०५८ देवस्नपनविधिः

{अथ अष्टपञ्चाशत्तमो ऽध्यायः}

विश्वास-प्रस्तुतिः

स्नानादिविधिः

भगवानुवाच
ऐशान्यां जनयेत् कुण्डं गुरुर्वह्निञ्च वैष्णवं ।
गायत्र्यष्टशतं हुत्वा सम्पातविधिना घटान् ॥००१॥

मूलम्

प्रोक्षयेत् कारुशालायां शिल्पिभिर्मूर्तिपैर् व्रजेत् ।
तूर्यशब्दैः कौतुकञ्च बन्धयेद्दक्षिणे करे ॥००२॥

विष्णवे शिपिविष्टेति ऊर्णासूत्रेण सर्षपैः ।
पट्टवस्त्रेण कर्तव्यं देशिकस्यापि कौतुकं ॥००३॥

मण्डपे1 प्रतिमां स्थाप्य सवस्त्रां पूजितान् स्तुवन् ।
नमस्तेर्च्ये सुरेशानि प्रणीते विश्वकर्मणा ॥००४॥

प्रभाविताशेषजगद्धात्रि तुभ्यं नमो नमः ।
त्वयि सम्पूजयामीशे नारायणमनामयं ॥००५॥

मूलम्

प्रभाविताशेषजगद्धात्रि तुभ्यं नमो नमः ।
त्वयि सम्पूजयामीशे नारायणमनामयं ॥००५॥

विश्वास-प्रस्तुतिः

रहिता शिल्पिदोषैस्त्वमृद्धियुक्ता सदा भव ।
एवं विज्ञाप्य प्रतिमां नयेत्तां स्नानमण्डपं ॥००६॥

शिल्पिनन्तोषयेद्द्रव्यैर् गुरवे गां प्रदापयेत् ।
चित्रं देवेति मन्त्रेण नेत्रे चोन्मीलयेत्ततः ॥००७॥

:न्

[[१६४]]

विश्वास-प्रस्तुतिः

अग्निर्ज्योतीति दृष्टिञ्च दद्याद्वै भद्रपीठके ।
ततः शुक्लानि पुष्पाणि घृतं सिद्धार्थकं तथा ॥००८॥

दूर्वां कुशाग्रं देवस्य दद्याच्छिरसि देशिकः ।
मधुवातेति मन्त्रेण नेत्रे चाभ्यञ्जयेद्गुरुः ॥००९॥

हिरण्यगर्भमन्त्रेण इमं मेति च कीर्तयेत् ।
घृतेनाभ्यञ्जयेत् पश्चात् पठन् घृतवतीं पुनः ॥०१०॥

मसूरपिष्टे नोद्वर्त्य1 अतो देवेति कीर्तयन् ।
क्षालयेदुष्णतोयेन सप्त ते ऽग्रेति देशिकः ॥०११॥

द्रुपदादिवेत्यनुलिम्पेदापो हि ष्ठेति सेचयेत् ।
नदीजैस्तीर्थजैः स्नानं पावमानीति रत्नजैः ॥०१२॥

समुद्रं गच्छ चन्दनैस्तीर्थमृत्कलशेन च ।
शन्नो देवीः स्नापयेच्च गायत्र्याप्युष्णवारिणा2 ॥०१३॥

पञ्चमृद्धिर्हिरण्येति स्नापयेत्परमेश्वरं ।
सिकताद्भिरिर्मं मेति वल्मीकोदघटेन च ॥०१४॥

तद्विष्णोरिति ओषध्यद्भिर्या ओषधीति मन्त्रतः ।
यज्ञायज्ञेति काषायैः पञ्चभिर्गव्यकैस्ततः ॥०१५॥

पयः पृथिव्यां मन्त्रेण याः फलिनी फलाम्बुभिः ।
विश्वतश् चक्षुः सौम्येन पूर्वेण कलसेन च ॥०१६॥

सोमं राजानमित्येवं विष्णो रराटं दक्षतः ।
हंसः शुचिः पश्चिमेन कुर्यादुद्वर्तनं हरेः ॥०१७॥

