{अथ पञ्चाशोध्यायः }
देवीप्रतिमालक्षणकथनं
भगवानुवाच
चण्डी विंशतिबाहुः स्याद्बिभ्रती दक्षिणैः करः ।
शूलासिशक्तिचक्राणि पाशं खेटायुधाभयं ॥००१॥
डमरुं शक्तिकां वामैर् नागपाशञ्च खेटकं ।
कुठाङ्कुशचापांश् च घण्टाध्वजगदांस् तथा ॥००२॥
आदर्शमुद्गरान् हस्तैश् चण्डी वा दशबाहुका ।
तदधो महिषश्छिन्नमूर्धा पतितमस्तकः ॥००३॥
:न्
[[१४१]]
शस्त्रोद्यतकरः क्रुद्धस्तद्ग्रीवासम्भवः पुमान् ।
शूलहस्तो वमद्रक्तो रक्तस्रङ्मूर्धजेक्षणः ॥००४॥
सिंहेनास्वाद्यमानस्तु पाशबद्धो गले भृशं ।
याम्याङ्घ्य्राक्रान्तसिंहा च सव्याङ्घ्रिर्नीचगासुरे ॥००५॥
चण्डिकेयं त्रिनेत्रा च सशस्त्रा रिपुमर्दनी ।
नवपद्मात्मके स्थाने पूज्या दुर्गा स्वमूर्तितः ॥००६॥
आदौ मध्ये तथेन्द्रादौ नवातत्त्वात्मभिः1 क्रमात् ।
अष्टादशभुजैका तु दक्षे मुण्डं च खेटकं ॥००७॥
आदर्शतर्जनीचापं ध्वजं डमरुकं तथा ।
पाशं वामे बिभ्रती च शक्तिमुद्गरशूलकं ॥००८॥
वज्रखड्गाङ्कुशशरान् चक्रन्देवी शलाकया ।
एतैर् एवायुधैर् युक्ता शेषाः षोडशबहुकाः ॥००९॥
डमरुं तर्जनीं त्यक्त्वा रुद्रचण्डादयो नव ।
रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ॥०१०॥
चण्डा चण्दवती चैव चण्डरूपातिचण्डिका ।
उग्रचण्डा च मध्यस्था रोचनाभारुणासिता ॥०११॥
नीला शुक्ला धूम्रिका च पीता श्वेता च सिंहगाः ।
महिषोथ पुमान् शस्त्री तत्कचग्रहमुष्टिकाः ॥०१२॥
आलीढा नव2 दुर्गाः स्युः स्थाप्याः पुत्रादिवृद्धये ।
तथा गौरी च चण्डिकाद्या कुण्ड्यक्षररदाग्निधृक् ॥०१३॥
सैव रम्भा वने सिद्धाग्निहीना ललिता तथा ।
स्कन्धमूर्धकरा वामे द्वितीये धृतदर्पणा ॥०१४॥
:न्
[[१४२]]
याम्ये फलाञ्जलिहस्ता सौभाग्या तत्र चोर्ध्विका ।
लक्ष्मीर्याम्यकराम्भोजा वामे श्रीफलसंयुता ॥०१५॥
पुस्ताक्षमालिकाहस्ता वीणाहस्ता सरस्वती ।
कुम्भाब्जहस्ता श्वेताभा मकरोपरि जाह्नवी 1॥०१६॥
कूर्मगा यमुना कुम्भकरा श्यामा च पूज्यते ।
सवीणस्तुम्बुरुः शुक्लः शूली मात्रग्रतो वृषे ॥०१७॥
गौरी चतुर्मुखी ब्राह्मी अक्षमालासुरान्विता ।
कुण्डक्षपात्रिणी वामे हंसगा शाङ्करी सिता ॥०१८॥
शरचापौ दक्षिणे ऽस्या वामे चक्रं2 धनुर्वृषे ।
कौमारी शिखिगा रक्ता शक्तिहस्ता द्विबाहुका ॥०१९॥
चक्रशङ्खधरा सव्ये वामे लक्ष्मीर्गदाब्जधृक् ।
दण्डशङ्खासि3 गदया वाराहो महिषस्थिता ॥०२०॥
ऐन्द्री वामे वज्रहस्ता सहस्राक्षी तु सिद्धये ।
चामुण्डा कोटराघ्नी स्यान्निर्मांसा तु त्रिलोचना ॥०२१॥
निर्मांसा अस्थिसारा वा ऊर्ध्वकेशी कृशोदरी ।
द्वीपचर्मधरा वामे कपालं पट्टिशङ्करे ॥०२२॥
शूलं कर्त्री दक्षणे ऽस्याः शवारूढास्थितभूषणा ।
विनायको नराकारो वृहत्कुक्षिर्गजाननः ॥०२३॥
वृहच्छुण्डो ह्य् उपवीतो मुखं सप्तकलं भवेत् ।
