०६० वासुदेवप्रतिष्ठा

{अथ षष्टितमोध्यायः }

विश्वास-प्रस्तुतिः

वासुदेवप्रतिष्ठादिविधिः

भगवानुवाच
पिण्डिकास्थापनार्थन्तु गर्भागारं तु सप्तधा ।
विभजेद् ब्रह्मभागे तु प्रतिमां स्थापयेद् बुधः ॥००१॥

मूलम्

देवमनुषपैशाचभागेषु न कदाचन ।
ब्रह्मभागं परित्यज्य किञ्चिदाश्रित्य चाण्डज ॥००२॥

देवमानुषभागाभ्यां स्थाप्या यत्नात्तु पिण्डिका1
नपुंसककशिलायान्तु रत्नन्यासं समाचरेत् ॥००३॥

नारसिंहेन हुत्वा रत्नन्यासं[^४] च तेन वै ।

:न्

[[१७३]]

विश्वास-प्रस्तुतिः

व्रीहीन् रत्नांस्त्रिधातूंश् च लोहादींश् चन्दनादिकान् ॥००४॥

पूर्वादिनवगर्तेषु न्यसेन् मध्ये यथारुचि ।
अथ चेन्द्रादिमन्त्रैश् च गर्तो गुग्गुलुनावृतः ॥००५॥

रत्नन्यासविधिं कृत्वा प्रतिमामालभेद्गुरुः ।
सशलाकैर् दर्भपुञ्जैश् च सहदेवैः समन्वितैः ॥००६॥

सवाह्यन्तैश् च संस्कृत्य पञ्चगव्येन शोधयेत् ।
प्रोक्षयेद्दर्भतोयेन2 नदीतीर्थोदकेन च ॥००७॥

होमार्थे खण्डिलं कुर्यात् सिकताभिः समन्ततः ।
सार्धहस्तप्रमाणं तु चतुरस्रं सुशोभनं ॥००८॥

अष्टदिक्षु यथान्यासं कलशानपि विन्यसेत् ।
पूर्वाद्यानष्टवर्णेन अग्निमानीय संस्कृतं ॥००९॥

त्वमग्नेद्युभिरिति गायत्र्या समिधो हुनेत् ।
अष्टार्णेनाष्टशतकं3 आज्यं पूर्णां प्रदापयेत् ॥०१०॥

शान्त्युदकं आम्रपत्रैः1 मूलेन शतमन्त्रितं ।
सिञ्चेद्देवस्य तन्मूर्ध्नि श्रीश् च ते ह्य् अनया ऋचा ॥०११॥

ब्रह्मयानेन4 चोद्धृत्य उत्तिष्ठ ब्रह्मणस्पते ।
तद्विष्णोरिति मन्त्रेण प्रासादाभिमुखं नयेत् ॥०१२॥

शिविकायां हरिं स्थाप्य भ्रामयीत पुरादिकं ।
गीतवेदादिशब्दैश् च5 प्रासादद्वारि धारयेत् ॥०१३॥

[[१७४]]

विश्वास-प्रस्तुतिः

स्त्रीभिर्विप्रैर् मङ्गलाष्टघटैः2 संस्नापयेद्धरिं ।
ततो गन्धादिनाभ्यर्च्य मूलमन्त्रेण देशिकः ॥०१४॥

अतो देवेति वस्त्राद्यमष्टाङ्गार्घ्यं निवेद्य च ।
स्थिरे लग्ने पिण्डिकायां देवस्य त्वेति धारयेत् ॥०१५॥

ॐ त्रैलोक्यविक्रान्ताय नमस्तेस्तु त्रिविक्रम ।
संस्थ्याप्य पिण्डिकायान्तु स्थिरं कुर्याद्विचक्षणः ॥०१६॥

ध्रुवा द्यौरिति मन्त्रेण विश्वतश् चक्षुरित्यपि ।
पञ्चगव्येन संस्नाप्य क्षाल्य गन्धदकेन च ॥०१७॥

पूजयेत् सकलीकृत्य साङ्गं सावरणं हरिं ।
ध्यायेत् स्वं तस्य मूर्तिन्तु पृथिवी तस्य पीठिका ॥०१८॥