मूर्धानन्दिवमन्त्रेण धात्रीं मांसीं च के ददेत्3
मानस्तोकेति मन्त्रेण गन्धद्वारेति गन्धकैः ॥०१८॥

[[१६५]]

विश्वास-प्रस्तुतिः

इदमापेति च घटैर् एताशीतिपदस्थितैः ।
एह्येहि भगवन् विष्णो लोकानुग्राहकारक ॥०१९॥

यज्ञभागं गृहाणेमं वासुदेव नमोस्तु ते ।
अनेनावाह्य देवेशं कुर्यात् कौतुकमोचनं ॥०२०॥

मुञ्चामि त्वेति सूक्तेन देशिकस्यापि मोचयेत् ।
हिरण्मयेन पाद्यं दद्यादतो देवेति चार्घ्यकं ॥०२१॥

मधुवाता मधुपर्कं मयि गृह्णामि चाचमेत् ।
अक्षन्नमीमदन्तेति किरेद्दर्वाक्षतं बुधः ॥०२२॥

काण्डान्निर्मञ्छनं कुर्याद्गन्धं गन्धवतीति च ।
उन्नयामीति1 माल्यञ्च इदं विष्णुः पवित्रकं ॥०२३॥

वृहस्पते वस्त्रयुग्मं वेदाहमित्युत्तरीयकं ।
महाव्रतेन सकलीपुष्पं चौषधयः क्षिपेत् ॥०२४॥

धूपं दद्याद्धूरसीति विभ्राट्सूक्तेन चाञ्जनं ।
युञ्जन्तीति च तिलकं दीर्घायुष्ट्वेति माल्यकं ॥०२५॥

इन्द्रच्छत्रेति छत्रन्तु आदर्शन्तु विराजतः ।
चामरन्तु विकर्णेन भूषां रथन्तरेण च ॥०२६॥

व्यजनं वायुदैवत्यैर् मुञ्चामि त्वेति पुष्पकं ।
वेदाद्यैः संस्तुतिं कुर्याद्धरेः पुरुषसूक्ततः ॥०२७॥

सर्वमेतत्समं कुर्यात् पिण्डिकादौ हरादिके ।
देवस्योत्थानसमये सौपर्णं सूक्तमुच्चरेत् ॥०२८॥

उत्तिष्ठेति समुत्थाप्य शय्याया मण्डपे नयेत् ।
शाकुनेनैव सूक्तेन देवं ब्रह्मरथादिना ॥०२९॥

अतो देवेति सूक्तेन प्रातिमां पिण्डिकां तथा ।
श्रीसूक्तेन च शय्यायां विष्णोस्तु शकलीकृतिः ॥०३०॥

[[१६६]]

विश्वास-प्रस्तुतिः

मृगराजं वृषं नागं व्यजनं कलशं तथा ।
वैजयन्तीं तथा भेरीं दीपमित्यष्टमङ्गलं ॥०३१॥

दर्शयेदश्वसूक्तेन पाददेशे त्रिपादिति ।
उखां पिधानकं पात्रमम्बिकां दर्विकां ददेत् ॥०३२॥

मुषलोलूखलं दद्याच्छिलां सम्मार्जनीं तथा ।
तथा भोजनभाण्डानि गृहोपकारणानि च ॥०३३॥

शिरोदेशे च निद्राख्यं वस्त्ररत्नयुतं घटं ।
खण्डखाद्यैः पूरयित्वा स्नपनस्य विधिः स्मृतः ॥०३४॥

{इत्य् आदिमहापुराणे आग्नेये स्नपनादिविधानं नाम अष्टपञ्चाशो ऽध्यायः ॥ }

  1. मण्डले इति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. गायत्र्या गन्धवारिणा इति ग, घ, ङ,
    चिह्नितपुस्तकत्रयपाठः ↩︎ ↩︎

  3. धात्रीमांस्युदकेन चेति घ, चिह्नितपुस्तकपाठः ↩︎ ↩︎