{अथ सप्तचत्वारिंशो ऽध्यायः }
विश्वास-प्रस्तुतिः
शालग्रामादिपूजाकथनं
भगवानुवाच
शालग्रामादिचक्राङ्कपूजाः सिद्ध्यै वदामि ते ।
त्रिविधा स्याद्धरेः पूजा काम्याकाम्योभयात्मिका ॥००१॥
मूलम्

:न्
[[१३५]]
विश्वास-प्रस्तुतिः
वराहस्य नृसिंहस्य वामनस्य च मुक्तये ॥००२॥

चक्रादीनां त्रयाणान्तु शालग्रामार्चनं शृणु ।
उत्तमा निष्फला पूजा कनिष्ठा सफलार्चना ॥००३॥

मध्यमा मूर्तिपूजा स्याच्चक्राब्जे चतुरस्रके ।
प्रणवं हृदि विन्यस्य षडङ्गङ्करदेहयोः ॥००४॥

कृतमुद्रात्रयश् चक्राद् वहिः पूवे गुरुं यजेत् ।
आप्ये गणं वायवे च धातारं नैरृते यजेत् ॥००५॥

विधातारञ्च कर्तारं हर्तारं दक्षसौम्ययोः ।
विश्वक्सेनं यजेदीशे आग्नेये क्षेत्रपालकम् ॥००६॥

ऋगादिवेदान् प्रागादौ आधारानन्तकं भुवं ।
पीठं पद्मं चार्कचन्द्रवह्न्याख्यं मण्डलत्रयं ॥००७॥

आसनं द्वादशार्णेन तत्र स्थाप्य शिलां यजेत् ।
अस्तेन च समस्तेन स्ववीजेन यजेत् क्रमात् ॥००८॥

पूर्वादावथ वेदाद्यैर् गायत्रीभ्यां जितादिना ।
प्रणवेनार्चयेत् पञ्चान्मुद्रास्तिस्रः प्रदर्शयेत् ॥००९॥

विश्वक्सेनस्य चक्रस्य क्षेत्रपालस्य दर्शयेत् ।
शालग्रामस्य प्रथमा पूजार्थो निष्फलोच्यते ॥०१०॥

पूर्ववत् षोडशारञ्च सपद्मं मण्डलं लिखेत् ।
शङ्खचक्रगदाखड्गैर् गुर्वाद्यं पूर्ववद्यजेत्1 ॥०११॥

पूर्वे सौम्ये धनुर्वाणान् वेदाद्यैर् आसनं ददेत् ।
शिलां न्यसेद् द्वादशार्णैस्तृतीयं पूजनं शृणु ॥०१२॥

[[१३६]]
विश्वास-प्रस्तुतिः
अष्टार्णेनासनं दत्वा तेनैव च शिलां न्यसेत् ।०१३।
पूजयेद्दशधा तेन गायत्रीभ्यां जितं तथा1 ॥०१३॥

{इत्य् आदिमहापुराणे आग्नेये शालग्रामादिपूजाकथनं नाम सप्तचत्वारिंशो ऽध्यायः ॥ }