०५७ कलशाधिवासः

{अथ सप्तपञ्चाशोध्यायः}

विश्वास-प्रस्तुतिः

कुम्भाधिवासविधिः

भगवानुवाच
भूमेः परिग्रहं कुर्यात् क्षिपेद्ब्रीहींश् च सर्षपान् ।
नारसिंहेन रक्षोघ्नान् प्रोक्षोघ्नान् प्रोक्षयेत् पञ्चगव्यतः ॥००१॥

मूलम्

भूमिं घटे तु सम्पूज्य सरत्ने साङ्गकं हरिं ।
अस्त्रमन्त्रेण करकं1 तत्र चाष्टशतं यजेत् ॥००२॥

अच्छिन्नधारया सिञ्चन् ब्रीहीन् संस्कृत्य धारयेत् ।

:न्

[[१६१]]

विश्वास-प्रस्तुतिः

प्रदक्षिणं परिभ्राम्य कलशं विकिरोपरि ॥००३॥

सवस्त्रे कलशे भूयः पूजयेदच्युतं श्रियं ।
योगे योगेति मन्त्रेण न्यसेच्छय्यान्तु मण्डले ॥००४॥

कुशोपरि तूलिकाञ्च शय्यायां दिग्विदिक्षु च ।
विद्याधिपान् यजेद्विष्णुं मधुघातं त्रिविक्रमं ॥००५॥

वामनं दिक्षु वाय्वादौ1 श्रीधरञ्च हृषीकपं ।
पद्मनाभं दामोदरमैशान्यां स्नानमण्डपे ॥००६॥

अभ्यर्च्य पश्चादैशान्यां चतुष्कुम्भे2 सवेदिके ।
स्नानमण्डषके सर्वद्रव्याण्यानीय निक्षिपेत् ॥००७॥

स्नानकुम्भेषु कुम्भांस्तांश् चतुर्दिक्ष्वधिवासयेत् ।
कलशाः स्थापनीयास्तु अभिषेकार्थमादरात् ॥००८॥

वटोदुम्बरकाश्वत्थांश् चम्पकाशोकश्रीद्रुमान्3
पलाशार्जुनप्लक्षांस्तु कदम्बवकुलाम्रकान् ॥००९॥

पल्लवांस्तु समानीय पूर्वकुम्भे4 विनिक्षिपेत् ।
पद्मकं रोचनां दूर्वां दर्भपिञ्जलमेव च ॥०१०॥

जातीपुष्पं कुन्दपुष्पचन्दनं रक्तचन्दनं ।
सिद्धार्थं तगरञ्चैव तण्डुलं दक्षिणे न्यसेत् ॥०११॥

सवर्णं रजतञ्चैव कूलद्वयमृदन्तथा ।
नद्याः समुद्रगामिन्या विशेषात् जाह्नवीमृदं ॥०१२॥

गोमयञ्च यवान् शालींस्तिलांश् चैवापरे न्यसेत् ।
विष्णुपर्णीं श्यामलतां भृङ्गराजं शतावरीं ॥०१३॥

[[१६२]]

विश्वास-प्रस्तुतिः

सहदेवां महादेवीं1 बलां व्यघ्रीं सलक्ष्मणां ।
ऐशान्यामपरे कुम्भे मङ्गल्यान्विनिवेशयेत् ॥०१४॥

वल्मीकमृत्तिकां सप्तस्थानोत्थामपरे न्यसेत् ।
जाह्नवीवालुकातोयं विन्यसेदपरे घटे ॥०१५॥

वराहवृषनागेन्द्रविषाणोद्धृतमृत्तिकां ।
मृत्तिकां पद्ममूलस्य कुशस्य त्वपरे न्यसेत् ॥०१६॥

तीर्थपर्वतमृद्भिश् च युक्तमप्यपरे न्यसेत् ।
नागकेशरपुष्पञ्च काश्मीरमपरे न्यसेत् ॥०१७॥

चन्दनागुरुकर्पूरैः पुष्पं चैवापरे न्यसेत् ।
वैदूर्यं विद्रुमं मुक्तां स्फटिकं वज्रमेव च ॥०१८॥

एतान्येकत्र निक्षिप्य स्थापयेद्देवसत्तम ।
नदीनदतडागानां सलिलैर् अपरं न्यसेत् ॥०१९॥

एकाशीतिपदे चान्यान्मण्डपे कलशान् न्यसेत् ।
गन्धोदकाद्यैः सम्पूर्णान् श्रीसूक्तेनाभिमन्त्रयेत् ॥०२०॥

यवं सिद्धार्थकं गन्धं कुशाग्रं चाक्षतं तथा ।
तिलान् फलं तथा पुष्पमर्घ्यार्थं पूर्वतो न्यसेत् ॥०२१॥

पद्मं श्यामलतां दूर्वां विष्णुपर्णीं कुशांस्
तथा ।
पाद्यार्थं दक्षिणे भागे मधुपर्कं तु दक्षिणे2 ॥०२२॥

कक्कोलकं लवङ्गञ्च तथा जातीफलं शुभं ।
उत्तरे ह्य् आचमनाय अग्नौ दूर्वाक्षतान्वितं ॥०२३॥

पात्रं नीराजनार्थं च तथोद्वर्तनमानिले ।
गन्धपुष्पान्वितं पात्रमैशान्यां पात्रके न्यसेत् ॥०२४॥

[[१६३]]

विश्वास-प्रस्तुतिः

मुरामांसी चामलकं सहदेवां निशादिकं ।
षष्टिदीपान्न्यसेदष्टौ न्यसेन्नीराजनाय च ॥०२५॥

शङ्खं चक्रञ्च श्रीवत्सं कुलिशं पङ्कजादिकं ।
हेमादिपात्रे कृत्वा तु नानावर्णादिपुष्पकं ॥०२६॥

{इत्य् आदिमहापुराणे आग्नेये कलशाधिवासो नाम सप्तपञ्चाशत्तमो ऽध्यायः ॥ }

  1. अस्त्रमन्त्रेण कवचमिति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. चतुस्तम्भे इति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  3. पद्मकाशोकश्रीद्रुमानिति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  4. पर्णकुम्भ इति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