०५९ देवाधिवासनविधिः

{अथोनषष्टितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

अधिवासनकथनं

भगवानुवाच
हरेः सान्निध्यकरणमधिवासनमुच्यते ।
सर्वज्ञं सर्वगं ध्यात्वा आत्मानं पुरुषोत्तमं ॥००१॥

मूलम्

ओङ्कारेण समायोज्य चिच्छक्तिमभिमानिनीं1
निःसार्यात्मैकतां कृत्वा स्वस्मिन्2 सर्वगते विभौ ॥००२॥

योजयेन्मरुतां पृथ्वीं वह्निवीजेन दीपयेत् ।
संहरेद्वायुना चाग्निं वायुमाकाशतो नयेत् ॥००३॥

:न्

[[१६७]]

विश्वास-प्रस्तुतिः

अधिभूतादिदेवैस्तु साध्याख्यैर् विभवैः1 सह ।
तन्मात्रपात्रकान् कृत्वा संहरेत्तत् क्रमाद् बुधः ॥००४॥

आकाशं मनसाहत्य मनोहङ्करणे कुरु2
अहङ्कारञ्च महति तञ्चाप्यव्याकृते नयेत् ॥००५॥

अव्याकृतं ज्ञानरूपे वासुदेवः स ईरितः3
स तामव्याकृतिं मायामभ्यष्ट सिसृक्षया ॥००६॥

सङ्कर्षणं सं शब्दात्मा स्पर्शाख्यमसृजत् प्रभुः ।
क्षोभ्य मायां स प्रद्युम्नं तेजोरूपं स चासृजत् ॥००७॥

अनिरुद्धं रसमात्रं ब्रह्माणं गन्धरूपकं ।
अनिरुद्धः स च ब्रह्मा अप आदौ ससर्ज ह ॥००८॥

तस्मिन् हिरण्मयञ्चाण्डं सो ऽसृजत् पञ्चभूतवत् ।
तस्मिन् सङ्क्रामिते जीवे4 शक्तिरात्मोपसंहृता ॥००९॥

प्राणो जीवेन संयुक्तो वृत्तिमानिति शब्द्यते ।
जीवोव्याहृतिसञ्ज्ञस्तु प्राणेष्वाध्यात्मिकः स्मृतः ॥०१०॥

प्राणैर् युक्ता ततो बुद्धिः सञ्जाता चाष्टमूर्तिकी5
अहङ्कारस्ततो जज्ञे मनस्तस्मादजायत ॥०११॥

अर्थाः प्रजज्ञिरे पञ्च सङ्कल्पादियुतास्ततः ।
शब्दः स्पर्शश् च रूपञ्च रसो गन्ध इति स्मृता ॥०१२॥

ज्ञानशक्तियुतान्येतैर् आरब्धानीन्द्रियाणि तु ।

:न्

साध्याद्यैर् विभवैर् इति ङ, चिहिनितपुस्तकपाठः

[[१६८]]

विश्वास-प्रस्तुतिः

त्वक्श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु ॥०१३॥

पादौ पायुःस् तथा पाणी वागुपस्थश् च पञ्चमः ।
कर्मेन्द्रियाणि चैतानि पञ्चभूतान्यतः शृणु ॥०१४॥

आकाशवायुतेजांसि सलिलं पृथिवी तथा ।
स्थूलमेभिः शरीरन्तु सर्वाधारं प्रजायते ॥०१५॥

एतेषां वाचका मन्त्रा न्यासायोच्यन्त उत्तमाः ।
जीवभूतं मकारन्तु देवस्य1 व्यापकं न्यसेत् ॥०१६॥

प्राणतत्त्वं भकारन्तु जीवोपाधिगतं न्यसेत् ।
हृदयस्थं बकारन्तु बुद्धितत्त्वं न्यसेद् बुधः ॥०१७॥

फकारमपि तत्रैव अहङ्कारमयं न्यसेत् ।
मनस्तत्त्वं पकारन्तु न्यसेत्सङ्कल्पसम्भवं ॥०१८॥

शब्दतन्मात्रतत्त्वन्तु नकारं मस्तके न्यसेत् ।
स्पर्शात्मकं धकारन्तु वक्त्रदेशे तु विन्यसेत् ॥०१९॥

