{अथोनचत्वारिंशो ऽध्यायः}
विश्वास-प्रस्तुतिः
भूपरिग्रहविधानं
हयग्रीव उवाच
विष्ण्वादीनां प्रतिष्ठादि वक्ष्ये ब्रह्मन् शृणुष्व मे ।
प्रोक्तानि पञ्चरातराणि सप्तरात्राणि वै मया ॥००१॥
मूलम्

व्यस्तानि मुनिभिर्लोके पञ्चविंशतिसङ्ख्यया ।
हयशीर्षं तन्त्रमाद्यं तन्त्रं त्रैलोक्यमोहनं ॥००२॥

वैभवं पौष्करं तन्त्रं प्रह्रादङ्गार्ग्यगालवं ।
नारदीयञ्च सम्प्रश्नं शाण्डिल्यं वैश्वकं1 तथा ॥००३॥

सत्योक्तं शौनकं तन्त्रं वासिष्ठं ज्ञानसागरं ।
स्वायम्भुवं कपिलञ्च तार्क्षं नारायणीयकं ॥००४॥

आत्रेयं नारसिंहाख्यमानन्दाख्यं तथारुणं ।
बौधायनं तथार्षं तु2 विश्वोक्तं तस्य सारतः ॥००५॥

प्रतिष्ठां हि द्विजः कुर्यान्मध्यदेशादिसम्भवः ।
नकच्छदेशसम्भूतः कावेरीकोङ्कणोद्गतः ॥००६॥

कामरूपकलिङ्गोप्त्यः काञ्चीकाश्मीरकोशलः3 ।
आकाशवायुतेजोम्बु भूरेताः पञ्च रात्रयः ॥००७॥

अचैतन्यास्तमोद्रिक्ताः पञ्चरात्रविवर्जितं ।
ब्रह्माहं विष्णुरमल इति विद्यात्स देशिकः ॥००८॥

:न्
[[११४]]
विश्वास-प्रस्तुतिः
नगराभिमुखाः स्थाप्या देवा न च पराङ्मुखाः ॥००९॥

कुरुक्षेत्रे गयादौ च नदीनान्तु1 समीपतः ।
ब्रह्मा मध्ये तु नगरे पूर्वे शक्रस्य शोभनं ॥०१०॥

अग्नावग्नेश् च मातॄणां भूतानाञ्च यमस्य च ।
दक्षिणे चण्डिकायाश् च पितृदैत्यादिकस्य च ॥०११॥

वैरृते मन्दिरं कुर्यात् वरुणाददेश् च वारुणे ।
वायोर् नागस्य वायव्ये सौम्ये यक्षगुहस्य च ॥०१२॥

चण्डीशस्य महेशस्य ऐशे विष्णोश् च सर्वशः ।
पूर्वदेवकुलं पीड्य प्रासादं स्वल्पकं त्वथ ॥०१३॥

समं वाप्यधिकं वापि न कर्तव्यं विजानता ।
उभयोर्द्विगुणां सीमां त्यक्त्वा चोच्छ्रयसम्मितां ॥०१४॥

प्रासादं कारयेदन्यं नोभयं पीडयेद्बुधः ।
भूमौ तु शोधितायां तु कुर्याद्भुमिपरिग्रहं ॥०१५॥

प्राकारसीमापर्यन्तं ततो भुतबलिं हरेत् ।
माषं हरिद्राचूर्णन्तु सलाजं दधिसक्तुभिः ॥०१६॥

अष्टाक्षरेण सक्तूंश् च पातायित्वाष्टदिक्षु च ।
राक्षसाश् च पिशाचाश् च येस्मिंस्तिष्ठन्ति भूतले ॥०१७॥

सर्वे ते व्यपगच्छन्तु स्थानं कुर्यामहं हरेः ।
हलेन वाहयित्वा गां गोभिश् चैवावदारयेत् ॥०१८॥

प्रमाण्वष्टकेनैव त्रसरेणुः प्रकीर्त्यते ॥१९॥

तैर् अष्टभिस्तु बालाग्रं लिख्या तैर् अष्टभिर्मता ।
ताभिर्यूकाष्टभिः ख्याता ताश्चाष्टौ यवमध्यमः ॥०२०॥

[[११५]]
विश्वास-प्रस्तुतिः
यवाष्टकैर् अङ्गुलं स्याच्चतुर्विंशाङ्गुलः करः ।
चतुरङ्गुलसंयुक्तः स हस्तः1 पद्महस्तकः ॥०२१॥

{इत्य् आदिमहापुराणे आग्नेये प्रतिष्ठायां भूपरिग्रहो नामोनचत्वारिंशोध्यायः ॥ }