{अथ त्रिपञ्चाशत्तमोध्यायः}
विश्वास-प्रस्तुतिः
लिङ्गलक्षणं
भगवानुवाच
लिङ्गादिलक्षणं वक्ष्ये कमलोद्भव तच्छृणु ।
दैर्घ्यार्धं वसुभिर्भक्त्वा त्यक्त्वा भागत्रयं ततः ॥००१॥
मूलम्

विष्कम्भं भूतभागैस्तु चतुरस्रन्तु कारयेत् ।
आयामं मूर्तिभिर्भक्त्वा एकद्वित्रिक्रमान् न्यसेत् ॥००२॥

ब्रह्मविष्णुशिवांशेषु वर्धमानोयमुच्यते ।
चतुरस्रेस्य वर्णार्धं गुह्यकोणेषु लाञ्छयेत् ॥००३॥

अष्टाग्रं वैष्णवं भागं सिध्यत्येव न संशयः ।
षोडशास्रं ततः कुर्याद्द्वात्रिंशास्रं ततः पुनः ॥००४॥

चतुःषष्ट्यस्रकं कृत्वा वर्तुलं साधयेत्ततः ।
कर्तयेदथ लिङ्गस्य शिरो वै देशिकोत्तमः ॥००५॥

विस्तारमथ लिङ्गस्य अष्टधा संविभाजयेत् ।
भागार्धार्धन्तु सन्त्यज्य च्छत्राकारं शिरो भवेत् ॥००६॥

त्रिषु भागेषु सदृशमायामं यस्य चिस्तरः ।
तद्विभागसमं लिङ्गं सर्वकामफलप्रदं ॥००७॥
मूलम्
त्रिषु भागेषु सदृशमायामं यस्य चिस्तरः ।
तद्विभागसमं लिङ्गं सर्वकामफलप्रदं ॥००७॥
विश्वास-प्रस्तुतिः
दैर्घ्यस्य तु चतुर्थेन विष्कम्भं देवपूजिते ।
सर्वेषामेव लिङ्गानां लक्षणं शृणु साम्प्रतं ॥००८॥

मध्यसूत्रं समासाद्य ब्रह्मरुद्रान्तिकं1 बुधः ।
षोडशाङ्गुललिङ्गस्य षड्भागैर् भाजितो यथा ॥००९॥

तद्वैयमनसूत्राभ्यां मानमन्तरमुच्यते ।
यवाष्टमुत्तरे कार्यं शेषाणां यवहानितः ॥०१०॥

:न्
[[१५०]]
विश्वास-प्रस्तुतिः
अष्टधा तद्द्वयं कृत्वा ऊर्ध्वभागत्र्यं त्यजेत् ॥०११॥

ऊर्ध्वञ्च पञ्चमाद्भागाद् भ्राम्य रेखां प्रलम्बयेत् ।
भागमेकं परित्यज्य सङ्गं कारयेत्तयोः ॥०१२॥

एतत् साधारणं प्रोक्तं लिङ्गानां लक्षणं मया ।
सर्वसाधारणं वक्ष्ये पिण्डिकान्तान्निबोध मे ॥०१३॥

ब्रह्मभागप्रवेशञ्च ज्ञात्वा लिङ्गस्य चोच्छ्रयं ।
न्यसेद् ब्रह्मशिलां विद्वान् सम्यक्कर्मशिलोपरि ॥०१४॥

तथा सुमुच्छ्रयं ज्ञात्वा पिण्डिकां प्रविभाजयेत् ।
द्विभागमुच्छ्रितं पीठं विस्तारं लिङ्गसम्मितम् ॥०१५॥

त्रिभागं मध्यतः खातं कृत्वा पीठं1 विभाजयेत् ।
स्वमानार्धत्रिभागेण बाहुल्यं परिकल्पयेत् ॥०१६॥

बाहुल्यस्य त्रिभागेण मेखलामथ कल्पयेत् ।
खातं स्यान्मेखलातुल्यं क्रमान्निम्नन्तु कारयेत् ॥०१७॥

मेखलाषोडशांशेन खातं वा तत्प्रमाणज्ञः ।
उच्छ्रायं तस्य पीठस्य विकाराङ्गं तु2 कारयेत् ॥०१८॥

भूमौ प्रविष्टमेकं तु भागैकेन3 पिण्डिका ।
कण्ठं भागैस्त्रिभिः कार्यं भागेनैकेन पट्टिका ॥०१९॥

द्यङ्गेन चोर्ध्वपट्टन्तु4 एकांशाः शेषपट्टिका ।
भागं भागं प्रविष्टन्तु यावत् कण्ठं ततः पुनः ॥०२०॥

निर्गमं भागमेकं तु यावद्वै शेषपट्टिका ।
प्रणालस्य त्रिभागेन निर्गमस्तु त्रिभागतः ॥०२१॥

[[१५१]]
विश्वास-प्रस्तुतिः
मूलेङ्गुल्यग्रविस्तारमग्रे त्र्यंशेन चार्धतः ।
ईषन्निम्नन्तु कुर्वीत खातं तच्चोत्तरेण वै ।०२२।
पिण्डिकासहितं लिङ्गमेतत् साधारणं स्मृतम् ॥०२२॥

{इत्य् आदिमहापुराणे आग्नेये लिङ्गलक्षणं नाम त्रिपञ्चाशत्तमोध्यायः ॥ }