०६२ लक्ष्मीप्रतिष्ठा

{अथ द्विषष्टितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

लक्ष्मीप्रतिष्ठाविधिः

भगवानुवाच
समुदायेन देवादेः प्रतिष्ठां प्रवदामि ते ।
लक्ष्म्याः प्रतिष्ठा प्रथमं तथा देवीगणस्य च ॥००१॥

मूलम्

पूर्ववत् सकलं कुर्यान्मण्डपस्नपनादिकं1
भद्रपीठे श्रियं न्यस्य स्थापयेदष्ट वै घटान्2 ॥००२॥

घृतेनाभ्यज्य मूलेन स्नपयेत् पञ्चगव्यकैः ।
हिरण्यवर्णा हरिणी नेत्रे चोन्मीलयेच्छ्रियाः ॥००३॥

:न्

[[१८२]]

विश्वास-प्रस्तुतिः

तन्म आवह1 इत्य् एवं प्रदद्यान्मधुरत्रयम् ।
अश्वपूर्वेति पूर्वेण तां कुम्भेनाभिषेचयेत्2 ॥००४॥

कामोस्मितेति याम्येन पश्चिमेनाभिषेचयेत् ।
चन्द्रं प्रभासामुच्चार्यादित्यवर्णेति चोत्तरात् ॥००५॥

उपैतु मेति चाग्नेयात् क्षुत्पिपासेति नैरृतात् ।
गन्धद्वारेति वायव्यां मनसः काममाकृतिम् ॥००६॥

ईशानकलशेनैव शिरः सौवर्णकर्दमात् ।
एकाशीतिघटैः स्नानं मन्त्रेणापः सृजन् क्षितिम्3 ॥००७॥

आर्द्रां पुष्करिणीं गन्धैर् आर्द्रामित्यादिपुष्पकैः ।
तन्मयावह मन्त्रेण य आनन्द ऋचाखिलं4 ॥००८॥

शायन्तीयेन शय्यायां श्रीसूक्तेन च सन्निधिम् ।
लक्ष्मीवीजेन चिच्छक्तिं विन्यस्याभ्यर्चयेत् पुनः ॥००९॥

श्रीसूक्तेन मण्डपेथ कुण्डेष्वब्जानि होमयेत् ।
करवीराणि वा हुत्वा सहस्रं शतमेव वा ॥०१०॥

गृहोपकरणान्तादि श्रीसूक्तेनैव चार्पयेत् ।
ततः प्रासादसंस्कारं सर्वं कृत्वा तु पूर्ववत् ॥०११॥

मन्त्रेण पिण्डिकां कृत्वा प्रतिष्ठानं ततः श्रियः5
श्रीसूक्तेन च सान्निध्यं पूर्ववत् प्रत्यृचं जपेत्6 ॥०१२॥

चिच्छक्तिं बोधयित्वा तु मालात् सान्निध्यकं चरेत् ।

:न्

[[१८३]]

विश्वास-प्रस्तुतिः

भूस्वर्णवस्त्रगोन्नादि1 गुरवे ब्रह्मणेर्पयेत् ।०१३।
एवं देव्यो ऽखिलाः स्थाप्यावाह्य स्वर्गादि भावयेत् ॥०१३॥

{इत्य् आदिमहापुराणे आग्नेये लक्ष्मीस्थापनं नाम द्विषष्टितमो ऽध्यायः }

  1. मण्डलस्नपनादिकमिति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. स्थापयेद्वरुणे घटानिति घ, ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  3. मन्त्रेण चासृजत् क्षितिमिति ख, चिह्नतपुस्तकपाठः ↩︎ ↩︎

  4. य आनन्देति वाससमिति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  5. मन्त्रेण पिण्डिकां कृत्वा प्रतिमां स्थापयन् श्रिय इति ङ,
    चिह्न्तपुस्तकपाठः ↩︎ ↩︎

  6. प्रत्यृचं यजेदिति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