०५४ व्यक्ताव्यक्तलिङ्गलक्षणम्

{अथ चतुःपञ्चाशत्तमोध्यायः}

विश्वास-प्रस्तुतिः

लिङ्गमानादिकथनं

भगवानुवाच
वक्ष्याम्यन्यप्रकारेण1 लिङ्गमानादिकं शृणु ।
वक्ष्ये लवणजं लिङ्गं घृतजं बुद्धिवर्धनम् ॥००१॥

मूलम्

भूतये वस्त्रलिङ्गन्तु लिङ्गन्तात्कालिकं विदुः ।
पक्वापक्वं मृण्मयं स्यादपक्वात् पक्वजं वरं ॥००२॥

ततो दारुमयं पुण्यं दारुजात् शैलजं वरं ।
शैलाद्वरं तु मुक्ताजं ततो लौहं सुवर्णजं ॥००३॥

राजतं कीर्तितं ताम्रं पैत्तलं भुक्तिमुक्तिदं ।
रङ्गजं 2 रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरं ॥००४॥

रसजं रसलोहादिरत्नगर्भन्तु वर्धयेत् ।
मानादि नेष्टं सिद्धादि स्थापितेथ स्वयम्भुवि ॥००५॥

वामे च स्वेच्छया तेषां पीठप्रासादकल्पना ।
पूजयेत् सूर्यविम्बस्थं दर्पणे प्रतिविम्बितं ॥००६॥

पूज्ये हरस्तु सर्वत्र लिङ्गे पूर्णार्चनं भवेत् ।
हस्तोत्तरविधं शैलं3 दारुजं तद्वदेव हि ॥००७॥

:न्

[[१५२]]

विश्वास-प्रस्तुतिः

चलमङ्गुलमानेन द्वारगर्भकरैः स्थितम्1
अङ्गुलाद् गृहलिङ्गं स्याद्यावत् पञ्चशाङ्गुलं ॥००८॥

द्वारमानात् त्रिसङ्ख्याकं नवधा गर्भमानतः ।
नवधा गर्भमानेन लिङ्गन्धाम्नि च पूजयेत् ॥००९॥

एवं लिङ्गानि षट्त्रिंशत् ज्ञेयानि ज्येष्ठमानतः ।
मध्यमानेन षट्त्रिंशत् षट्त्रिंशदधमेन च ॥०१०॥

इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत् ।
एकाङ्गुलादिपञ्चान्तं कन्यसञ्चलमुच्यते ॥०११॥

षद्वादिदशपर्यन्तञ्चलं लिङ्गञ्च मध्यमं ।
एकादशाङ्गुलादि स्यात् ज्येष्ठं पञ्चदशान्तकम् ॥०१२॥

षडङ्गुलं महारत्नै रत्नैर् अन्यैर् नवाङ्गुलम् ।
रविभिर्हेमभारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः ॥०१३॥

षोडशांशे च वेदांशे युगं लुप्त्वोर्ध्वदेशतः ।
द्वात्रिंशत्षोडशांशांश् च2 कोणयोस्तु विलोपयेत् ॥०१४॥

चतुर्निवेशनात् कण्ठो विंशतिस्त्रियुगैस् तथा3
पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरं4 ॥०१५॥

धाम्नो युगर्तुनागांशैर् द्वारं हीनादितः क्रमात् ।
लिङ्गद्वारोच्छ्रयादर्वाग् भवेत् पादोनतः क्रमात् ॥०१६॥

गर्भार्धेनाधमं लिङ्गं भूतांशैः स्यात् त्रिभिर्वरं ।
तयोर्मध्ये च सूत्राणि सप्त सम्पातयेत् समं ॥०१७॥

[[१५३]]

विश्वास-प्रस्तुतिः

एवं स्युर्नव सूत्राणि भूतसूत्रैश् च मध्यमं ।
द्व्यन्तरो वामवामञ्च1 लिङ्गानां दीर्घता नव ॥०१८॥

हस्ताद्विवर्धते हस्तो यावत्स्युर् नव पाणयः ।
हीनमध्योत्तमं लिङ्गं त्रिविधं त्रिविधात्मकम् ॥०१९॥

एकैकलिङ्गमध्येषु त्रीणि त्रीणि च पादशः ।
लिङ्गानि घटयेद्धीमान् षट्सु चाष्टोत्तरेषु च ॥०२०॥

स्थिरदीर्घप्रमेयात्तु द्वारगर्भकरात्मिका ।
भागेशञ्चाप्यमीशञ्च देवेज्यन्तुल्यसञ्ज्ञितं ॥०२१॥

चत्वारि लिङ्गरूपाणि विष्कम्भेण तु लक्षयेत् ।
दीर्घमायान्वितं कृत्वा लिङ्गं कुर्यात् त्रिरूपकं ॥०२२॥

चतुरष्टाष्टवृत्तञ्च तत्त्वत्रयगुणात्मकं ।
लिङ्गानामीप्सितं दैर्घ्यं तेन कृत्वाङ्गुलानि वै ॥०२३॥

ध्वजाद्यायैः सुरैर् भूतैः शिखिभिर्वा हरेत् कृतिं ।
तान्यङ्गुलानि यच्छेषं लक्षयेच्च शुभाशुभं ॥०२४॥

ध्वजाद्या ध्वजसिंहेभवृषाः ज्येष्ठाः परे शुभाः ।
स्वरेषु षड्जगान्धारपञ्चमाः शुभदायकाः ॥०२५॥

भूतेषु च शुभा भूः स्यादग्निष्वाहवनीयकः ।
उक्तायामस्य चार्धांशे नागांशैर् भाजिते क्रमात् ॥०२६॥

