{अथ पञ्चचत्वारिंशोध्यायः}
विश्वास-प्रस्तुतिः
पिण्डिकालक्षणकथनं
भगवानुवाच
पिण्डिकालक्षणं वक्ष्ये दैर्घ्येण प्रतिमासमा ।
उच्छ्रायं प्रतिमार्धन्तु चतुःषष्टिपुटां1 च ताम् ॥००१॥
मूलम्

:न्
[[१३२]]
विश्वास-प्रस्तुतिः
समन्तादुभयोः पार्श्वे अन्तस्थं परिमार्जयेत् ॥००२॥

ऊर्ध्वं पङ्ग्क्तिद्वयं त्यक्त्वा अधस्ताद् यत्तु कोष्ठकम् ।
अन्तः सम्मार्जयेत् यत्नात् पार्श्वयोरुभयोः समम् ॥००३॥

तयोर्मध्यगतौ तत्र चतुष्कौ मार्जयेत्ततः ।
चतुर्धा भाजयित्वा तु ऊर्ध्वपङ्क्तिद्वयं बुधः ॥००४॥

मेखला भागमात्रा स्यात् खातं तस्यार्धमानतः ।
भागं भागं परित्यज्य पार्श्वयोरुभयोः समं ॥००५॥

दत्वा चैकं पदं वाह्ये प्रमाणं कारयेद् बुधः ।
त्रिभागेण च भागस्याग्रे स्यात्तोयविनिर्गमः ॥००६॥

नानाप्रकारभेदेन भद्रेयं2 पिण्डिका शुभा ।
अष्टताला तु कर्तव्या देवी लक्ष्मीस्तया स्त्रियः ॥००७॥

भ्रुवौ यवाधिके कार्ये यवहीना तु नासिका ।
गोलकेनाधिकं वक्त्रमूर्ध्वं तिर्यग्विवर्जितं ॥००८॥

आयते नयने कार्ये त्रिभागोनैर् यवैस्त्रिभिः ।
तदर्धेन तु वैपुल्यं नेत्रयोः परिकल्पयेत् ॥००९॥

कर्णपाशो ।धिकः कार्यः सृक्कणीसमसूत्रतः ।
नम्रं कलाविहीनन्तु कुर्यादंशद्वयं तथा ॥०१०॥

ग्रीवा सार्धकला कार्या तद्विस्तारोपशोभिता ।
नेत्रं विना तु विस्तारौ ऊरू जानू च पिण्डिका ॥०११॥

अङ्घ्रिपृष्ठौ स्फिचौ कट्यां यथाभागं प्रकल्पयेत् ।
सप्तांशोनास् तथाङ्गुल्यो दीर्घं विष्कम्भनाहतं ॥०१२॥

नेत्रैकवर्जितायामा जङ्घोरू च तथा कटिः ।
मध्यपार्श्वं च तद्वृत्तं घनं पीनं कुचद्वयं ॥०१३॥

[[१३३]]
विश्वास-प्रस्तुतिः
तालमात्रौ स्तनौ कर्यौ कटिः सार्धकलाधिका ।
लक्ष्म शेषं पुरावत्स्यात् दक्षिणे चामुबुजं करे ॥०१५॥

वामे वित्त्वं स्त्रियौ पार्श्वे शुभे चामरहस्तके ।
दीर्घघोणस्तु गरुडश् चक्राङ्गाद्यानथो वदे ॥०१६॥

{इत्य् आदिमहापुराणे आग्नेये पिण्डिकालक्ष्मादिलक्षणं नाम पञ्चचत्वारिंशो ऽध्यायः }