{अथाष्टाचत्वारिंशो ऽध्यायः}
विश्वास-प्रस्तुतिः
चतुर्विंशतिमूर्तिस्तोत्रकथनं
भगवानुवाच
ओंरूपः केशवः पद्मशङ्खचक्रगदाधरः ।
नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणं ॥००१॥
मूलम्

ततो गदो माधवोरिशङ्खपद्मी नमामि तं ।
चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः ॥००२॥

भोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश् च चक्रधृक् ।
शङ्खचक्राब्जगदिनं मधुसूदनमानमे ॥००३॥

भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि ।
शङ्खचक्रगदापद्मी वामनः पातु मां सदा ॥००४॥

गदितः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्ख्यपि1 ।
हृषीकेशो गदाचक्री पद्मी चक्रशङ्खी च पातु नः ॥००५॥

वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः ।
दामोदरः पद्मशङ्खगदाचक्री नमामि तं ॥००६॥
मूलम्
वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः ।
दामोदरः पद्मशङ्खगदाचक्री नमामि तं ॥००६॥
विश्वास-प्रस्तुतिः
तेने गदी शङ्खचक्री वासुदेवोब्जभृज्जगत् ।
सङ्कर्षणो गदी शङ्खी पद्मी चक्री च पातु वः ॥००७॥

:न्
[[१३७]]
विश्वास-प्रस्तुतिः
गदी चक्री शङ्खगदी 2 प्रद्युम्नः पद्मभृत् प्रभुः ।
अनिरुद्धश् चक्रगदी शङ्खी पद्मी च पातु नः ॥००८॥

सुरेशोर्यब्जशङ्खाढ्यः श्रीगदी पुरुषोत्तमः ।
अधोक्षजः पद्मगदी शङ्खी चक्री च पातु वः ॥००९॥

देवो नृसिंहश् चक्राब्जगदाशङ्खी नमामि तम् ।
अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः ॥०१०॥

बालरूपी शङ्खगदी उपेन्द्रश् चक्रपद्म्यपि ।
जनार्दनः पद्मचक्री शङ्खधारी गदाधरः ॥०११॥

शङ्खी पद्मी च चक्री च हरिः कौमोदकीधरः ।
कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः ॥०१२॥

आदिमूत्तिर्वासुदेवस्तस्मात् सङ्कर्षणोभवत् ।
सङ्कर्षणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः ॥०१३॥

केशवादिप्रभेदेन ऐकैकस्य त्रिधा क्रमात् ।
द्वादशाक्षरकं स्तोत्रं चतुर्विंशतिमूर्तिमत् ।०१४।
यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात् ॥०१४॥

{इत्य् आदिमहापुराणे आग्नेये चतुर्विंशतिमूर्तिस्तोत्रं नाम अष्टाचत्वारिंशो ऽध्यायः ॥ }