विस्ताराद्दैर्घ्यतचैव शुण्डं षट्त्रिंशदङ्गुलं ॥०२४॥
कला द्वादश नाडी तु ग्रीवा सार्धकलोच्छ्रिता ।
षट्त्रिंशदङ्गुलं कण्ठं गुह्यमध्यर्धमङ्गुलं ॥०२५॥
:न्
[[१४३]]
नाभिरूरू द्वादशञ्च जङ्घे पादे तु दक्षिणे ।
स्वदन्तं परशुं वामे लड्डुकञ्चोत्पलं शये ॥०२६॥
सुमुखी च विडालाक्षी पार्श्वे स्कन्दो मयूरगः ।
स्वामी शाखो विशाखश् च द्विभुजो बालरूपधृक् ॥०२७॥
दक्षे शक्तिः कुक्कुटोथ एकवक्त्रोथ षण्मुखः ।
षड्भुजो वा द्वादशभिर्ग्रामेरण्ये द्विबाहुकः ॥०२८॥
शक्तीषुपाशनिस्त्रिंशतोत्रदोस्तर्जनीयुतः ।
शक्त्या दाक्षिणहस्तेषु षट्सु वामे करे तथा ॥०२९॥
शिखिपिच्छन्धनुः खेटं पताकाभयकुक्कुटे ।
विश्वास-प्रस्तुतिः
कपाल-कर्तरी-शूल-
पाश-भृद् याम्य-सौम्ययोः ॥०३०॥
गज-चर्म-भृद् ऊर्ध्वास्य-
पादा स्यात् रुद्रचर्चिका ।
मानसतरङ्गिणीकृत्
Rudracarcikā [is depicted] holding a skull, battle scissors, trident, lasso to the right and left. She holds an elephant hide, and her leg is raised up.
+++(४ हस्ता एवात्र। (८-भुजरूपम् अग्रे वक्ष्यते। ) तेन wears elephant hide. Foot raised up (presumably seated -so on a thigh).)+++
मूलम्
कपालकर्तरीशूलपाशभृद्याम्यसौम्ययोः ॥०३०॥
गजचर्मभृदूर्ध्वास्यपादा स्यात् रुद्रचर्चिका ।
विश्वास-प्रस्तुतिः
सैव चाष्टभुजा देवी
शिरो-डमरुकान्विता ॥०३१॥
तेन सा रुद्र-चामुण्डा
नाटेश्वर्य् अथ नृत्यती ।
मानसतरङ्गिणीकृत्
Rudracāmuṇḍā is verily the eight-handed goddess holding a severed head and a ḍamaru. She is shown dancing as the goddess of the dance (c.f. the above verse of Bhavabhūti).
मूलम्
सैव चाष्टभुजा देवी शिरोडमरुकान्विता ॥०३१॥
तेन सा रुद्रचामुण्डा नाटेश्वर्यथ नृत्यती ।
विश्वास-प्रस्तुतिः
इयम् एव महा-लक्ष्मी-
रुप-विष्टा चतुर्मुखी ॥०३२॥
नृ-वाजि-महिषेभांश् च
खादन्ती च करे स्थितान् ।
मानसतरङ्गिणीकृत्
The goddess Mahālakṣmī is indeed shown in a four-faced form. She [is depicted] eating a man, horse, buffalo, and elephant held in her hands.
मूलम्
इयमेव महालक्ष्मीरुपविष्टा चतुर्मुखी ॥०३२॥
नृवाजिमहिषेभांश् च खादन्ती च करे स्थितान् ।
विश्वास-प्रस्तुतिः
दश-बाहुस् त्रिनेत्रा च
शस्त्रासि-डमरु-त्रिकं ॥०३३॥
बिभ्रती दक्षिणे हस्ते
वामे घण्टां च खेटकं ।
खट्वाङ्गं च त्रिशूलञ्च
सिद्ध-चामुण्डकाह्वया ॥०३४॥
मानसतरङ्गिणीकृत्
Siddha-cāmuṇḍakā is depicted, with ten arms and three eyes, bearing a weapon, a sword, a ḍamaru, a trident, in her right arms; a bell, a shield, a skull-topped brand and a trident in her left arms.