दकारं रूपतत्त्वन्तु हृद्देशे विनिवेशयेत्2
थकारं वस्तिदेशे तु रसतन्मात्रकं न्यसेत् ॥०२०॥

तकारं गन्धतन्मात्रं जङ्घयोर्विनिवेशयेत् ।
णकारं श्रोत्रयोर् न्यस्य ढकारं विन्यसेत्त्वचि ॥०२१॥

डकारं नेत्रयुग्मे तु रसनायां ठकारकं ।
टकारं नासिकायान्तु ञकारं वाचि विन्यसेत् ॥०२२॥

झकारं करयोर् न्यस्य पाणितत्त्वं विचक्षणः ।
जकारं पदयोर् न्यस्य छं पायौ चमुपस्थके ॥०२३॥

विन्यसेत् पृथिवीतत्त्वं ङकारं पादयुग्मके ।
वस्तौ घकारं गं तत्त्वं तैजसं हृदि विन्यसेत् ॥०२४॥

[[१६९]]

विश्वास-प्रस्तुतिः

खकारं वायुतत्त्वञ्च नासिकायां निवेशयेत् ।
ककारं विन्यसेन्नित्यं खतत्त्वं मस्तके बुधः ॥०२५॥

हृत्पुण्डरीके विन्यस्य यकारं सूर्यदैवतं ।
द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः ॥०२६॥

कलाषोडशसंयुक्तं मकारं तत्र विन्यसेत् ।
तन्मध्ये चिन्तयेन्मन्त्री विन्दुं वह्नेस्तु मण्डलं ॥०२७॥

हकारं1 विन्यसेत्तत्र प्रणवेन सुरोत्तमः ।
ॐ आं परमेष्ठ्यात्मने आं नमः पुरुषात्मने ॥०२८॥

ॐ वां मनोनिवृत्त्यात्मने नाञ्च विश्वात्मने नमः ।
ॐ वं नमः सर्वात्मने इत्य् उक्ताः पञ्च शक्तयः2 ॥०२९॥

स्थाने तु प्रथमा योज्या द्वितीया आसने मता ।
तृतीया शयने तद्वच्चतुर्थी पानकर्मणि3 ॥०३०॥

प्रत्यर्चायां4 पञ्चमी स्यात्पञ्चोपनिषदः स्मृताः ।
हूङ्कारं5 विन्यसेन्मध्ये ध्यात्वा मन्त्रमयं हरिं ॥०३१॥

यां मूर्तिं स्थापयेत्तस्मात्6 मूलमन्त्रं न्यसेत्ततः ।
ॐ नमो भगवते वासुदेवाय मूलकं ॥०३२॥

शिरोघ्राणललाटेषु मुखकण्ठहृदि क्रमात् ।
भुजयोर्जङ्घयोरङ्घ्य्रोः केशवं शिरसि न्यसेत् ॥०३३॥

नारायणं न्यसेद्वक्त्रे ग्रीवायां माधवं न्यसेत् ।

:न्

[[१७०]]

विश्वास-प्रस्तुतिः

गोविन्दं भुजयोर्न्यस्य विष्णुं च हृदये न्यसेत् ॥०३४॥

मधुसूदनकं पृष्ठे वामनं जठरे न्यसेत् ।
कक्ष्यान्त्रिविक्रमं न्यस्य जङ्घायां श्रीधरं न्यसेत् ॥०३५॥

हृषीकेशं दक्षिणायां पद्मनाभं तु गुल्फके ।
दामोदरं पादयोश् च हृदयादिषडङ्गकं ॥०३६॥

एतत् साधारणं प्रोक्तमादिर्मूर्तेस्तु सत्तम ।
अथवा यस्य देवस्य प्रारब्धं स्थापनं भवेत् ॥०३७॥

तस्यैव मूलमन्त्रेण सजीवकरणं भवेत् ।
यस्या मूर्तेस्तु यन्नाम तस्याद्यं चाक्षरं च यत् ॥०३८॥

तत् स्वैरैर् द्वादशैर् भेद्य ह्य् अङ्गानि परिकल्पयेत् ।
हृदयादीनि देवेश मूलञ्च दशमाक्षरं ॥०३९॥

यथा देवे तथा देहे1 तत्त्वानि विनियोजयेत् ।
चक्राब्जमण्दले विष्णुं यजेद्गन्धादिना तथा2 ॥०४०॥

