{अथ एकषष्टितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
द्वारप्रतिष्ठाध्वजारोहाणादिविधिः
भगवानुवाच
वक्षे चावभृतस्नानं विष्णोर् नत्वेति1 होमयेत् ।
एकाशीतिपदे कुम्भान् स्थाप्य संस्थापयेद्धरिं ॥००१॥
मूलम्

पूजयेद् गन्धपुष्पाद्यैर् बलिं दत्वा गुरुं यजेत् ।
द्वारप्रतिष्ठां वक्ष्यामि द्वाराधो हेम वै ददेत् ॥००२॥

अष्टभिः कलशैः स्थाप्य शाखोदुम्बरकौ गुरुः ।
गन्धादिभिः समभ्यर्च्य मन्त्रैर् वेदादिभिर्गुरुः ॥००३॥

कुण्डेषु होमयेद्वह्निं समिल्लाजतिलादिभिः ।
दत्वा शय्यादिकञ्चाधो दद्यादाधारशक्तिकां ॥००४॥

शाखयोर्विन्यसेन्मूले देवौ चण्डप्रचण्दकौ ।
ऊर्ध्वोदुम्बरके देवीं लक्ष्मीं सुरगणार्चितां ॥००५॥

न्यस्याभ्यर्च्य2 यथान्यायं श्रीसूक्तेन चतुर्मुखं ।
दत्वा तु श्रीफलादीनि आचार्यादेस्तु दक्षिणां ॥००६॥

:न्
[[१७७]]
विश्वास-प्रस्तुतिः
प्रासादादस्य प्रतिष्ठन्तु हृत्प्रतिष्ठेति तां शृणु ॥००७॥

समाप्तौ शुकनाशाया1 वेद्याः प्राग्दर्भमस्तके ।
सौवर्णं राजतं कुम्भमथवा शुक्लनिर्मितं3 ॥००८॥
विश्वास-प्रस्तुतिः
अष्टरत्नौषधीधातुवीजलौहान्वितं शुभं ।
सवस्त्रं पूरितं चाद्भिर्मण्डले चाधिवासयेत् ॥००९॥

सपल्लवं नृसिंहेन हुत्वा सम्पातसञ्चितं ।
नारायणाख्यतत्त्वेन प्राणभूतं न्यसेत्ततः ॥०१०॥

वैराजभूतान्तं2 ध्यायेत् प्रासादस्य सुरेश्वर ।
ततः पुरुषवत्सर्वं प्रासादं चिन्तयेद् बुधः ॥०११॥

अधो दत्वा सुवर्णं तु तद्ववद् भूतं4 घटं न्यसेत् ।
गुर्वादौ दक्षिणां दद्याद् ब्राह्मणादेश् च भोजनं ॥०१२॥

ततः पश्चाद्वेदिबन्धं तदूर्ध्वं कण्ठबन्धनं ।
कण्ठोपरिष्टात् कर्तव्यं विमलामलसारकं ॥०१३॥

तदूर्ध्वं वृकलं5 कुर्याच्चक्रञ्चाद्यं सुदर्शनं ।
मूत्तिं श्रीवासुदेवस्य ग्रहगुप्तां निवेदयेत् ॥०१४॥

कलशं वाथ कुर्वीत तदूर्ध्वं चक्रमुत्तमं ।
वेद्याश् च परितः स्थाप्या अष्टौ विघ्नेश्वरास्त्वज6 ॥०१५॥

[[१७८]]
विश्वास-प्रस्तुतिः
चत्वारो वा चतुर्दिक्षु स्थापनीया गरुत्मतः ।
ध्वजारोहं च वक्ष्यामि येन भूतादि नश्यति ॥०१६॥

प्रासादविम्बद्रव्याणां यावन्तः परमाणवः ।
तावद्वर्षसहस्राणि तत्कर्ता विष्णुलोकभाक् ॥०१७॥

कुम्भाण्डवेदिविम्बानां भ्रमणाद्वायुनानघ ।
कण्ठस्यावेष्टनाज् ज्ञेयं फलं कोटिगुणं ध्वजात् ॥०१८॥

पताकानां प्रकृतिं विद्धि दण्डं पुरुषरूपिणं ।
प्रासादं वासुदेवस्य मूर्तिभेदं1 निबोध मे ॥०१९॥

धारणाद्धरणीं3 विद्धि आकाशं शुषिरात्मकं ।
तेजस्तत् पावकं विद्धि वायुं स्पर्शगतं तथा ॥०२०॥

पाषाणादिष्वेव जलं पार्थिवं पृथिवीगुणं2 ।
प्रतिशब्दोद्भवं शब्दं स्पर्शं स्यात् कर्कशादिकं ॥०२१॥

शुक्लादिकं भवेद्रूपं रसमन्नादिदर्शनं4 ।
धूपादिगन्धं गन्धन्तु वाग् भेर्यादिषु संस्थिता ॥०२२॥

शुकनाशाश्रिता नासा बाहू तद्रथकौ स्मृतौ ।
शिरस्त्वण्डं निगदितं कलशं मूर्धजं स्मृतं ॥०२३॥

कण्ठं कण्ठमिति ज्ञेयं स्कन्धं वेदी निगद्येते ।
पायूपस्थे प्रणाले तु त्वक् सुधा परिकीर्तिता ॥०२४॥

मुखं द्वारं भवेदस्य प्रतिमा जीव उच्यते ।
तच्छक्तिं पिण्डिकां विद्धि प्रकृतिं च तदाकृतिं ॥०२५॥

[[१७९]]
विश्वास-प्रस्तुतिः
निश् चलत्वञ्च गर्भोस्या अधिष्ठाता तु केशवः ।
एवमेव हरिः साक्षात्प्रासादत्वेन संस्थितः ॥०२६॥