मूलम्
दशबाहुस्त्रिनेत्रा च शस्त्रासिडमरुत्रिकं ॥०३३॥
बिभ्रती दक्षिणे हस्ते वामे घण्टां च खेटकं ।
खट्वाङ्गं च त्रिशूलञ्च सिद्धचामुण्डकाह्वया ॥०३४॥
विश्वास-प्रस्तुतिः
सिद्ध-योगेश्वरी देवी
सर्व-सिद्ध-प्रदायिका ।
एतद्-रूपा भवेद् अन्या
पाशाङ्कुश-युतारुणा ॥०३५॥
मानसतरङ्गिणीकृत्
The goddess Siddhayogeśvarī (the goddess of the kaula Pūrvāmnāya = Trika), who bestows all accomplishments, is shown with another form, crimson in color, holding a lasso and a hook.
मूलम्
सिद्धयोगेश्वरी देवी सर्वसिद्धप्रदायिका ।
एतद्रूपा भवेदन्या पाशाङ्कुशयुतारुणा ॥०३५॥
विश्वास-प्रस्तुतिः
भैरवी रूप-विद्या तु
भुजैर् द्वादशभिर् युता ।
एताः श्मशानजा रौद्रा
अम्बाष्टकम् इदं4 स्मृतं ॥०३६॥
मानसतरङ्गिणीकृत्
Bhairavī, the beautiful wisdom goddess, is shown with 12 arms.
These raudra [goddesses] of the cremation ground are known as the cluster of eight-mothers.
मूलम्
भैरवी रूपविद्या तु भुजैर् द्वादशभिर्युता ।
एताः श्मशानजा रौद्रा अम्बाष्टकमिदं4 स्मृतं ॥०३६॥
:न्
[[१४४]]
विश्वास-प्रस्तुतिः
क्षमा शिवावृता5 वृद्धा
द्विभुजा विवृतानना ।
दन्तुरा क्षेमकरी स्याद्
भूमौ जानुकरा स्थिता ॥०३७॥
मानसतरङ्गिणीकृत्
Kṣamā is shown surrounded by jackals as an old female with two arms and a gaping mouth.
The fanged Kṣemakarī is shown [seated] on the ground with her hands on her knees.
मूलम्
क्षमा शिवावृता5 वृद्धा द्विभुजा विवृतानना ।
दन्तुरा क्षेमकरी स्याद्भूमौ जानुकरा स्थिता ॥०३७॥
मानसतरङ्गिणीकृत् - टिप्पनी
These Ambāṣṭaka goddesses, Rudracarcikā, Rudracāmuṇḍā, Mahālakṣmī, Siddha-cāmuṇḍā, Siddhayogeśvarī, Bhairavī, Kṣamā and Kṣemakarī are likely associated with the 8 mahāsmaśāna-s of the tāntrika tradition. This is supported by the presence of Mahālakṣmī in the list, who is associated with the mahāsmaśāna of Kollagiri or Lakṣmīvana (modern Kolhapur). In the list, we find two explicitly named Cāmuṇḍā-s, which hearkens back to the mega-Skandapurāṇa Navadurgā-s, where Cāmuṇḍā is followed by Muṇḍamardhinī, who on etymological grounds could be seen as the second Cāmuṇḍā. A third goddess of the Ambāṣṭaka, Kṣamā, is depicted as an old female with jackals — again, iconographically similar to Cāmuṇḍā. The ogdoad also features Rudracarcikā, another ectype of Cāmuṇḍā (see below). Thus, we have at least four goddesses in the Ambāṣṭaka group, who can be described as conforming to the Cāmuṇḍā type. This multiplicity hints at Cāmuṇḍā being worshiped as the primary goddess at several of the mahāsmaśāna-s.
यक्षिण्यस्तब्धदीर्घाक्षाः शाकिन्यो वक्रदृष्टयः2 ।
पिङ्गाक्षाः स्युर्महारम्या रूपिण्योप्सरसः3 सदा ॥०३८॥
साक्षमाली त्रिशूली च नन्दीशो द्वारपालकः ।
महाकालोसिमुण्डी स्याच्छूलखटकवांस् तथा ॥०३९॥
कृशो भङ्गी च नृत्यन् वै कुष्माण्डस्थूलखर्ववान् ।
गजगोकर्णवक्त्राद्या वीरभद्रादयो गणाः ॥०४०॥
घण्टाकर्णोष्टदशदोः पापरोगं विदारयन् ।
वज्रासिदण्डचक्रेषुमुषलाङ्कुशमुद्गरान् ॥०४१॥
दक्षिणे तर्जनीं खेटं शक्तिं मुण्डञ्च पाशकं ।
चापं घण्टां कुठारञ्च द्वाभ्याञ्चैव त्रिशूलकं ।०४२।
घण्टामालाकुलो देवो विस्फोटकविमर्दनः6 ॥०४२॥
{इत्य् आदिमहापुराणे आग्नेये देवीप्रतिमालक्षणं नाम पञ्चाशो ऽध्यायः ॥ }