०५१ सूर्यादिप्रतिमालक्षणम्

{अथ एकपञ्चाशो ऽध्यायः}

विश्वास-प्रस्तुतिः

सूर्यादिप्रतिमालक्षणं

भगवानुवाच
ससप्ताश्वे सैकचक्रे रथे सूर्यो द्विपद्मधृक् ।
मसीभाजनलेखन्यौ बिभ्रत्कुण्डी तु दक्षिणे ॥००१॥

मूलम्

वामे तु पिङ्गलो द्वारि दण्डभृत् स रवेर्गणः ।

[[१४५]]

विश्वास-प्रस्तुतिः

बालव्यजनधारिण्यौ पार्श्वे राज्ञी च निष्प्रभा ॥००२॥

अथवाश्वारूढः कार्य एकस्तु भास्करः ।
वरदा द्व्यब्जनः सर्वे दिक्पालास्त्रकराः क्रमात् ॥००३॥

मुद्गरशूलचक्राब्जभृतोग्न्यादिविदिक्स्थिताः ।
सूर्यार्यमादिरक्षोन्ताश् चतुर्हस्ता द्विषड्दले ॥००४॥

वरुणः सूर्यनामा च सहस्रांशुस् तथापरः ।
धाता तपनसञ्ज्ञश् च सविताथ गभस्तिकः ॥००५॥

रविश् चैवाथ पर्जन्यस्त्वष्टा मित्रोथ विष्णुकः ।
मेषादिराशिसंस्थाश् च मार्गादिकार्त्तिकान्तकाः ॥००६॥

कृष्णो रक्तो मनाग्रक्तः पीतः पाण्डरकः सितः ।
कपिलः पीतवर्णश् च शुकाभो धवलस् तथा ॥००७॥

धूम्रो नीलः क्रमाद्वर्णाः शक्तयः केशराग्रगाः ।
इडा सुषुम्ना विश्वार्चिरिन्दुसञ्ज्ञा प्रमर्दिनी1 ॥००८॥

प्रहर्षिणी महाकाली कपिला च प्रबोधनी ।
नीलाम्बरा घनान्तस्था अमृताख्या च शक्तयः ॥००९॥

वरुणादेश् च तद्वर्णाः केशराग्रेषु विन्यसेत् ।
तेजश् चण्डो महावक्रो2 द्विभुजः पद्मखद्गभृत्3 ॥०१०॥

कुण्डिकाजप्यामालीन्दुः कुजः शक्त्यक्षमालिकः ।
बुधश्चापाक्षपाणिः स्याज्जीवः कुण्ड्यक्षमालिकः ॥०११॥

:न्

[[१४६]]

विश्वास-प्रस्तुतिः

शुक्रः कुण्ड्यक्षमाली स्यात् किण्किणीसूत्रवाञ्छनिः1
अर्धचन्द्रधरो राहुः केतुः खड्गी च दीपभृत् ॥०१२॥

अनन्तस्तक्षकः कर्कः पद्मो महाब्जः शङ्खकः ।
कुलिकः सूत्रिणः सर्वे फणवक्त्रा महाप्रभाः ॥०१३॥

इन्द्रो वज्री गजारूढश्छागगोग्निश् च शक्तिमान् ।
यमो दण्डी च महिषे नैरृतः खड्गवान् करे ॥०१४॥

मकरे वरुणः पाशी वायुर्ध्वजधरो मृगे ।
गदी2 कुवेरो मेषस्थ ईशानश् च जटी वृषे ॥०१५॥

द्विबाहवो लोकपाला विश्वकर्माक्षसूत्रभृत् ।
हनूमान् वज्रहस्तः स्यात् पद्भ्यां सम्पीडिताश्रयः ॥०१६॥

वीणाहस्ताः किन्नराः स्युर्मालाविद्याधराश् च खे3
दुर्बलाङ्गाः पिशाचाः स्युर्वेताला विकृताननाः[^४] ।०१७।
क्षेत्रपालाः शूलवन्तः[^५] प्रेता महोदराः कृशाः ॥०१७॥

{इत्य् आदिमहापुराणे आग्नेये प्रतिमालक्षणं नाम एकपञ्चाशो ऽध्यायः ॥ }

  1. विश्वाची विन्दुसञ्ज्ञाप्रवर्धनी इति ङ,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  2. महारक्त इति ख, चिह्नितपुस्तकपाठः । मार्तण्डश् च महारक्त
    इति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  3. पद्मखड्गधृगिति ग, घ, चिह्नितपुस्तकपुस्तकपाठः ।
    खड्गचर्मभृदिति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