{अथ पञ्चपञ्चाशत्तमो ऽध्यायः }
विश्वास-प्रस्तुतिः
पिण्डिकालक्षणकथनं
भगवानुवाच
अतः परम्प्रवक्ष्यामि प्रतिमानान्तु पिण्डिकाम् ।
दैर्घ्येण प्रतिमातुल्या तदर्धेन तु विस्तृता ॥००१॥
मूलम्

उच्छ्रितायामतोर्धेन सुविस्तारार्धभागतः ।
तृतीयेन तु वा तुल्यं1 तत्त्रिभागेण मेखला ॥००२॥

खातं च तत्प्रमाणं तु किञ्चिदुत्तरतो नतम् ।
विस्तारस्य चतुर्थेन प्रणालस्य विनिर्गमः ॥००३॥

समूलस्य विस्तारमग्रे कुर्यात्तदर्धतः ।
विस्तारस्य तृतीयेन तोयमार्गन्तु कारयेत् ॥००४॥

पिण्डिकार्धेन वा तुल्यं2 दैर्घ्यमीशस्य3 कीर्तितम् ।
ईशं वा4 तुल्यदीर्घञ्च ज्ञात्वा सूत्रं प्रकल्पयेत् ॥००५॥

:न्
[[१५७]]
विश्वास-प्रस्तुतिः
उच्छ्रायं पूर्ववत् कुर्याद्भागषोडशसङ्ख्यया ।
अधः षट्कं द्विभागन्तु कण्ठं कुर्यात्त्रिभागकम् ॥००६॥

शेषास्त्वेकैकशः कार्याः प्रतिष्ठानिर्गमास् तथा ।
पट्टिका पिण्डिका चेयं सामान्यप्रतिमासु च ॥००७॥

प्रासादद्वारमानेन प्रतिमाद्वारमुच्यते5 ।
गजव्यालकसंयुक्ता प्रभा स्यात् प्रतिमासु च ॥००८॥

पिण्डिकापि यथाशोभं कर्तव्या सततं हरेः ।
सर्वेषामेव देवानां शिष्णूक्तं मानमुच्यते ।००९।
देवीनामपि सर्वासां लक्ष्म्युक्तं मानमुच्यते ॥००९॥

{इत्य् आदिमहापुराणे आग्नेये पिण्डिकालक्षणं नाम पञ्चपञ्चाशत्तमो ऽध्यायः ॥ }