{अथोनपञ्चाशो ऽध्यायः}
विश्वास-प्रस्तुतिः
मत्स्यादिलक्षणवर्णनं
भगवानुवाच
दशावतारं मत्स्यादिलक्षणं प्रवदामि ते ।
मत्स्याकारस्तु मत्स्यः स्यात् कूर्मः कार्माकृलिर्भवेत् ॥००१॥
मूलम्

:न्
[[१३८]]
विश्वास-प्रस्तुतिः
नराङ्गो वाथ कर्तव्यो भूवराहो गदादिभृत् ।
दक्षिणे वामके शङ्खं लक्ष्मीर्वा पद्ममेव वा ॥००२॥

श्रीवामकूर्परस्था तु क्ष्मानन्तौ चरणानुगौ ।
वराहस्थापनाद्राज्यं भवाब्धितरणं भवेत् ॥००३॥

नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः1 ।
तद्वक्षो दारयन्माली स्फुरच्चक्रगदाधरः ॥००४॥

छत्री दण्डी वामनः स्यादथवा स्याच्चतुर्भुजः ।
रामश्चापेषुहस्तः स्यात् कड्गी परशुनान्वितः ॥००५॥

रामश्चापी शरी खड्गी शङ्खी वा द्विभुजः स्मृतः ।
गदालाङ्गलधारी च रामो वाथ चतुर्भुजः ॥००६॥

वामोर्ध्वे लाङ्गलं दद्यादधः शङ्खं सुशोभनं ।
मुषलं दक्षिणोर्ध्वे तु चक्रञ्चाधः सुशोभनं ॥००७॥

शान्तात्मा लम्बकर्णश् च गौराङ्गश्चाम्बरावृतः2 ।
ऊर्ध्वपद्मस्थितो बुद्धो वरदाभयदायकः ॥००८॥

धनुस्तूणान्वितः3 कल्की म्लेच्छोत्सादकरो द्विजः ।
अथवाश्वस्थितः खड्गी शङ्खचक्रशरान्वितः ॥००९॥

लक्षणं वासुदेवादिनवकस्य वदामि ते ।
दक्षिणोर्ध्वे गदा वामे वामोर्ध्वे चक्रमुत्तमं ॥०१०॥

ब्रह्मेशौ पार्श्वगौ नित्यं वासुदेवोस्ति पूर्ववत् ।
शङ्खी स वरदो वाथ द्विभुजो वा चतुर्भुजः ॥०११॥

[[१३९]]
विश्वास-प्रस्तुतिः
प्रद्युम्नो दक्षिणे वज्रं1 शङ्खं वामे धनुः करे ॥०१२॥

गदानाभ्यावृतः2 पीत्या प्रद्युम्नो वा धनुःशरी ।
चतुर्भुजो निरुद्धः स्यात्तथा नारायणो विभुः ॥०१३॥

चतुर्मुखश् चतुर्बाहुर्वृहज्जठरमण्डलः ।
लम्बकूर्चो3 जटायुक्तो व्रह्मा हंसाग्रवाहनः ॥०१४॥

दक्षिणे चाक्षसूत्रञ्च स्रुवो वामे तु कुण्डिका ।
आज्यस्थाली सरस्वती सावित्री वामदक्षिणे ॥०१५॥

विष्णुरष्टभुजस्तार्क्षे करे खड्गस्तु दक्षिणे ।
गदाशरश् च वरदो वामे कार्मुकखेटके ॥०१६॥

चक्रशङ्खौ चतुर्बाहुर् नरसिंहश् चतुर्भुजः ।
शङ्खचक्रधरो वापि विदारितमहासुरः ॥०१७॥

अचतुर्बाहुर्वराहस्तु शेषः पाणितले धृतः ।
धारयन् बाहुना पृथ्वीं वाम्नेन कमलाधरः4 ॥०१८॥

पादलग्ना धरा कार्या पदा लक्ष्मीर्व्यवस्थिता ।
त्रैलोक्यमोहनस्तार्क्ष्ये अष्टबाहुस्तु दक्षिणे ॥०१९॥

चक्रं खड्गं च मुषलं अङ्कुशं वामके करे ।
शङ्खशार्ङ्गगदापाशान् पद्मवीणासमन्विते ॥०२०॥

लक्ष्मीः सरस्वती कार्ये विश्वरूपो ऽथ दक्षिणे ।
मुद्गरं च तथा पाशं शक्तिशूलं शरं करे ॥०२१॥

[[१४०]]
विश्वास-प्रस्तुतिः
लाङ्गलं परशुं दण्डं छुरिकां चर्मक्षेपकं1 ॥०२२॥

विंशद्बाहुश् चतुर्वक्त्रो दक्षिणस्थोथ वामके ।
त्रिनेत्रे वामपार्श्वे न शयितो जलशाय्यपि ॥०२३॥

श्रिया धृतैकचरणो विमलाद्याभिरीडितः ।
नाभिपद्मचतुर्वक्त्रो हरिशङ्करको हरिः ॥०२४॥

शूलर्ष्टिधारी दक्षे च गदाचक्रधरो पदे ।
रुद्रकेशवलक्ष्माङ्गो गौरीलक्ष्मीसमन्वितः ॥०२५॥

शङ्खचक्रगदावेदपाणिश्चाश्वशिरा हरिः ।
वामपादो धृतः शेषे दक्षिणः कूर्मपृष्ठगः ॥०२६॥

दत्तात्रेयो द्विबाहुः स्याद्वामोत्सङ्गे श्रिया सह ।
विश्वक्सेनश् चक्रगदी हली शङ्खी हरेर्गणः ॥०२७॥

{इत्य् आदिमहापुराणे आग्नेये प्रतिमालक्षणं नाम ऊनपञ्चाशो ऽध्यायः ॥ }