०४२ प्रासादलक्षणकथनम्

{अथ द्वाचत्वारिंशो ऽध्यायः}

विश्वास-प्रस्तुतिः

प्रासादलक्षणकथनं

हयग्रीव उवाच
प्रासादं सम्प्रवक्ष्यामि सर्वसाधारणं शृणु ।
चतुरस्रीकृतं क्षेत्रं भजेत् षोडशधा बुधः ॥००१॥

मूलम्

मध्ये तस्य चतुर्भिस्तु कुर्यादायसमन्वितं ।

:न्

[[१२२]]

विश्वास-प्रस्तुतिः

द्वदशैव तु भागानि भित्त्यर्थं परिकल्पयेत् ॥००२॥

जङ्घोच्छ्रायन्तु कर्तव्यं चतुर्भागेण चायतं1
जङ्घायां द्विगुणोच्छ्रायं मञ्जर्याः कल्पयेद् बुधः ॥००३॥

तुर्यभागेन मञ्जर्याः कार्यः सम्यक् प्रदक्षिणः2
तन्माननिर्गमं कार्यमुभयोः पार्श्वयोः समं ॥००४॥

शिखरेण समं कार्यमग्रे जगति विस्तरं ।
द्विगुणेनापि कर्तव्यं यथाशोभानुरूपतः ॥००५॥

विस्तारान्मण्डपस्याग्रे गर्भसूत्रद्वयेन तु ।
दैर्घ्यात्पादाधिकं कुर्यान्मध्यस्तम्भैर् विभूषितं ॥००६॥

प्रासादगर्भमानं वा कुर्वीत मुखमण्डपं ।
एकाशीतिपदैर् व्यास्तुं पश्चात् मण्डपमारभेत् ॥००७॥

शुकान् प्राग्द्वारविन्यासे पादान्तःस्थान् यजेत् सुरान् ।
तथा प्राकारविन्यासे यजेद् द्वात्रिंशदन्तगान्3 ॥००८॥

सर्वसाधारणं चैतत् प्रासादस्य च लक्षणं ।
मानेन प्रतिमाया वा प्रासादमपरं शृणु ॥००९॥

प्रतिमायाः प्रमाणन कर्तव्या पिण्डिका शुभा ।
गर्भस्तु पिण्डिकार्धेन गर्भमानास्तु भित्तयः ॥०१०॥

भित्तेरायाममानेन उत्सेधन्तु प्रकल्पयेत् ।
भित्त्युच्छ्रायात्तु द्विगुणं शिखरं कल्पयेद् बुधः ॥०११॥

शिखरस्य तु तुर्येण भ्रमणं परिकल्पयेत् ।
शिखरस्य चतुर्थेन व्यग्रतो मुखमण्डपं ॥०१२॥

[[१२३]]

विश्वास-प्रस्तुतिः

अष्टमांसेन गर्भस्य रथकानान्तु निर्गमः ।
परिधेर्गुणभागेन रथकांस्तत्र कल्पयेत् ॥०१३॥

तत्तृतीयेण[^४] वा कुर्याद्रथकानान्तु निर्गमं ।
वामत्रयं स्थापनीयं रथकत्रितये सदा ॥०१४॥

शिखरार्थं हि सूत्राणि चत्वारि विनिपातयेत् ।
शुकनाशोर्ध्वतः सूत्रं तिर्यग्भूतं निपातयेत् ॥०१५॥

शिखरस्यार्धभागस्थं सिंहं तत्र तु कारयेत् ।
शुकनासां स्थिरीकृत्य मध्यसन्धौ निधापयेत् ॥०१६॥

अपरे च तथा पार्श्वं तद्वत् सूत्रं निधापयेत् ।
तदूर्ध्वन्तु भवेद्वेदी सकण्टा मनसारकं ॥०१७॥

स्कन्धभग्नं न कर्तव्यं विकरालं तथैव च ।
ऊर्ध्वं च वेदिकामानात् कलशं परिकल्पयेत् ॥०१८॥

विस्ताराद्द्विगुणं द्वारं कर्तव्यं तु सुशोभनं ।
उदुम्बरौ तदूर्ध्वञ्च न्यसेच्छाखां सुमङ्गलैः ॥०१९॥

द्वारस्य तु चतुर्थांशे कार्यौ चण्डप्रचण्दकौ ।
विश्वक्सेनवत्सदण्डौ शिखोर्ध्वोडुम्बरे श्रियं ॥०२०॥

दिग्गजैः स्नाप्यमानान्तां घटेः साब्जां सुरूपिकां ।
प्रासादस्य चतुर्थांशैः प्राकारस्योच्छ्रयो भवेत् ॥०२१॥

प्रासादात् पादहीनस्तु गोपुरस्योच्छ्रयो भवेत् ।
पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका ॥०२२॥

गारुडं मण्डपञ्चाग्रे एकं भौमादिधाम च ।
कुर्याद्धि प्रतिमायान्तु दिक्षु चाष्टमासु चोपरि ॥०२३॥

पूर्वे वराहं दक्षे च नृसिंहं श्रीधरं जले ।
उत्तरे तु हयग्रीवनाग्नेय्यां जामदग्न्यकं ॥०२४॥

[[१२४]]

विश्वास-प्रस्तुतिः

नैरृत्यां रामकं वायौ वामनं वासुदेवकं ।
ईशे प्रासादरचना देया वस्वर्ककादिभिः ।०२५।
द्वारस्य चाष्टमाद्यंशं त्यत्का बेधो न दोषभाक् ॥०२५॥

{इत्य् आदिमहापुराणे आग्नेये प्रासादलक्षणं नाम द्वाचत्त्वारिंशो ऽध्यायः }

  1. समप्रासादमानत इति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  2. सम्यक् कुर्यात् प्रदक्षिणमिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  3. द्वात्रिंशदन्तरे इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