०६१ द्वारप्रतिष्ठाध्वजारोहणादिकथनं

{अथ एकषष्टितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

द्वारप्रतिष्ठाध्वजारोहाणादिविधिः

भगवानुवाच
वक्षे चावभृतस्नानं विष्णोर् नत्वेति1 होमयेत् ।
एकाशीतिपदे कुम्भान् स्थाप्य संस्थापयेद्धरिं ॥००१॥

मूलम्

पूजयेद् गन्धपुष्पाद्यैर् बलिं दत्वा गुरुं यजेत् ।
द्वारप्रतिष्ठां वक्ष्यामि द्वाराधो हेम वै ददेत् ॥००२॥

अष्टभिः कलशैः स्थाप्य शाखोदुम्बरकौ गुरुः ।
गन्धादिभिः समभ्यर्च्य मन्त्रैर् वेदादिभिर्गुरुः ॥००३॥

कुण्डेषु होमयेद्वह्निं समिल्लाजतिलादिभिः ।
दत्वा शय्यादिकञ्चाधो दद्यादाधारशक्तिकां ॥००४॥

शाखयोर्विन्यसेन्मूले देवौ चण्डप्रचण्दकौ ।
ऊर्ध्वोदुम्बरके देवीं लक्ष्मीं सुरगणार्चितां ॥००५॥

न्यस्याभ्यर्च्य2 यथान्यायं श्रीसूक्तेन चतुर्मुखं ।
दत्वा तु श्रीफलादीनि आचार्यादेस्तु दक्षिणां ॥००६॥

प्रतिष्ठासिद्धद्वारस्य त्वाचार्यः स्थापयेद्धरिं ।

:न्

[[१७७]]

विश्वास-प्रस्तुतिः

प्रासादादस्य प्रतिष्ठन्तु हृत्प्रतिष्ठेति तां शृणु ॥००७॥

समाप्तौ शुकनाशाया1 वेद्याः प्राग्दर्भमस्तके ।
सौवर्णं राजतं कुम्भमथवा शुक्लनिर्मितं3 ॥००८॥

अष्टरत्नौषधीधातुवीजलौहान्वितं शुभं ।
सवस्त्रं पूरितं चाद्भिर्मण्डले चाधिवासयेत् ॥००९॥

सपल्लवं नृसिंहेन हुत्वा सम्पातसञ्चितं ।
नारायणाख्यतत्त्वेन प्राणभूतं न्यसेत्ततः ॥०१०॥

वैराजभूतान्तं2 ध्यायेत् प्रासादस्य सुरेश्वर ।
ततः पुरुषवत्सर्वं प्रासादं चिन्तयेद् बुधः ॥०११॥

अधो दत्वा सुवर्णं तु तद्ववद् भूतं4 घटं न्यसेत् ।
गुर्वादौ दक्षिणां दद्याद् ब्राह्मणादेश् च भोजनं ॥०१२॥

ततः पश्चाद्वेदिबन्धं तदूर्ध्वं कण्ठबन्धनं ।
कण्ठोपरिष्टात् कर्तव्यं विमलामलसारकं ॥०१३॥

तदूर्ध्वं वृकलं5 कुर्याच्चक्रञ्चाद्यं सुदर्शनं ।
मूत्तिं श्रीवासुदेवस्य ग्रहगुप्तां निवेदयेत् ॥०१४॥

कलशं वाथ कुर्वीत तदूर्ध्वं चक्रमुत्तमं ।
वेद्याश् च परितः स्थाप्या अष्टौ विघ्नेश्वरास्त्वज6 ॥०१५॥

[[१७८]]

विश्वास-प्रस्तुतिः

चत्वारो वा चतुर्दिक्षु स्थापनीया गरुत्मतः ।
ध्वजारोहं च वक्ष्यामि येन भूतादि नश्यति ॥०१६॥

