{अथ चतुश् चत्वारिंशो ऽध्यायः}
विश्वास-प्रस्तुतिः
वासुदेवादिप्रतिमालक्षणविधिः
भगवानुवाच
वासुदेवादिप्रतिमालक्षणं प्रवदामि ते ।
प्रासादस्योत्तरे पूर्वमुखीं वा चोत्तराननां ॥००१॥
मूलम्

संस्थाप्य पूज्य च बलिं दत्वाथो मध्यसूचकं ।
शिलां शिल्पी तु नवधा विभज्य नवमे ऽंशके ॥००२॥

सूर्पभक्तैः शिलायां तु भागं स्वाङ्गुलमुच्यते ।
द्व्यङ्गुलं गोलकं नाम्ना कालनेत्रं तदुच्यते ॥००३॥

भागमेकं त्रिधा भक्त्वा पार्ष्णिभागं प्रकल्पयेत् ।
भागमेकं तथा जानौ ग्रीवायां भागमेव च ॥००४॥

मुकुटं तालमात्रं स्यात्तालमात्रं तया मुखं ।
तालेनैकेन कण्ठन्तु तालेन हृदयं तथा ॥००५॥

नाभिमेढ्रान्तरन्तालं द्वितालावूरुकौ तथा ।
तालद्वयेन जङ्घा स्यात् सूत्राणि शृणु साम्प्रतं ॥००६॥

कार्यं सूत्रद्वयं पादे जङ्घामध्ये तथापरं ।
जानौ सूत्रद्वयं कार्यमूरूमध्ये तथापरं ॥००७॥

मेढ्रे तथापरं कार्यं कट्यां सूत्रन्तथापरं ।
मेखलाबन्धसिद्ध्यर्थं नाभ्यां चैवापरन्तथा ॥००८॥

[[१२८]]
विश्वास-प्रस्तुतिः
हृदये च तथा कार्यं कण्ठे सूत्रद्वयं तथा ।
ललाते चापरं कार्यं मस्तके च तथापरं ॥००९॥

मुकुटोपरि कर्तव्यं सूत्रमेकं विचक्षणैः ।
सूत्राण्यूर्ध्वं प्रदेयानि सप्तैव कमलोद्भव1 ॥०१०॥

कक्षात्रिकान्तरेणैव घट् सूत्राणि प्रदापयेत् ।
मध्यसूत्रं तु सन्त्यज्य सूत्राण्येव निवेदयेत् ॥०११॥

ललाटं नासिकावक्त्रं कर्तव्यञ्चतुरङ्गुलं ।
ग्रीवाकर्णौ तु कर्तव्यौ आयामाच्चतुरङ्गुलौ ॥०१२॥

द्व्यङ्गुले हनुके कार्ये विस्ताराच्चिबुकन्तथा ।
अष्टाङ्गुलं ललाटन्तु विस्तारेण प्रकीर्तितम् ॥०१३॥

परेण द्व्यङ्गुलौ शङ्खौ कर्तव्यावलकान्वितौ ।
चतुरङ्गुलमाख्यातमन्तरं कर्णनेत्रयोः ॥०१४॥

द्व्यङ्गुलौ पृथुकौ कर्णौ कर्णापाङ्गार्धपञ्चमे ।
भ्रूसमेन तु सूत्रेण कर्णश्रोत्रं प्रकीर्तितम् ॥०१५॥

विद्धं षडङ्गुलं कर्णमविद्धञ्चतुरङ्गुलम् ।
चिवुकेन समं विद्धमविद्धं वा षडङ्गुलम् ॥०१६॥

गन्धपात्रं तथावर्तं शष्कुलीं कल्पयेत्तथा ।
द्व्यङ्गुलेनाधरः कार्यस्तस्यार्धेनोत्तराधरः ॥०१७॥

अर्धाङ्गुलं तथा नेत्रं2 वक्त्रन्तु चतुरङ्गुलम् ।
आयामेन तु वैपुल्यात् सार्धमङ्गुलमुच्यते ॥०१८॥

अव्यात्तमेवं स्याद्वक्त्रं व्यात्तं त्र्यङ्गुलमिष्यते ।
नासावंशसमुच्छ्रायं मूले त्वेकाङ्गुलं मतम् ॥०१९॥

:न्
[[१२९]]
विश्वास-प्रस्तुतिः
अन्तरं चक्षुषोः कार्यं चतुरङ्गुलमानतः ॥०२०॥

द्व्यङ्गुलं चाक्षिकोणं च द्व्यङ्गुलं चान्तरं तयोः ।
तारा नेत्रत्रिभागेण दृक्तारा पञ्चमांशिका ॥०२१॥

त्र्यङ्गुलं नेत्रविस्तारं द्रोणी चार्धाङ्गुला मता ।
तत्समाणा भ्रुवोर्लेखा भ्रुवौ चैव समे मते ॥०२२॥

भ्रूमध्यं द्व्यङ्गुलं कार्यं भ्रूदैर्घ्यं चतुराङ्गुलम्1 ।
षट्त्रिंशदङ्गुलायामम्मस्तकस्य तु वेष्टनम् ॥०२३॥

मूर्तीनां केशवादीनां द्वात्रिंशद्वेष्टनं भवेत् ।
पञ्चनेत्रा त्वधोग्रीवा विस्ताराद्वेष्टनं पुनः ॥०२४॥

त्रिगुणन्तु भवेदूर्ध्वं विस्तृताष्टाङ्गुलं पुनः ।
ग्रीवात्रिगुणमायामं ग्रीवावक्षोन्तरं भवेत् ॥०२५॥

