०५२ योगिनीप्रतिमालक्षणम्

{अथ द्विपञ्चोशो ऽध्यायः}

देवीप्रतिमालक्षणं

भगवानुवाच
योगिन्यष्टाष्टकं वक्ष्ये ऐन्द्रादीशान्ततः क्रमात् ।

:न्

[[१४७]]

विश्वास-प्रस्तुतिः

अक्षोभ्या रूक्षकर्णो च राक्षसी कृपणाक्षया1 ॥००१॥

मूलम्

अक्षोभ्या रूक्षकर्णो च राक्षसी कृपणाक्षया1 ॥००१॥

विश्वास-प्रस्तुतिः

पिङ्गाक्षी च क्षया क्षेमा इला लीलालया तथा ।
लोला लक्ता बलाकेशी2 लालसा विमला पुनः3 ॥००२॥

मूलम्

पिङ्गाक्षी च क्षया क्षेमा इला लीलालया तथा ।
लोला लक्ता बलाकेशी2 लालसा विमला पुनः3 ॥००२॥

विश्वास-प्रस्तुतिः

हुताशा च विशालाक्षी हुङ्कारा वडवामुखी ।
महाक्रूरा क्रोधना तु भयङ्करी महानना ॥००३॥

मूलम्

हुताशा च विशालाक्षी हुङ्कारा वडवामुखी ।
महाक्रूरा क्रोधना तु भयङ्करी महानना ॥००३॥

विश्वास-प्रस्तुतिः

सर्वज्ञा तरला तारा ऋग्वेदा तु हयानना ।
साराख्या रुद्रशङ्ग्राही4 सम्बरा तालजङ्घिका ॥००४॥

मूलम्

सर्वज्ञा तरला तारा ऋग्वेदा तु हयानना ।
साराख्या रुद्रशङ्ग्राही4 सम्बरा तालजङ्घिका ॥००४॥

विश्वास-प्रस्तुतिः

रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा करङ्किणी ।
मेघनादा प्रचण्डोग्रा कालकर्णी5 वरप्रदा ॥००५॥

मूलम्

रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा करङ्किणी ।
मेघनादा प्रचण्डोग्रा कालकर्णी5 वरप्रदा ॥००५॥

विश्वास-प्रस्तुतिः

चन्द्रा चन्द्रावली6 चैव प्रपञ्चा प्रलयान्तिका ।
शिशुवक्त्रा पिशाची च पिशिताशा च लोलुपा ॥००६॥

मूलम्

चन्द्रा चन्द्रावली6 चैव प्रपञ्चा प्रलयान्तिका ।
शिशुवक्त्रा पिशाची च पिशिताशा च लोलुपा ॥००६॥

विश्वास-प्रस्तुतिः

धमनी तापनी चैव रागिणी7 विकृतानना ।
वायुवेगा वृहत्कुक्षिर्विकृता विश्वरूपिका ॥००७॥

मूलम्

धमनी तापनी चैव रागिणी7 विकृतानना ।
वायुवेगा वृहत्कुक्षिर्विकृता विश्वरूपिका ॥००७॥

विश्वास-प्रस्तुतिः

यमजिह्वा जयन्ती च दुर्जया च जयान्तिका ।
विडाली रेवती चैव पूतना विजयान्तिका ॥००८॥

मूलम्

यमजिह्वा जयन्ती च दुर्जया च जयान्तिका ।
विडाली रेवती चैव पूतना विजयान्तिका ॥००८॥

अष्टहस्ताश् चतुर्हस्ता इच्छास्त्राः सर्वसिद्धिदाः ।

:न्

[[१४८]]

विश्वास-प्रस्तुतिः

भैरवश्चार्कहस्तः स्यात् कूर्परास्यो1 जटेन्दुभृत् ॥००९॥

मूलम्

भैरवश्चार्कहस्तः स्यात् कूर्परास्यो1 जटेन्दुभृत् ॥००९॥

विश्वास-प्रस्तुतिः

खड्गाङ्कुशकुठारेषुविश्वभयभृदेकतः ।
चापत्रिशूलखट्वाङ्गपाशकार्धवरोद्यतः ॥०१०॥

मूलम्

खड्गाङ्कुशकुठारेषुविश्वभयभृदेकतः ।
चापत्रिशूलखट्वाङ्गपाशकार्धवरोद्यतः ॥०१०॥

विश्वास-प्रस्तुतिः

गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषतः ।
प्रेताशनो मातृमध्ये पूज्यः पञ्चाननोथवा ॥०११॥

मूलम्

गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषतः ।
प्रेताशनो मातृमध्ये पूज्यः पञ्चाननोथवा ॥०११॥

विश्वास-प्रस्तुतिः

अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितं ।
तत्षडङ्गानि जात्यन्तैर् अन्वितं च क्रमाद् यजेत् ॥०१२॥

मूलम्

अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितं ।
तत्षडङ्गानि जात्यन्तैर् अन्वितं च क्रमाद् यजेत् ॥०१२॥

विश्वास-प्रस्तुतिः

मन्दिराग्निदलारूढं2 सुवर्णरसकान्वितं ।
नादविन्द्वन्दुसंयुक्तं मातृनाथाङ्गदीपितं ॥०१३॥

मूलम्

मन्दिराग्निदलारूढं2 सुवर्णरसकान्वितं ।
नादविन्द्वन्दुसंयुक्तं मातृनाथाङ्गदीपितं ॥०१३॥

विश्वास-प्रस्तुतिः

वीरभद्रो वृषारूढो मात्रग्रे स चतुर्मुखः ।
गौरीं तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता ॥०१४॥

मूलम्

वीरभद्रो वृषारूढो मात्रग्रे स चतुर्मुखः ।
गौरीं तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता ॥०१४॥

विश्वास-प्रस्तुतिः

शूलं गलन्तिका कुण्डी3 वरदा च चतुर्भुजा ।
अब्जस्था ललिता स्कन्दगणादर्शशलाकया4 ॥०१५॥

मूलम्

शूलं गलन्तिका कुण्डी3 वरदा च चतुर्भुजा ।
अब्जस्था ललिता स्कन्दगणादर्शशलाकया4 ॥०१५॥

विश्वास-प्रस्तुतिः

चण्डिका सशहस्ता स्यात् खड्गशूलारिशक्तिधृक् ।
दक्षे वामे नागपाशं चर्माग्कुशकुठारकं ।०१६।
धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः ॥०१६॥

मूलम्

चण्डिका सशहस्ता स्यात् खड्गशूलारिशक्तिधृक् ।
दक्षे वामे नागपाशं चर्माग्कुशकुठारकं ।०१६।
धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः ॥०१६॥

{इत्य् आदिमहापुराणे आग्नेये प्रतिमालक्षणं नाम द्विपञ्चाशत्तमो ऽध्यायः ॥ }

:न्

अस्मल्लब्धपुस्तकपञ्चकेषु नायं पाठः

[[१४९]]


  1. शिखिनीसूत्रवान् शनिरिति ग, घ, चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎

  2. खड्गो इति घ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  3. मणिविद्याधराश् च खे इति ख, चिहितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  4. विस्तृतानना इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  5. शूलयुता इति ग, घ, ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  6. चण्डा चण्दवतीति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  7. वामनी इति ख, ग, ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