प्रासादविम्बद्रव्याणां यावन्तः परमाणवः ।
तावद्वर्षसहस्राणि तत्कर्ता विष्णुलोकभाक् ॥०१७॥

कुम्भाण्डवेदिविम्बानां भ्रमणाद्वायुनानघ ।
कण्ठस्यावेष्टनाज् ज्ञेयं फलं कोटिगुणं ध्वजात् ॥०१८॥

पताकानां प्रकृतिं विद्धि दण्डं पुरुषरूपिणं ।
प्रासादं वासुदेवस्य मूर्तिभेदं1 निबोध मे ॥०१९॥

धारणाद्धरणीं3 विद्धि आकाशं शुषिरात्मकं ।
तेजस्तत् पावकं विद्धि वायुं स्पर्शगतं तथा ॥०२०॥

पाषाणादिष्वेव जलं पार्थिवं पृथिवीगुणं2
प्रतिशब्दोद्भवं शब्दं स्पर्शं स्यात् कर्कशादिकं ॥०२१॥

शुक्लादिकं भवेद्रूपं रसमन्नादिदर्शनं4
धूपादिगन्धं गन्धन्तु वाग् भेर्यादिषु संस्थिता ॥०२२॥

शुकनाशाश्रिता नासा बाहू तद्रथकौ स्मृतौ ।
शिरस्त्वण्डं निगदितं कलशं मूर्धजं स्मृतं ॥०२३॥

कण्ठं कण्ठमिति ज्ञेयं स्कन्धं वेदी निगद्येते ।
पायूपस्थे प्रणाले तु त्वक् सुधा परिकीर्तिता ॥०२४॥

मुखं द्वारं भवेदस्य प्रतिमा जीव उच्यते ।
तच्छक्तिं पिण्डिकां विद्धि प्रकृतिं च तदाकृतिं ॥०२५॥

[[१७९]]

विश्वास-प्रस्तुतिः

निश् चलत्वञ्च गर्भोस्या अधिष्ठाता तु केशवः ।
एवमेव हरिः साक्षात्प्रासादत्वेन संस्थितः ॥०२६॥

जङ्घा त्वस्य शिवो ज्ञेयः स्कन्धे धाता व्यवस्थितः ।
ऊर्ध्वभागे स्थितो विष्णुरेवं तस्य स्थितस्य हि ॥०२७॥

प्रासादस्य प्रतिष्ठान्तु ध्वजरूपेण मे शृणु ।
ध्वजं कृत्वा सुरैर् दैत्या जिताः शस्त्रादिचिह्नितं1 ॥०२८॥

अण्डोर्ध्वं कलशं न्यस्य तदूर्ध्वं विन्यसेद्ध्वजं ।
विम्बार्धमानं दण्डस्य3 त्रिभागेनाथ कारयेत् ॥०२९॥

अष्टारं द्वादशारं वा मध्ये मूर्तिमतान्वितं ।
नारसिंहेन तार्क्ष्येण ध्वजदण्डस्तु निर्ब्रणः ॥०३०॥

प्रासादस्य तु विस्तारो मानं दण्डस्य कीर्तितं ।
शिखरार्धेन वा कुर्यात् तृतीयार्धेन वा पुनः ॥०३१॥

द्वारस्य दैर्घ्याद् द्विगुणं दण्डं वा परिकल्पयेत् ।
ध्वजयष्टिर्देवगृहे ऐशान्यां वायवेथवा ॥०३२॥

क्षौमाद्यैश् च ध्वजं कुर्याद्विचित्रं वैकवर्णकं2
घण्टाचामरकिङ्किण्या भूषितं पापनाशनं ॥०३३॥

दण्डाग्राद्धरणीं यावद्धस्तैकं विस्तरेण तु ।
महाध्वजः सर्वदः स्यात्तुर्यांशाद्धीनतोर्चितः ॥०३४॥

ध्वजे चार्धेन विज्ञेया पताका मानवर्जिता ।
विस्तरेण ध्वजः कार्यो विंशदङ्गुलसन्निभः ॥०३५॥

