{अथैकचत्वारिंशो ऽध्यायः }
विश्वास-प्रस्तुतिः
शिलाविन्यासविधानं
भगवानुवाच
पादप्रतिष्ठां वक्षामि शिलाविन्यासलक्षणं ।
अग्रतो मण्डपः कार्यः कुण्डलानान्तु चतुष्टयं ॥००१॥
मूलम्

कुम्भन्यासेष्टकान्यासो द्वारस्तम्भोच्छ्रयं शुभं ।
पादोनं पूरयेत् खातं तत्र वास्तुं यजेत् समे ॥००२॥

इष्टकाश् च सुपक्वाः स्युर्द्वादशाङ्गुलसम्मिताः ।
सविस्तारत्रिभागेन वैपुल्येन1 समन्विताः ॥००३॥

करप्रमाणा श्रेष्ठा स्याच्छिलाप्यथ शिलामये2 ।
नव कुम्भांस्ताम्रमयान् स्थापयेदिष्टकाघटान् ॥००४॥

अद्भिः पञ्चकषायेण सर्वौषधिजलेन च ।
गन्धतोयेन च तथा कुम्भैस्तोयसुपूरितैः ॥००५॥

हिरण्यव्रीहिसंयुक्तैर् गन्धचन्दनचर्चितैः ।
आपो हि ष्ठेति तिसृभिः शन्नो देवीति चाप्यथ ॥००६॥

तरत् समन्दीरिति च3 पावमानीभिरेव च ।
उदुत्तमं वरुणमिति कथानश् च तथैव च ॥००७॥
मूलम्
तरत् समन्दीरिति च3 पावमानीभिरेव च ।
उदुत्तमं वरुणमिति कथानश् च तथैव च ॥००७॥
:न्
[[११९]]
विश्वास-प्रस्तुतिः
वरुणस्येति मन्त्रेण हंसः शुचिषदित्यपि ।
श्रीसूक्तेन तथा शिलाः संस्थाप्य सङ्घटाः1 ॥००८॥

शय्यायां मण्डपे प्राच्यां मण्डले हरिमर्चयेत् ।
जुहुयाज्जनयित्वाग्निं समिधो द्वादशीस्ततः ॥००९॥

आघारावाज्यभागौ तु प्रणवेनैव कारयेत् ।
अष्टाहुतीस् तथाष्टान्तैर् आज्यं2 व्याहृतिभिः क्रमात् ॥०१०॥

लोकेशानामग्नये वै सोमायावग्रहेषु च3 ।
पुरुषोत्तमायेति च व्याहृतीर्जुहुयात्ततः ॥०११॥

प्रायश्चित्तं ततः पूर्णां मूर्तिमांसघृतांस्तिलान् ।
वेदाद्यैर् द्वादशान्तेन4 कुम्भेषु च पृथक् पृथक् ॥०१२॥

प्राङ्मुखस्तु गुरुः कुर्यादष्टदिक्षु विलिप्य च ।
मध्ये चैकां शिलां कुम्भं न्यसेदेतान् सुरान् क्रमात् ॥०१३॥

पद्मं चैव महापद्मं मकरं कच्छपं तथा ।
कुमुदञ्च तथा नन्दं पद्मं शङ्खञ्च पद्मिनीं ॥०१४॥

कुम्भान्न चालयेत्तेषु इष्टकानान्तु देवताः ।
ईशानान्ताश् च पूर्वादाविष्टकां प्रथमं न्यसेत् ॥०१५॥

शक्तयो विमलाद्यास्तु इष्टकानान्तु देवताः ।
न्यसनीया यथा योगं मध्ये न्यस्या त्वनुग्रहा ॥०१६॥

अव्यङ्गे चाक्षत पूर्णं मुनेरङ्गिरसः सुते ।
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहं ॥०१७॥