कल्पयेद्विग्रहं तस्य तैजसैः परमाणुभिः ।
जीवमावाहयिष्यामि पञ्चविंशतितत्त्वगं ॥०१९॥

चैतन्यं परमानन्दं जाग्रत्स्वप्नविवर्जितं ।
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं ॥०२०॥

ब्रह्मादिस्तम्बपर्यन्तं हृदयेषु व्यवस्थितं ।
हृदयात् प्रतिमाविम्बे स्थिरो भव परेश्वर ॥०२१॥

सजीवं कुरु बिम्बं त्वं सवाह्याभ्यन्तरस्थितः ।
अङ्गुष्ठमात्रः पुरुषो देहोपाधिषु संस्थितः ॥०२२॥

ज्योतिर्ज्ञानं परं ब्रह्म एकमेवाद्वितीयकं ।
सजीवीकरणं कृत्वा प्रणवेन निबोधयेत् ॥०२३॥

सान्निध्यकरणन्नाम हृदयं स्पृश्य वै जपेत् ।
सूक्तन्तु पौरुषं ध्यायन् इदं गुह्यमनुं जपेत् ॥०२४॥

नमस्तेस्तु सुरेशाय सन्तोषविभवात्मने ।

:न्

[[१७५]]

विश्वास-प्रस्तुतिः

ज्ञानविज्ञानरूपाय ब्रह्मतेजोनुयायिने ॥०२५॥

गुणातिक्रान्तवेशाय2 पुरुषाय महात्मने ।
अक्षयाय पुराणाय विष्णो सन्निहितो भव ॥०२६॥

यच्च ते परमं तत्त्वं3 यच्च ज्ञानमयं वपुः ।
तत् सर्वमेकतो लीनमस्मिन्देहे विबुध्यतां ॥०२७॥

आत्मानं सन्निधीकृत्य ब्रह्मादिपरिवारकान् ।
स्वनाम्ना स्थापयेदन्यानायुधान् स्वमुद्रया ॥०२८॥

यात्रावर्षादिकं दृष्ट्वा1 ज्ञेयः सन्निहितो हरिः ।
नत्वा स्तुत्वा स्तवाद्यैश् च जप्त्वा चाष्टाक्षरादिकं ॥०२९॥

चण्डप्रचण्डौ द्वारस्थौ निर्गत्याभ्यर्चयेद्गुरुः ।
अग्निमण्डपमासाद्य गरुडं स्थाप्य पूजयेत् ॥०३०॥

दिगीशान् दिशि देवांश् च स्थाप्य सम्पूज्य देशिकः ।
विश्वक्सेनं तु संस्थाप्य शङ्खचक्रादि पूजयेत् ॥०३१॥

सर्वपार्षदकेभ्यश् च बलिं भूतेभ्य अर्चयेत् ।
परमवस्त्रसुवर्णादि गुरवे दक्षिणां ददेत् ॥०३२॥

यागोपयोगिद्रव्याद्यमाचार्याय नरोर्पयेत् ।
आचार्यदक्षिणार्धन्तु ऋत्विग्भ्यो दक्षिणां ददेत् ॥०३३॥

अन्येभ्यो दक्षिणां दद्याद्भोजयेद् ब्राह्मणांस्ततः ।
अवारितान् फलान्4 दद्याद्यजमानाय वै गुरुः ॥०३४॥

विष्णुं नयेत् प्रतिष्ठाता[^५] चात्मना सकलं कुलं ।

:न्

[[१७६]]

विश्वास-प्रस्तुतिः

सर्वेषामेव देवानामेष साधारणो विधिः ।०३५।
मूलमन्त्राः पृथक्तेषां शेषं कार्यं समानकं ॥०३५॥

{इत्य् आदिमहापुराणे आग्नेये वासुदेवप्रतिष्ठादिकथनं नाम षष्टितमो ऽध्यायः ॥ }

  1. स्थापयेदाशु पिण्डिकामिति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. चतस्रः स्थापयेच्च गा इति ग, घ, ङ, चिह्नितपुस्तकत्रयपठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. घोषयेच्च ततो मखे इति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  4. वर्णन्यासमिति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  5. गीतवाद्यादिशब्दैश् च इति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