{अथ त्रिचत्वारिंशो ऽध्यायः}
विश्वास-प्रस्तुतिः
प्रासाददेवतास्थापनं
भगवानुवाच
प्रासादे देवताः स्थाप्या वक्ष्ये ब्रह्मन् शृणुष्व मे ।
पञ्चायतमध्ये तु वासुदेवं निवेशयेत् ॥००१॥
मूलम्

वामनं नृहरिञ्चाश्वशीर्षं तद्वञ्च शूकरं ।
आग्नेये नैरृते चैव वायव्ये चेशगोचरे ॥००२॥

अथ नारायणं मध्ये आग्नेय्यामम्बिकां न्यसेत् ।
नैरृत्यां भास्करं वायौ ब्रह्माणं लिङ्गमीशके ॥००३॥

अथवा रुद्ररूपन्तु अथवा नवधामसु ।
वासुदेवं न्यसेन्मध्ये पूर्वादौ वामवामकान् ॥००४॥

इन्द्रादीन् लोकपालांश् च अथवा नवधामसु ।
पञ्चायतनकं कुर्यात् मध्ये तु पुरुषोत्तमं ॥००५॥

लक्ष्मीवैश्रवणौ पूर्वं दक्षे मातृगणं न्यसेत् ।
स्कन्दं गणेशमीशानं सूर्यादीन् पश्चिमे ग्रहान् ॥००६॥

उत्तरे दश मत्स्यादीनाग्नेय्यां चण्डिकां तथा ।
नैरृत्यामम्बिकां स्थाप्य वायव्ये तु सरस्वतीं ॥००७॥

पद्मामैशे वासुदेवं मध्ये नारायणञ्च वा ।
त्रयोदशालये मध्ये विश्वरूपं न्यसेद्धरिं ॥००८॥

[[१२५]]
विश्वास-प्रस्तुतिः
पूर्वादौ केशवादीन् वा अन्यधामस्वयं हरिं1 ।
मृण्मयी दारुघटिता लोहजा रत्नजा तथा ॥००९॥

शैलजा गन्धजा चैव कौसुमी2 सप्तधा स्मृता ।
कौसुमी गन्धजा चैव मृण्मयी प्रतिमा तथा ॥०१०॥

तत्कालपूजिताश् चैताः सर्वकामफलप्रदाः ।
अथ शैलमयीं वक्ष्ये शिला यत्र च गृह्यते ॥०११॥

पर्वतानामभावे च गृह्णीयाद्भूगतां शिलां ।
पाण्डरा ह्य् अरुणा पीता कृष्णा शस्ता तु वैर्णिनां ॥०१२॥

न यदा लभ्यते सम्यग् वर्णिनां वर्णतः शिला ।
वर्णाद्यापादानं तत्र जुह्यात् सिंहविद्यया ॥०१३॥

शिलायां शुक्लरेखाग्र्या कृष्णाग्र्या सिंहहोमतः ।
कांस्यघण्टानिनादा स्यात् पुंलिङ्गा विस्फुलिङ्गिका ॥०१४॥

तन्मन्दलक्षणा3 स्त्री स्याद्रूपाभावान्नपुंसका ।
दृश्यते मण्डलं यस्यां सगर्भां तां विवर्जयेत् ॥०१५॥

प्रतिमार्थं वनं गत्वा व्रजयागं समाचरेत् ।
तत्र खात्वोपलिप्याथ मण्डपे तु हरिं यजेत् ॥०१६॥

बलिं दत्वा कर्मशस्त्रं टङ्कादिकमथार्चयेत् ।
हुत्वाथ शालितोयेन अस्त्रेण प्रोक्षयेच्छिलां ॥०१७॥

रक्षां कृत्वा नृसिंहेन मूलमन्त्रेण पूजयेत्4 ।
हुत्वा पूर्णाहुतिं दद्यात्ततो भूतबलिं गुरुः ॥०१८॥

:न्
[[१२६]]
विश्वास-प्रस्तुतिः
अत्र ये संस्थिताः सत्त्वा यातुधानाश् च गुह्यकाः ।
सिद्धादयो वा ये चान्ये तान् सम्पूज्य क्षमापयेत् ॥०१९॥

विष्णुबिम्बार्थमस्माकं1 यात्रैषा केशवाज्ञया ।
विष्ण्वर्थं यद्भवेत् कार्यं युष्माकमपि तद्भवेत् ॥०२०॥

अनेन बलिदानेन प्रीता भवत सर्वथा ।
क्षमेण गच्छतान्यत्र मुक्त्वा स्थानमिदं त्वरात् ॥०२१च्दे
एवं प्रबोधिताः सत्त्वा यान्ति तृप्ता यथासुखं ।
शिल्पिभिश् च चरुं प्राश्य स्वप्नमन्त्रं जपेन्निशि ॥०२२॥

ॐ नमः सकललोकाय विष्णवे प्रभविष्णवे ।
विश्वाय विश्वरूपाय स्वप्नाधिपतये2 नमः ॥०२३॥

आचक्ष्व देवदेवेश प्रसुप्तोस्मि3 तवान्तिकं ।
स्वप्ने सर्वाणि कार्याणि हृदिस्थानि तु यानि मे ॥०२४॥

ॐ ॐ ह्रूं फट् विष्णवे स्वाहा4
शुभे स्वप्ने शुभं सर्वं ह्य् अशुभे सिंहहोमतः ।
प्रातरर्घ्यं शिलायां तु दत्वास्त्रेणास्त्रकं यजेत् ॥०२५॥

कुद्दालटङ्कशस्त्राद्यं मध्वान्याक्तमुखञ्चरेत् ।
आत्मानं चिन्तयेद्विष्णुं शिल्पिनं विश्वकर्मकं5 ॥०२६॥

शस्त्रं विष्ण्वात्मकं6 दद्यात् मुखपृष्ठादि दर्शयेत् ।
जितेन्द्रियः टङ्कहस्तः शिल्पी तु चतुरस्रकां ॥०२७॥

[[१२७]]
विश्वास-प्रस्तुतिः
शिलां कृत्वा पिण्डिकार्थं किञ्चिन्न्यूनान्तु कल्पयेत् ।
रथे स्थाप्य समानीय सवस्त्रां कारुवेश्मनि ।०२८।
पूजयित्वाथ घटयेत् प्रतिमां स तु कर्मकृत् ॥०२८॥

{इत्य् आदि महापुराणे आग्नेये शान्त्यादिवर्णनं नाम त्रिचत्वारिंशो ऽध्यायः ॥ }