जङ्घा त्वस्य शिवो ज्ञेयः स्कन्धे धाता व्यवस्थितः ।
ऊर्ध्वभागे स्थितो विष्णुरेवं तस्य स्थितस्य हि ॥०२७॥

प्रासादस्य प्रतिष्ठान्तु ध्वजरूपेण मे शृणु ।
ध्वजं कृत्वा सुरैर् दैत्या जिताः शस्त्रादिचिह्नितं1 ॥०२८॥

अण्डोर्ध्वं कलशं न्यस्य तदूर्ध्वं विन्यसेद्ध्वजं ।
विम्बार्धमानं दण्डस्य3 त्रिभागेनाथ कारयेत् ॥०२९॥

अष्टारं द्वादशारं वा मध्ये मूर्तिमतान्वितं ।
नारसिंहेन तार्क्ष्येण ध्वजदण्डस्तु निर्ब्रणः ॥०३०॥

प्रासादस्य तु विस्तारो मानं दण्डस्य कीर्तितं ।
शिखरार्धेन वा कुर्यात् तृतीयार्धेन वा पुनः ॥०३१॥

द्वारस्य दैर्घ्याद् द्विगुणं दण्डं वा परिकल्पयेत् ।
ध्वजयष्टिर्देवगृहे ऐशान्यां वायवेथवा ॥०३२॥

क्षौमाद्यैश् च ध्वजं कुर्याद्विचित्रं वैकवर्णकं2 ।
घण्टाचामरकिङ्किण्या भूषितं पापनाशनं ॥०३३॥

दण्डाग्राद्धरणीं यावद्धस्तैकं विस्तरेण तु ।
महाध्वजः सर्वदः स्यात्तुर्यांशाद्धीनतोर्चितः ॥०३४॥

ध्वजे चार्धेन विज्ञेया पताका मानवर्जिता ।
विस्तरेण ध्वजः कार्यो विंशदङ्गुलसन्निभः ॥०३५॥

[[१८०]]
विश्वास-प्रस्तुतिः
देववत् सकलं कृत्वा मण्डपस्नपनादिकं ॥०३६॥

नेत्रोन्मीलनकं त्यक्ता पूर्वोक्तं सर्वमाचरेत् ।
अधिवासयेच्च विधिना शय्यायां स्थाप्य देशिकः ॥०३७॥

ततः सहस्रशीर्षेति सूक्तं चक्रे न्यसेद् बुधः ।
तथा सुदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत् ॥०३८॥

मनोरूपेण तस्यैव सजीवकरणं स्मृतं ।
अरेषु मूर्तयो न्यस्याः केशवाद्याः सुरोत्तम ॥०३९॥

नाभ्यब्जप्रतिनेमीषु न्यसेत्तत्त्वानि देशिकः ।
नृसिंहं विश्वरूपं वा अब्जमध्ये निवेशयेत् ॥०४०॥

सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकं ।
निष्कलं परमात्मानं ध्वजे ध्यायन् न्यसेद्धरिं ॥०४१॥

तच्छक्तिं व्यापिनीं ध्यायेद् ध्वजरूपां बलाबलां1 ।
मण्डपे3 स्थाप्य चाभ्यर्च्य होमं कुण्डेषु कारयेत् ॥०४२॥

कलशे स्वर्णकलशं न्यस्य रत्नानि पञ्च च ।
स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः2 ॥०४३॥

पारदेन तु सम्प्लाव्य नेत्रपट्टेन च्छादयेत्4 ।
ततो निवेशयेच्चक्रं तन्मध्ये नृहरिं स्मरेत् ॥०४४॥

ॐ क्षों नृसिंहाय5 नमः पूजयेत् स्थापयेद्धरिं ।
ततो ध्वजं गृहीत्वा तु यजमानः सबान्धवः ॥०४५॥

[[१८१]]
विश्वास-प्रस्तुतिः
दधिभक्तयुते पात्रे ध्वजस्याग्रं निवेशयेत् ।
ध्रुवाद्येन फडन्तेन ध्वजं मन्त्रेण पूजयेत् ॥०४६॥

शिरस्याधाय तत् पात्रं नारायनमनुस्मरन् ।
प्रदक्षिणं तु कुर्वीत तुर्यमङ्गलनिःस्वनैः ॥०४७॥

ततो निवेशयेत् दण्डं मन्त्रेणाष्टाक्षरेण तु ।
मुञ्चामि त्वेति सूक्तेन ध्वजं मुञ्चेद्विचक्षणः ॥०४८॥

पात्रं ध्वजं कुञ्जरादि दद्यादाचार्यके द्विजः ।
एष साधारणः प्रोक्तो ध्वजस्यारोहणे विधिः ॥०४९॥

यस्य देवस्य यच्चिह्नं तन्मन्त्रेण स्थिरं चरेत् ।
स्वर्गत्वा ध्वजदानात्तु राजा बली भवेत् ॥०५०॥

{इत्य् आदिमहापुराणे आग्नेये ध्वजारोहणं नाम एकषष्टितमो ऽध्यायः }
-
विष्णुर्नुकेति घ, ङ, चिह्नितपुर्स्तकद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
अथाभ्यर्च्येति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
समिदाज्यतिलादिभिरिति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
तदूर्ध्वं चूर्णकं कुर्यादिति ग, ङ, चिह्नितपुस्तकपाठः ।
तदूर्ध्वं चुल्वकं कुर्यादिति ख, घ,
चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎ -
अष्टौ वेद्येश्वरास्त्वज इति ग, घ, ङ,
चिह्नितपुस्तकत्रयपाठः ↩︎ ↩︎