{अथ द्विपञ्चोशो ऽध्यायः}
देवीप्रतिमालक्षणं
भगवानुवाच
योगिन्यष्टाष्टकं वक्ष्ये ऐन्द्रादीशान्ततः क्रमात् ।
:न्
[[१४७]]
विश्वास-प्रस्तुतिः
अक्षोभ्या रूक्षकर्णो च राक्षसी कृपणाक्षया1 ॥००१॥
मूलम्
अक्षोभ्या रूक्षकर्णो च राक्षसी कृपणाक्षया1 ॥००१॥
विश्वास-प्रस्तुतिः
पिङ्गाक्षी च क्षया क्षेमा इला लीलालया तथा ।
लोला लक्ता बलाकेशी2 लालसा विमला पुनः3 ॥००२॥
विश्वास-प्रस्तुतिः
हुताशा च विशालाक्षी हुङ्कारा वडवामुखी ।
महाक्रूरा क्रोधना तु भयङ्करी महानना ॥००३॥
मूलम्
हुताशा च विशालाक्षी हुङ्कारा वडवामुखी ।
महाक्रूरा क्रोधना तु भयङ्करी महानना ॥००३॥
विश्वास-प्रस्तुतिः
सर्वज्ञा तरला तारा ऋग्वेदा तु हयानना ।
साराख्या रुद्रशङ्ग्राही4 सम्बरा तालजङ्घिका ॥००४॥
मूलम्
सर्वज्ञा तरला तारा ऋग्वेदा तु हयानना ।
साराख्या रुद्रशङ्ग्राही4 सम्बरा तालजङ्घिका ॥००४॥
विश्वास-प्रस्तुतिः
रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा करङ्किणी ।
मेघनादा प्रचण्डोग्रा कालकर्णी5 वरप्रदा ॥००५॥
मूलम्
रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा करङ्किणी ।
मेघनादा प्रचण्डोग्रा कालकर्णी5 वरप्रदा ॥००५॥
विश्वास-प्रस्तुतिः
चन्द्रा चन्द्रावली6 चैव प्रपञ्चा प्रलयान्तिका ।
शिशुवक्त्रा पिशाची च पिशिताशा च लोलुपा ॥००६॥
मूलम्
चन्द्रा चन्द्रावली6 चैव प्रपञ्चा प्रलयान्तिका ।
शिशुवक्त्रा पिशाची च पिशिताशा च लोलुपा ॥००६॥
विश्वास-प्रस्तुतिः
धमनी तापनी चैव रागिणी7 विकृतानना ।
वायुवेगा वृहत्कुक्षिर्विकृता विश्वरूपिका ॥००७॥
मूलम्
धमनी तापनी चैव रागिणी7 विकृतानना ।
वायुवेगा वृहत्कुक्षिर्विकृता विश्वरूपिका ॥००७॥
विश्वास-प्रस्तुतिः
यमजिह्वा जयन्ती च दुर्जया च जयान्तिका ।
विडाली रेवती चैव पूतना विजयान्तिका ॥००८॥
मूलम्
यमजिह्वा जयन्ती च दुर्जया च जयान्तिका ।
विडाली रेवती चैव पूतना विजयान्तिका ॥००८॥
:न्
[[१४८]]
विश्वास-प्रस्तुतिः
भैरवश्चार्कहस्तः स्यात् कूर्परास्यो1 जटेन्दुभृत् ॥००९॥
मूलम्
भैरवश्चार्कहस्तः स्यात् कूर्परास्यो1 जटेन्दुभृत् ॥००९॥
विश्वास-प्रस्तुतिः
खड्गाङ्कुशकुठारेषुविश्वभयभृदेकतः ।
चापत्रिशूलखट्वाङ्गपाशकार्धवरोद्यतः ॥०१०॥
मूलम्
खड्गाङ्कुशकुठारेषुविश्वभयभृदेकतः ।
चापत्रिशूलखट्वाङ्गपाशकार्धवरोद्यतः ॥०१०॥
विश्वास-प्रस्तुतिः
गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषतः ।
प्रेताशनो मातृमध्ये पूज्यः पञ्चाननोथवा ॥०११॥
मूलम्
गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषतः ।
प्रेताशनो मातृमध्ये पूज्यः पञ्चाननोथवा ॥०११॥
विश्वास-प्रस्तुतिः
अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितं ।
तत्षडङ्गानि जात्यन्तैर् अन्वितं च क्रमाद् यजेत् ॥०१२॥
मूलम्
अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितं ।
तत्षडङ्गानि जात्यन्तैर् अन्वितं च क्रमाद् यजेत् ॥०१२॥
विश्वास-प्रस्तुतिः
मन्दिराग्निदलारूढं2 सुवर्णरसकान्वितं ।
नादविन्द्वन्दुसंयुक्तं मातृनाथाङ्गदीपितं ॥०१३॥
मूलम्
मन्दिराग्निदलारूढं2 सुवर्णरसकान्वितं ।
नादविन्द्वन्दुसंयुक्तं मातृनाथाङ्गदीपितं ॥०१३॥
विश्वास-प्रस्तुतिः
वीरभद्रो वृषारूढो मात्रग्रे स चतुर्मुखः ।
गौरीं तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता ॥०१४॥
मूलम्
वीरभद्रो वृषारूढो मात्रग्रे स चतुर्मुखः ।
गौरीं तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता ॥०१४॥
विश्वास-प्रस्तुतिः
शूलं गलन्तिका कुण्डी3 वरदा च चतुर्भुजा ।
अब्जस्था ललिता स्कन्दगणादर्शशलाकया4 ॥०१५॥
विश्वास-प्रस्तुतिः
चण्डिका सशहस्ता स्यात् खड्गशूलारिशक्तिधृक् ।
दक्षे वामे नागपाशं चर्माग्कुशकुठारकं ।०१६।
धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः ॥०१६॥
मूलम्
चण्डिका सशहस्ता स्यात् खड्गशूलारिशक्तिधृक् ।
दक्षे वामे नागपाशं चर्माग्कुशकुठारकं ।०१६।
धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः ॥०१६॥
{इत्य् आदिमहापुराणे आग्नेये प्रतिमालक्षणं नाम द्विपञ्चाशत्तमो ऽध्यायः ॥ }
:न्
अस्मल्लब्धपुस्तकपञ्चकेषु नायं पाठः
[[१४९]]