अधिवासविधानेन चक्रं दण्डं ध्वजं तथा ।

:न्

[[१८०]]

विश्वास-प्रस्तुतिः

देववत् सकलं कृत्वा मण्डपस्नपनादिकं ॥०३६॥

नेत्रोन्मीलनकं त्यक्ता पूर्वोक्तं सर्वमाचरेत् ।
अधिवासयेच्च विधिना शय्यायां स्थाप्य देशिकः ॥०३७॥

ततः सहस्रशीर्षेति सूक्तं चक्रे न्यसेद् बुधः ।
तथा सुदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत् ॥०३८॥

मनोरूपेण तस्यैव सजीवकरणं स्मृतं ।
अरेषु मूर्तयो न्यस्याः केशवाद्याः सुरोत्तम ॥०३९॥

नाभ्यब्जप्रतिनेमीषु न्यसेत्तत्त्वानि देशिकः ।
नृसिंहं विश्वरूपं वा अब्जमध्ये निवेशयेत् ॥०४०॥

सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकं ।
निष्कलं परमात्मानं ध्वजे ध्यायन् न्यसेद्धरिं ॥०४१॥

तच्छक्तिं व्यापिनीं ध्यायेद् ध्वजरूपां बलाबलां1
मण्डपे3 स्थाप्य चाभ्यर्च्य होमं कुण्डेषु कारयेत् ॥०४२॥

कलशे स्वर्णकलशं न्यस्य रत्नानि पञ्च च ।
स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः2 ॥०४३॥

पारदेन तु सम्प्लाव्य नेत्रपट्टेन च्छादयेत्4
ततो निवेशयेच्चक्रं तन्मध्ये नृहरिं स्मरेत् ॥०४४॥

ॐ क्षों नृसिंहाय5 नमः पूजयेत् स्थापयेद्धरिं ।
ततो ध्वजं गृहीत्वा तु यजमानः सबान्धवः ॥०४५॥

[[१८१]]

विश्वास-प्रस्तुतिः

दधिभक्तयुते पात्रे ध्वजस्याग्रं निवेशयेत् ।
ध्रुवाद्येन फडन्तेन ध्वजं मन्त्रेण पूजयेत् ॥०४६॥

शिरस्याधाय तत् पात्रं नारायनमनुस्मरन् ।
प्रदक्षिणं तु कुर्वीत तुर्यमङ्गलनिःस्वनैः ॥०४७॥

ततो निवेशयेत् दण्डं मन्त्रेणाष्टाक्षरेण तु ।
मुञ्चामि त्वेति सूक्तेन ध्वजं मुञ्चेद्विचक्षणः ॥०४८॥

पात्रं ध्वजं कुञ्जरादि दद्यादाचार्यके द्विजः ।
एष साधारणः प्रोक्तो ध्वजस्यारोहणे विधिः ॥०४९॥

यस्य देवस्य यच्चिह्नं तन्मन्त्रेण स्थिरं चरेत् ।
स्वर्गत्वा ध्वजदानात्तु राजा बली भवेत् ॥०५०॥

{इत्य् आदिमहापुराणे आग्नेये ध्वजारोहणं नाम एकषष्टितमो ऽध्यायः }

  1. विष्णुर्नुकेति घ, ङ, चिह्नितपुर्स्तकद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. अथाभ्यर्च्येति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. समिदाज्यतिलादिभिरिति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. तत्त्वभूतमिति घ, ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. तदूर्ध्वं चूर्णकं कुर्यादिति ग, ङ, चिह्नितपुस्तकपाठः ।
    तदूर्ध्वं चुल्वकं कुर्यादिति ख, घ,
    चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎

  6. अष्टौ वेद्येश्वरास्त्वज इति ग, घ, ङ,
    चिह्नितपुस्तकत्रयपाठः ↩︎ ↩︎