पूर्ववच्चासनं ध्यायेत्सगात्रं3 सपरिच्छदं ।
शुभञ्चक्रं द्वादशारं ह्य् उपरिष्टाद्विचिन्तयेत् ॥०४१॥

त्रिनाभिचक्रं द्विनेमि स्वरैस्तच्च समन्वितं ।
पृष्ठदेशे ततः प्राज्ञः प्रकृत्यादीन्निवेशयेत् ॥०४२॥

पूजयेदारकाग्रेषु[^४] सूर्यं द्वादशधा पुनः ।

:न्

[[१७१]]

विश्वास-प्रस्तुतिः

कलाषोडशसंयुक्तं सोमन्तत्र विचिन्तयेत् ॥०४३॥

सबलं त्रितयं नाभौ चिन्तयेद्देशिकोत्तमः ।
पद्मञ्च द्वादशदलं पद्ममध्ये विचिन्तयेत् ॥०४४॥

तन्मध्ये पौरुषीं शक्तिं ध्यात्वाभ्यर्च्य च दिशिकः1
प्रतिमायां हरिं न्यस्य तत्र तं पूजयेत् सुरान्2 ॥०४५॥

गन्धपुष्पादिभिः सम्यक् साङ्गं सावरणं क्रमात् ।
द्वादशाक्षरवीजैस्तु केशवादीन् समर्चयेत् ॥०४६॥

द्वादशारे मण्डले तु लौकपालादिकं क्रमात् ।
प्रतिमामर्चयेत् पश्चाद्गन्धपुष्पादिभिर्द्विजः ॥०४७॥

पौरुषेण तु सूक्तेन श्रियाः सूक्तेन पिण्डिकां ।
जननादिक्रमात् पश्चाज्जनयेद्वैष्णवानलं ॥०४८॥

हुत्वाग्निं हुतमिति कुण्डेग्निं प्रणयेद्बुधः ।
अग्निप्रणयने मन्त्रस्त्वमग्ने ह्य् अग्निरुच्यते ॥०४९॥

दक्षिणेग्निं हुतमिति कुण्डेग्निं प्रणयेद्बुधः ।
अग्निमग्नीति पूर्वे तु कुण्डेग्निं प्रणयेद्बुधः ॥०५०॥

उत्तरे प्रणयेदग्निमग्निमग्नी हवामहे ।
अग्निप्रणयने मन्त्रस्त्वमग्ने ह्य् अग्निरुच्यते ॥०५१॥

पलाशसमिधानान्तु अष्टोत्तरसहस्रकं ।
कुण्डे कुण्डे होमयेच्च व्रीहीन् वेदादिकैस् तथा ॥०५२॥

साज्यांस्तिलान् व्याहृतिभिर्मूलमन्त्रेण वै घृतं ।
कुर्यात्ततः शान्तिहोमं मधुरत्रितयेन च ॥०५३॥

द्वादशार्णैः स्पृशेत् पादौ नाभिं हृन् मस्तकं ततः ।
घृतं दधि पयो हुत्वा स्पृशेन्मूर्धन्यथो ततः ॥०५४॥

[[१७२]]

विश्वास-प्रस्तुतिः

स्पृष्ट्वा शिरोनाभिपादांश् चतस्रः स्थापयेन्नदीः1
गङ्गा च यमुना गोदा क्रमान्नाम्ना सरस्वती ॥०५५॥

दहेत्तु विष्णुगायत्र्या गायत्र्या श्रपयेच्चरुं ।
होमयेच्च बलिं दद्यादुत्तरे भोजयेद्द्विजान् ॥०५६॥

सामाधिपानां तुष्ट्यर्थं हेमगां गुरवे ददेत् ।
दिक्पतिभ्यो बलिं दत्त्वा रात्रौ कुर्याच्च जागरं ।०५७।
ब्रह्मगीतादिशब्देन सर्वभागधिवासनात् ॥०५७॥

{इत्य् आदिमहापुराणे आग्नेये अधिवासनं नाम ऊनषष्टितमो ऽध्यायः ॥ }

  1. मतिशालिनीमिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. कृत्वा पुंसीति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. वासुदेवे समाहित इति ङ, इति चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. सङ्क्रमते जीव इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  5. चाष्टवृत्तिकीति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  6. या मूर्तिः स्थाप्यते तस्यामिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