{अथ षट्चत्वारिंशो ऽध्यायः}
विश्वास-प्रस्तुतिः
शालग्रामादिमूर्तिलक्षणकथनं
भगवानुवाच
शालग्रामादिमूर्तेश् च वक्ष्येहं भुक्तिमुक्तिदाः ।
वासुदेवो ऽसितो द्वारे शालग्रामद्विचक्रकः ॥००१॥
मूलम्

ज्ञेयः सङ्कर्षणो लग्नद्विचक्रो रक्त उत्तमः ।
सूक्ष्मचक्रो बहुच्छिद्रः प्रद्युम्नो नीलदीघवः ॥००२॥

पीतो निरुद्धः पद्माङ्गो वर्तुलो द्वित्रिरेखवान् ।
कृष्णो नारायणो नाभ्युन्नतः शुषिरदीर्घवान् ॥००३॥

परमेष्ठो साब्जचक्रः पृष्ठच्छिद्रकश् च1 विन्दुमान् ।
स्थूलचक्रो ऽसितो विष्णुर्मध्ये रेखा गदाकृतिः ॥००४॥

नृसिंहः कपिकः स्थूलवक्रः स्यात् पञ्चविन्दुकः ।
वराहः शक्तिलिङ्गः स्यात् तच्चक्रौ विषमौ सृतौ ॥००५॥

इन्द्रनीलनिभः स्थूलस्त्रिरेखालाञ्छितः शुभः ।
कूर्मस्तथोन्नतः पृष्ठे वर्तुलावर्तको ऽसितः ॥००६॥

:न्
[[१३४]]
विश्वास-प्रस्तुतिः
वैकुण्ठः एकचक्रो ऽब्जी मणिभिः पुच्छरेखकः ॥००७॥

मत्स्यो दीर्घस्त्रिविन्दुः स्यात् काचवर्णस्तु पूरितः ।
श्रीधरो वनमालाङ्कः पञ्जरेखस्तु वर्तुलः ॥००८॥

वामनो वर्तुलश्चातिह्रस्वो नीलः सविन्दुकः ।
श्यामस्त्रिविक्रमो दक्षरेखो वामेन विन्दुकः ॥००९॥

अनन्तो नागभोगाङ्गो नैकाभो नैकमूर्तिमान् ।
स्थूलो दामोदरो मध्यचक्रो द्वाःसूक्ष्मविन्दुकः1 ॥०१०॥

सुदर्शनस्त्वेकचक्रो लक्ष्मीनारायणो द्वयात् ।
त्रिचक्रश्चाच्युतो देवस्त्रिचक्रको वा त्रिविक्रमः ॥०११॥

जनार्दनश् चतुश् चक्रो वासुदेवश् च पञ्चभिः ।
षट्वक्रश् चैव प्रद्युम्नः सङ्कर्षणञ्च सप्तभिः ॥०१२॥

पुरुषोत्तमोष्टचक्रो नवव्यूहो नवाङ्कितः ।
दशावतारो दशभिर्दशैकेनानिरुद्धकः ।०१३।
द्वादशात्मा द्वादशभिरत ऊर्ध्वमनन्तकः ॥०१३॥

{इत्य् आदिमहापुराणे आग्नेये शालग्रामादिमूर्तिलक्षणं नाम षट्चत्वारिंशो ऽध्यायः }