[[१२०]]
विश्वास-प्रस्तुतिः
गर्भाधानं ततः कुर्यान्मध्यस्थाने समाहितः ॥०१८॥

कुम्भोपरिष्ठादेवेशं पद्मिनीं न्यस्य देवतां ।
मृत्तिकाश् चैव पुष्पाणि धातवो रत्नमेव च1 ॥०१९॥

लौहानि दिक्पतेरस्त्रं यजेद्वै गर्भभाजने ।
द्वादशाङ्गुलविस्तारे चतुरङ्गुलकोच्छ्रये ॥०२०॥

पद्माकारे ताम्रमये भाजने पृथिवीं यजेत् ।
एकान्ते सर्वभूतेशे पर्वतासनमण्डिते ॥०२१॥

समुद्रपरिवारे त्वं देवि गर्भं समाश्रय ।
नन्दे नन्दय वासिष्ठे वसुभिः प्रजया2 सह ॥०२२॥

जये भार्गवदायादे प्रजानां विजयावहे ।
पूर्णेङ्गिरसदायादे पूर्णकामं कुरुष्व मां ॥०२३॥

भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ।
सर्ववीजसमायुक्ते सर्वरत्नौषधीवृते ॥०२४॥

जये सुरुचिरे नन्दे वासिष्ठे रम्यतामिह ।
प्रजापतिसुते देवि चतुरस्रे महीयसि ॥०२५॥
मूलम्
जये सुरुचिरे नन्दे वासिष्ठे रम्यतामिह ।
प्रजापतिसुते देवि चतुरस्रे महीयसि ॥०२५॥
विश्वास-प्रस्तुतिः
सुभगे सुप्रभे भद्रे गृहे काश्यपि रम्यतां ।
पूजिते परमाश् चर्ये गन्धमाल्यैर् अलङ्कृते ॥०२६॥

भवभूतिकरी देवि गृहे भार्गवि रम्यतां ।
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ॥०२७॥

मनुष्यादिकतुष्ट्यर्थं पशुवृद्धिकरी भव ।
एवमुक्त्वा ततः खातं गोमूत्रेण तु सेचयेत् ॥०२८॥

कृत्वा निधापयेद्गर्भं गर्भाधानं भवेन्निशि ।
गोवस्त्रादि प्रदद्याच्च गुरवेन्येषु भोजनं ॥०२९॥

[[१२१]]
विश्वास-प्रस्तुतिः
गर्भं न्यस्येष्टका न्यस्य ततो गर्भं प्रपूरयेत् ।
पीठबन्धमतः कुर्यान्मितप्रासादमानतः1 ॥०३०॥

पीठोत्तमञ्चोच्छ्रयेण प्रासादस्यार्धविस्तरात् ।
पदहीनं मध्यमं स्यात् कनिष्ठं चोत्तमार्धतः ॥०३१॥

पीठबन्धोपरिष्ठात्तु वास्तुयागं पुनर्यजेत् ।
पादप्रतिष्ठाकारी तु निष्पापो दिवि मोदते ॥०३२॥

देवागारं करोमीति मनसा यस्तु चिन्तयेत् ।
तस्य कायगतं पापं तदह्ना हि प्रणश्यति ॥०३३॥

कृते तु किं पुनस्तस्य प्रासादे विधिनैव तु ।
अष्टेष्टकसमायुक्तं यः कुर्याद्देवतालयं ॥०३४॥

न तस्य फलसम्पत्तिर्वक्तुं शक्येत केनचित् ।
अनेनैवानुमेयं हि फलं प्रासादविस्तरात् ॥०३५॥

ग्राममध्ये च पूर्वे च प्रत्यग्द्वारं प्रकल्पयेत् ।
विदिशासु च सर्वासु ग्रामे प्रत्यङ्मुखो भवेत् ।०३६।
दक्षिणे चोत्तरे चैव पश्चिमे प्राङ्मुखो भवेत् ॥०३६॥

{इत्य् आदिमहापुराणे आग्नेये पातालयोगकथनं नाम एकचत्वारिंशो ऽध्यायः ॥ }