मन्त्ररूपेभ्यः फट् मन्त्रजातिभ्यः फट्
संशयान्मां भगवन्नरसिंहरूप विष्णो सर्वापद्भ्यः
सर्वमन्त्ररूपेभ्यो रक्ष रक्ष ह्रूं फट्1 नमो ऽस्तु ते ॥
नरसिंहस्य विद्येयं हरिरूपार्थसिद्धिदा3 ॥००३॥
त्रिलोक्यमोहनैर् मन्त्रैः स्थाप्यस्त्रैलोक्यमोहनः ।
गदो दक्षे शान्तिकरो द्विभुजो वा चतुर्भुजः ॥००४॥
वामोर्ध्वे कारयेच्चक्रं पाञ्चजन्यमथो ह्य् अधः ।
श्रीपुष्टिसंयुक्तं कुर्याद् बलेन सह भद्रया ॥००५॥
प्रासादे स्थापयेद्विष्णुं गृहे वा मण्डपे ऽपि वा ।
वामनं चैव वैकुण्ठं हयास्यमनिरुद्धकं ॥००६॥
स्थापयेज्जलशय्यास्थं मत्स्यादींश्चावतारकान् ।
सङ्कर्षणं विश्वरूपं लिङ्गं वै रुद्रमूर्तिकं ॥००७॥
अर्धनारीश्वरं तद्वद्धरिशङ्करमातृकाः ।
भैरवं च तथा सूर्यं ग्रहांस्तद्विनायकम् ॥००८॥

:न्

[[१८५]]

गौरीमिन्द्रादिकां लेप्यां2 चित्रजां च बलाबलां ।
पुस्तकानां प्रतिष्ठां च वक्ष्ये लिखनतद्विधिं ॥००९॥
स्वस्तिके मण्डले ऽभ्यर्च्य शरपत्रासने स्थितं1
लेख्यञ्च लिखितं पुस्तं गुरुर्विद्यां हरिं यजेत् ॥०१०॥
यजमानो गुरुं विद्यां हरिं लिपिकृतं नरं ।
प्राङ्मुखः पद्मिनीं ध्यायेत् लिखित्वा श्लोकपञ्चकं ॥०११॥
रौप्यस्थमस्या हैम्या च लेखन्या नागराक्षरं3
ब्राह्मणान् भोजयेच्छक्या शक्त्या दद्याच्च दक्षिणां4 ॥०१२॥
गुरुं विद्यां हरिं प्रार्च्य पुराणादि लिखेन्नरः ।
पूर्ववन्मण्डलाद्ये5 च ऐशान्यां भद्रपीठके ॥०१३॥
दर्पणे पुस्तकं दृष्ट्वा सेचयेत् पूर्ववद् घटैः ।
नेत्रोन्मीलनकं कृत्वा शय्यायां तु न्यसेन्नरः ॥०१४॥
न्यसेत्तु पौरुषं सूक्तं देवाद्यं तत्र पुस्तके ।
कृत्वा सजीवीकरणं प्रार्च्य हुत्वा चरुं ततः ॥०१५॥
सम्प्राश्य दक्षिणाभिस्तु गुर्वादीन् भोजयेद्द्विजान् ।
रथेन हस्तिना वापि भ्राम्येत् पुस्तकं नरैः6 ॥०१६॥
गृहे देवालयादौ तु पुस्तकं स्थाप्य पूजयेत् ।
वस्त्रादिवेष्टितं पाठादादावन्ते समर्चयेत्7 ॥०१७॥

:न्

[[१८६]]

जगच्छान्तिञ्चावधार्य पुस्तकं वाचयेन्नरः ।
अध्यायमेकं कुम्भाद्भिर्यजमानादि सेचयेत् ॥०१८॥
द्विजाय पुस्तकं दत्वा फलस्यान्तो न विद्यते ।
त्रीण्याहुरतिदानानि गावः पृथ्वीं सरस्वती ॥०१९॥
विद्यादानफलं दत्वा मस्यन्तं पत्रसञ्चयं ।
यावत्तु पत्रसङ्ख्यानमक्षराणां तथानघ ॥०२०॥
तावद्वर्षसहस्राणि विष्णुलोके महीयते ।
पञ्चरात्रं पुराणानि भारतानि ददन्नरः ।०२१।
कुलैकविंशमुद्धृत्य परे तत्त्वे तु लीयते ॥०२१॥

{इत्य् आदिमहापुत्राणे आग्नेये देवादिप्रतिष्ठापुस्तकप्रतिष्ठाकथनं नाम } त्रिषष्टितमोध्यायः


  1. पातालाख्यस्य वक्ष्यते इति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎

  2. भूस्वर्णगवान्नादि इति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  3. हरिरूपा सुमिद्विदा इति ग, ङ, चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎

  4. प्राङ्मुखः पद्मिनीं ध्यायेत् लिखित्वा च प्रदापयेत् ।
    ब्राह्मणान् भोजयेच्छक्त्या शक्त्यादद्याच्च दक्षिणामिति ग,
    चिह्नितपुस्तकपाठः ↩︎

  5. पूर्वमण्डपपार्श्वे इति ङ, चिह्नितपुस्तकपाठः ↩︎

  6. पुस्तकं नर इति ख, चिह्नितपुस्तकपाठः ↩︎

  7. अन्ते सदार्चयेदिति ख, ग, चिह्नितपुस्तकपाठः ↩︎