स्कन्धावष्टाङ्गुलौ कार्यौ त्रिकलावंशकौ शुभौ ।
सप्तनेत्रौ स्मृतौ बाहू प्रबाहू षोडशाङ्गुलौ ॥०२६॥

त्रिकलौ विस्तृतौ बाहू प्रबाहू चापि तत्समौ ।
बाहुदण्डोर्ध्वतो ज्ञेयः परिणाहः कला नव ॥०२७॥

सप्तदशाङ्गुलो मध्ये कूर्पारोर्धे च षोडश ।
कूर्पारस्य भवेन्नाहः त्रिगुणः कमलोद्भव ॥०२८॥

नाहः प्रबाहुमध्ये तु षोडशाङ्गुल उच्यते ।
अग्रहस्ते परीणाहो द्वादशाङ्गुल उच्यते ॥०२९॥

विस्तरेण करतलं कीर्तितं तु षडङ्गुलम् ।
दैर्घ्यं सप्ताङ्गुलं कार्यं मध्या पज्चाङ्गुला मता ॥०३०॥

तर्जन्यनामिका चैव तस्मादर्धाङ्गुलं विना ।
कनिष्ठाङ्गुष्ठकौ कार्यौ चतुरङ्गुलसम्मितौ ॥०३१॥

[[१३०]]
विश्वास-प्रस्तुतिः
द्विपर्वोङ्गुष्ठकः कार्यः शेषागुल्यस्त्रिपर्विकाः ।
सर्वासां पर्वणोर्धेन नखमानं विधीयते ॥०३२॥

वक्षसो यत् प्रमाणन्तु जठरं तत्प्रमाणतः ।
अङ्गुलैकं भवेन्नाभी वेधेन च प्रमाणतः ॥०३३॥

ततो मेढ्रान्तरं कार्यं तालमात्रं प्रमाणतः ।
नाभिमध्ये प्रीणाहो द्विचत्वारिंशदङ्गुलैः ॥०३४॥

अन्तरं स्तनयोः कार्यं तालमात्रं प्रमाणतः ।
चिवुकौ1 यवमानौ तु मण्डलं द्विपदं भवेत् ॥०३५॥

चतुःषष्ट्यङ्गुलं कार्यं वेष्टनं वक्षसः
स्फुटम् ।
चतुर्मुखञ्च तदधोवेष्टनं परिकीर्तितम् ॥०३६॥

परिणाहस् तथा कट्या चतुःपञ्चाशदङ्गुलैः ।
विस्तारश्चोरुमूले तु प्रोच्यते द्वादशङ्गुलः ॥०३७॥

तस्मादभ्यधिकं मध्ये ततो निम्नतरं क्रमात् ।
विस्तृताष्टाङ्गुलं जानुत्रिगुणा परिणाहतः ॥०३८॥

जङ्घामध्ये तु विस्तारः सप्ताङ्गुल उदाहृतः ।
त्रिगुणा परिधिश्चास्य जङ्घाग्रं पञ्चविस्तरात् ॥०३९॥

त्रिगुणा परिधिश्चास्य पादौ तालप्रमाणकौ ।
आयामादुत्थितौ पादौ चतुरङ्गुलमेव च ॥०४०॥

गुल्फात् पूर्वं तु कर्तव्यं प्रमाणाच्चतुरङ्गुलम् ।
त्रिकलं विस्तृतौ पादौ त्र्यङ्गुलो गुह्यकः स्मृतः ॥०४१॥

पञ्चाङ्गुलस्तु नाहोस्य दीर्घा तद्वत् प्रदेशिनी ।
अष्टमाष्टांशतोन्यूनः शेषाङ्गुल्यः क्रमेण तु ॥०४२॥

सपादाङ्गुलमुत्सेधमङ्गुष्टस्य प्रकीर्तितं ।
यवोनमङ्गुलं कार्यमङ्गुष्ठस्य नखं तथा ॥०४३॥

[[१३१]]
विश्वास-प्रस्तुतिः
अर्धाङ्गुलं तथान्यासां1 क्रमान् न्यूनं तु कारयेत् ।
अङ्गुलौ वृषणौ कार्यौ मेढ्रं तु चतुरङ्गुलम् ॥०४४॥

परिणाहोत्र कोषाग्रं कर्तव्यञ्चतुरङ्गुलम् ।
षडङ्गुलपरीणाहौ वृषणौ परिकीर्तितौ ॥०४५॥

प्रतिमा भूषणाढ्या स्यादेतदुद्देशलक्षणम् ।
अनयैव दिशा कार्यं लोके दृष्ट्वा तु लक्षणम् ॥०४६॥

दक्षिणे तु करे चक्रमधस्तात् पद्ममेव च ।
वामे शङ्खं गदाधस्ताद्वासुदेवस्य लक्षणात् ॥०४७॥

श्रीपुष्टौ वापि कर्तव्ये पद्मवीणाकरान्विते ।
ऊरुमात्रोच्छितायामे मालाविद्याधरौ2 तथा ॥०४८॥

प्रभामण्डलसंस्थौ तौ प्रभा हस्त्यादिभूषणा ।
पद्माभं पादपीठन्तु प्रतिमास्वेवमाचरेत् ॥०४९॥

{इत्य् आदिमहापुराणे आग्नेये प्रतिमालक्षणं नाम चतुश् चत्वारिंशोध्यायः ॥ }