रसभूतांशषष्ठांशत्र्यंशाधिकशरैर् भवेत् ।
आढ्यानाढ्यसुरेज्यार्कतुल्यानाञ्चतुरस्रता ॥०२७॥

पञ्चमं वर्धमानाख्यं व्यासान्नाहप्रवृद्धितः ।
द्विधा भेदा बहून्यत्र वक्ष्यन्ते विश्वकर्मतः ॥०२८॥

आढ्यादीनां त्रिधा स्थौल्याद्यवधूतं तदष्टधा[^२] ।

:न्

[[१५४]]

विश्वास-प्रस्तुतिः

त्रिधा हस्ताज्जिनाख्यञ्च युक्तं सर्वसमेन च1 ॥०२९॥

पञ्चविंशतिलिङ्गानि नाद्ये2 देवार्चिते तथा ।
पञ्चसप्तभिरेकत्वाज्जिनैर् भक्तैर् भवन्ति हि ॥०३०॥

चतुर्दशसहस्राणि चतुर्दशशतानि च ।
एवमष्टाङ्गुलविस्तारो3 नवैककरगर्भतः ॥०३१॥

तेषां कोणार्धकोणस्थैश्चिन्त्यात् कोणानि4 सूत्रकैः ।
विस्तारं मध्यमः कृत्वा स्थाप्यं वा मध्यतस्त्रयं ॥०३२॥

विभागादूर्ध्वमष्टास्रो5 द्व्यष्टास्रः
स्याच्छिवांशकः ।
पादाज्जान्वन्तको ब्रह्मा नाभ्यन्तो विष्णुरित्यतः ॥०३३॥

मूर्ध्वान्तो भूतभागेशो व्यक्ते ऽव्यक्ते च तद्वति ।
पञ्चलिङ्गव्यवस्थायां शिरो वर्तुलमुच्यते ॥०३४॥

छत्राभं कुक्कुटाभं वा बालेन्दुप्रतिमाकृतिः6
एकैकस्य चतुर्भेदैः7 काम्यभेदात् फलं वदे ॥०३५॥

लिङ्गमस्तकविस्तारं वसुभक्तन्तु कारयेत् ।
आद्यभागं चतुर्धा तु8 विस्तारोच्छ्रायतो भजेत् ॥०३६॥

चत्वारि तत्र सूत्राणि[^९] भागभागानुपातनात् ।

:न्

[[१५५]]

विश्वास-प्रस्तुतिः

पुण्डरीकन्तु भागेन विशालाख्यं विलोपनात् ॥०३७॥

त्रिशातनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात् ।
शिरः सर्वसमे श्रेष्ठं कुक्कुटाभं सुराह्वये1 ॥०३८॥

चतुर्भागात्मके लिङ्गेत्रपुषं द्वयलोपनात् ।
अनाद्यस्य शिरः प्रोक्तमर्धचन्द्रं शिरः शृणु ॥०३९॥

अंशात् प्रान्ते युगांशैश् च त्वेकाहान्यामृताक्षकं2
पूर्णबालेन्दुकुमुदं द्वित्रिवेदक्षयात् क्रमात् ॥०४०॥

चतुस्त्रिरेकवदनं मुखलिङ्गमतः शृणु ।
पूजाभागं प्रकर्तव्यं मूर्त्यग्निपदकल्पितं3 ॥०४१॥

अर्कांशं पूर्ववत् त्यक्त्वा षट् स्थानानि विवर्तयत् ।
शिरोन्नतिः प्रकर्तव्या ललाटं नासिका ततः ॥०४२॥

वदनं चिवुकं ग्रीवा युगभागैर् भुजाक्षिभिः ।
कराभ्यां मुकुलीकृत्य4 प्रतिमायाः प्रमाणतः ॥०४३॥

मुखं प्रति समः कार्यो विस्तारादष्टमांशतः ।
चतुर्मुखं मया प्रोक्तं त्रिमुखञ्चोच्यते शृणु ॥०४४॥

कर्णपादाधिकास्तस्य ललाटादीनि निर्दिशेत् ।
भुजौ चतुर्भिर्भागैस्तु कर्तव्यौ पश्चिमोर्जितं ॥०४५॥

विस्तरादष्टमांशेन मुखानां प्रतिनिर्गमः ।
एकवक्त्रं तथा कार्यं पूर्वस्यां सौम्यलोचनं ॥०४६॥

ललाटनासिकावक्त्रग्रीवायाञ्च विवर्तयेत् ।

:न्

[[१५६]]

विश्वास-प्रस्तुतिः

भुजाच्च पञ्चमांशेन1 भुजहीनं विवर्तयेत् ॥०४७॥

विस्तारस्य षडंशेन मुखैर् निर्गमनं हितं ।
सर्वेषां मुखलिङ्गानां त्रपुषं वाथ कुक्कुटं ॥०४८॥

{इत्य् आदिमहापुराणे आग्नेये व्यक्ताव्यक्तलक्षणं नाम चतुःपञ्चाशत्तमो ऽध्यायः }

  1. प्रवक्ष्ये ऽहं प्रकारेणेति ग। चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. रत्नजमिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. हस्ते तु विविधं शैलमिति ग। चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. वनलिङ्गं भवेद्वरमिति ग, घ, चिह्नितपुस्तकपाठः । चललिङ्गं
    भवेद् ध्रुवमिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. द्विभागादूर्धवमष्टास्र इति ख, ङ,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎

  6. बालेन्दुत्रपुषाकृतिरिति ख, ग, घ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  7. चतुर्भागैर् इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  8. अन्त्यभागमिति ग, घ, चिह्नितपुस्तकपाठः ↩︎ ↩︎