{अथ षट्पञ्चाशत्तमो ऽध्यायः}
विश्वास-प्रस्तुतिः
दिक्पालयागकथनं
भगवानुवाच
प्रतिष्ठापञ्चकं वक्ष्ये प्रतिमात्मा तु पूरुषः ।
प्रकृतिः पिण्डिका लक्ष्मीः प्रतिष्ठा योगकस्तयोः ॥००१॥
मूलम्

इच्छाफलार्थिभिस्तस्मात्प्रतिष्ठा क्रियते नरैः ।
गर्भसूत्रं तु निःसार्य1 प्रासादस्याग्रतो गुरुः ॥००२॥

अष्टषोडशविंशान्तं मण्डपञ्चाधमादिकम् ।
स्नानं कलशार्थञ्च यागद्रव्यार्थमर्धतः ॥००३॥

:न्
[[१५८]]
विश्वास-प्रस्तुतिः
कलशैर् घटिकाभिश् च वितानाद्यैश् च भूषयेत् ॥००४॥

पञ्चगव्येन सम्प्रोक्ष्य सर्वद्रव्याणि धारयेत् ।
अलङ्कृतो गुरुर्विष्णुं ध्यात्वात्मानं प्रपूजयेत् ॥००५॥

अङ्गुलीयप्रभृतिभिर्मूर्तिपान् वलयादिभिः ।
कुण्डे कुण्डे स्थापयेच्च मूर्तिपांस्तत्र पारगान् ॥००६॥

चतुष्कोणे चार्धकोणे वर्तुले पद्मसन्निभे ।
पूर्वादौ तोरणार्थन्तु पिप्पलोडुम्बरौ वटं ॥००७॥

प्लक्षं सुशोभनं पूर्वं सुभद्रन्दक्षतोरणं ।
सुकर्म च सुहोत्रञ्च आप्ये सौम्ये समुच्छ्रयम् ॥००८॥

पञ्चहस्तं तु संस्थाप्य स्योनापृथ्वीति पूजयेत् ।
तोरणस्तम्भमूले तु कलशान्मङ्गलाङ्कुरान् ॥००९॥

प्रदद्यादुपरिष्टाच्च कुर्याच्चक्रं सुदर्शनं ।
पञ्चहस्तप्रमाणन्तु ध्वजं कुर्याद्द्विचक्षणः ॥०१०॥

वैपुल्यं चास्य कुर्वीत षोडशाङ्गुलसन्मितं ।
सप्तहस्तोच्छ्रितं वास्य कुर्यात् कुण्डं सुरोत्तम2 ॥०११॥

अरुणोग्निनिभश् चैव कृष्णः शुक्लोथ पीतकः ।
रक्तवर्णस् तथा श्वेतः श्वेतवर्णादिकक्रमात्1 ॥०१२॥

कुमुदः कुमुदाक्षश् च पुण्डरीकोथ वामनः ।
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ॥०१३॥

पूज्या कोटिगुणैर् युक्ताः पूर्वाद्या ध्वजदेवताः ।
जलाढकसुपूरास्तु पक्वविम्बोपमा घटाः ॥०१४॥

[[१५९]]
विश्वास-प्रस्तुतिः
अष्टाविंशाधिकशतं कालमण्डनवर्जिताः ।
सहिरण्या वस्त्रकण्ठाः सोदकास्तोरणाद्वहिः ॥०१५॥

घटाः स्थाप्याश् च पूर्वादौ वेदिकायाश् च कोणगान् ।
चतुरः स्थापयेत् कुम्भानाजिघ्रेति च मन्त्रतः ॥०१६॥

कुम्भेष्वावाह्य शक्रादीन् पूर्वादौ पूजयेत् क्रमात् ।
इन्द्रागच्छ देवराज वज्रहस्त गजस्थित ॥०१७॥

पूर्वद्वारञ्च मे रक्ष देवैः सह नमोस्तु ते ।
त्रातारमिन्द्रमन्त्रेण अर्चयित्वा यजेद् बुधः ॥०१८॥

आगच्छाग्रे शक्तियुत2 च्छागस्थ बलसंयुत ।
रक्षाग्नेयीं दिशं देवैः पूजां गृह नमोस्तु ते ॥०१९॥

अग्निमूर्धेतिमन्त्रेण1 यजेद्वा आग्नेय नमः ।
महिषस्थ यमागच्छ दण्डहस्त महाबल ॥०२०॥

रक्ष त्वं दक्षिणद्वारं वैवस्वत नमोस्तु ते ।
वैवस्वतं सङ्गमनमित्यनेन यजेद्यमं ॥०२१॥

नैरृतागच्छ खड्गाढ्य बलवाहनसंयुत3 ।
इदमर्घ्यमिदं पाद्यं रक्ष त्वं नैरृतीं दिशं ॥०२२॥

एष ते नैरृते मन्त्रेण यजेदर्घ्यादिभिर् नरः ।
मकरारूढ वरुण पाशहस्त महाबल ॥०२३॥

आगच्छ पश्चिमं द्वारं रक्ष रक्ष नमोस्तु ते ।
उरुं हि राजा वरुणं यजेदर्घ्यादिभिर्गुरुः ॥०२४॥

आगच्छ वायो सबल ध्वजहस्त सवाहन ।
वायव्यं रक्ष देवैस्त्वं समरुद्भिर् नमोस्तु ते ॥०२५॥

[[१६०]]
विश्वास-प्रस्तुतिः
वात इत्य् आदिभिश्चार्वेदोन्नमो वायवेपि वा ।
आगच्छ सोम सबला गदाहस्त सवाहन ॥०२६॥

रक्ष त्वमुत्तरद्वारं सकुवेर नमोस्तु ते ।
सोमं राजानमिति वा यजेत्सोमाय वै नमः ॥०२७॥

आगच्छेशान सबल शूलहस्त वृषस्थित ।
यज्ञमण्डपस्यैशानीं दिशं रक्ष नमोस्तु ते ॥०२८॥

ईशानमस्येति यजेदीशानाय नमोपि वा ।
ब्रह्मन्नागच्छ हंसस्थ स्रुक्स्रुवव्यग्रहस्तक ॥०२९॥

सलोकोर्ध्वां दिशं रक्ष यज्ञस्याज नमोस्तु ते ।
हिरण्यगर्भेति यजेन्नमस्ते ब्रह्मणेपि वा ॥०३०॥

अनन्तागच्छ चक्राढ्य कूर्मस्थाहिगणेश्वर ।
अधोदिशं रक्ष रक्ष अनन्तेश नमोस्तु ते ।०३१।
नमोस्तु सर्पेति यजेदनन्ताय नमोपि वा ॥०३१॥

{इत्य् आदिमहापुराणे आग्नेये दिक्पतियागो नाम षट्पञ्चाशत्तमोध्यायः ॥ }