०४० अर्घ्यदानविधिः

{अथ चत्वारिंशो ऽध्यायः}

विश्वास-प्रस्तुतिः

अर्घ्यदानविधानं

भगवानुवाच
पूर्वमासित् महद्भूतं सर्वभूतभयङ्करं ।
तद्देवैर् निहितं भुमौ स वास्तुपुरुषः स्मृतः ॥००१॥

मूलम्

चतुःषष्टिपदे क्षेत्रे ईशं कोणार्धसंस्थितं ।
घृताक्षतैस्तर्पयेत्तं पर्जन्यं पदगतं ततः ॥००२॥

उत्पलादिभिर्जयन्तञ्च द्विपदस्थं पताकया ।
महेन्द्रञ्चैककोष्ठस्थं सर्वरक्तैः पदे रविं ॥००३॥

वितानेनार्धपदगं सत्यं पदे भृशं घृतैः ।
व्योम शाकुनमांसेन1 कोणार्धपदसंस्थितं ॥००४॥

स्रुचा चार्धपदे वह्निं पूषाणं लाजयैकतः ।
स्वर्णेन वितथं द्विष्ठं मथनेन गृहाक्षतं ॥००५॥

मांसौदनेन धर्मेशमेकैकस्मिन् स्थितं द्वयं ।
गन्धर्वं द्विपदं गन्धैर् भृशं शाकुनजिह्वया ॥००६॥

एकस्थमूर्ध्वसंस्थञ्च मृगं नीलपटैस् तथा ।
पितॄन् कृशरयार्धस्थं दन्तकाष्ठैः पदस्थितं ॥००७॥

:न्

[[११६]]

विश्वास-प्रस्तुतिः

दौवारिकं द्विसंस्थञ्च सुग्रीवं यावकेन तु ।
पुष्पदन्तं कुशस्तम्बैः पद्मैर् वरुणमेकतः ॥००८॥

असुरं सुरया द्विष्ठं पदे शेषं घृताम्भसा ।
यवैः पापं पदार्धस्थं रोगमर्धे च मण्डकैः ॥००९॥

नागपुष्पैः पदे नागं मुख्यं भक्ष्यैर् द्विसंस्थितं ।
मुद्गौदनेन भल्लाटं पदे सोमं पदे तथा ॥०१०॥

मधुना पायसेनाथ शालूकेन ऋषिं द्वये ।
पदे दितिं लोपिकाभिरर्धे दितिमथापरं ॥०११॥

पूरिकाभिस्ततश्चापमीशाधः पयसा पदे ।
ततोधश्चापवत्सन्तु दध्ना चैकपदे स्थितं ॥०१२॥

लड्डुकैश् च मरीचिन्तु पूर्वकोष्ठचतुष्टये2
सवित्रे रक्तपुष्पाणि ब्रह्माधःकोणकोष्ठके ॥०१३॥

तदधःकोष्ठके दद्यात् सावित्र्यै च कुशोदकं ।
विवस्ते ऽरुणं दद्याच्चन्दनञ्चतुरङ्घ्रिषु ॥०१४॥

रक्षोधःकोणकोष्ठे तु इन्द्रायान्नं निशान्वितं ।
इन्द्रजयाय तस्याधो घृतान्नं कोणकोष्ठके ॥०१५॥

चतुष्पदेषु दातव्यमिन्द्राय गुडपायसं ।
वाय्वधःकोणदेशे तु रुद्राय पक्वमांसकं ॥०१६॥

तदधःकोणकोष्ठे तु यक्षायार्द्रं फलन्तथा ।
महीधराय मांसान्नं माघञ्च चतुरङ्घ्रिषु ॥०१७॥

मध्ये चतुष्पदे स्थाप्या ब्रह्मणे तिलतण्डुलाः ।
चरकीं माषसर्पिभ्यां स्कन्दं कृशरयासृजा ॥०१८॥

रक्तपद्मैर् विदारीञ्च कन्दर्पञ्च पलोदनैः ।
पूतनां पलपित्ताभ्यां मांसासृग्भ्याञ्च जम्भकं ॥०१९॥

[[११७]]

विश्वास-प्रस्तुतिः

पित्तासृगस्थिभिः पापां पिलिपिञ्जं2 स्रजासृजा ।
ईशाद्यान् रक्तमांसेन अभावादक्षतैर् यजेत् ॥०२०॥

रक्षोमातृगणेभ्यश् च पिशाचादिभ्य एव च ।
पितृभ्यः क्षेत्रपालेभ्यो बलीन् दद्यात् प्रकामतः ॥०२१॥

आहुत्वैतानसन्तर्प्य प्रासादादीन्न कारयेत् ।
ब्रहमस्थाने हरिं लक्ष्मीं गणं पश्चात् समर्चयेत् ॥०२२॥

महीश्वरं वास्तुमयं1 वर्धन्या सहितं घटं ।
ब्रह्माणं मध्यतः कुम्भे ब्रह्मादींश् च दिगीश्वरान् ॥०२३॥

दद्यात् पूर्णाहुतिं पश्चात् स्वस्ति वाच्य प्रणम्य च ।
प्रगृह्य कर्करीं सम्यक् मण्डलन्तु प्रदक्षिणं ॥०२४॥

सूत्रमार्देण हे ब्रह्मंस्तोयधाराञ्च भ्रामयेत् ।
पूर्ववत्तेन मार्गेण सप्त वीजानि वापयेत् ॥०२५॥

प्रारम्भं तेन मार्गेण तस्य खातस्य कारयेत् ।
ततो गर्तं खनेन्मध्ये हस्तमात्रं प्रमाणतः ॥०२६॥

चतुरङ्गुलकं चाधश्चोपलिप्यार्चयेत्ततः ।
ध्यात्वा चतुर्भुजं विष्णुमर्घ्यं दद्यात्तु कुम्भतः ॥०२७॥

कर्कर्या पूरयेत् श्वभ्रं शुक्लपुष्पाणि च न्यसेत् ।
दक्षिणावर्तकं श्रेष्ठं बीजैर् मृद्द्भिश् च पूरयेत् ॥०२८॥

अर्घ्यादानं विनिष्पाद्य गोवस्त्रादीन्ददेद्गुरौ ।
कालज्ञाय स्थपतये वैष्णवादिभ्य अर्चयेत् ॥०२९॥

ततस्तु खानयेद्यत्नज्जलान्तं यावदेव तु ।
पुरुषाधःस्थितं शल्यं3 न गृहे दोषदं भवेत् ॥०३०॥

[[११८]]

विश्वास-प्रस्तुतिः

अस्थिशल्ये विद्यते वै भित्तिर्वै गृहिणो ऽसुखं ।
यन्नामशब्दं शृणुयात्तत्र शल्यं तदुद्भवं ॥०३१॥

{इत्य् आदिमहापुराणे आग्नेये अर्घ्यदानकथनं नाम चत्वारिंशो ऽध्यायः ॥ }

  1. व्योम शाकुलमांसेनेति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  2. नृहस्त इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  3. पुरुषाधिष्ठितं शल्यमिति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