{अथ अष्टत्रिंशो ऽध्यायः}
विश्वास-प्रस्तुतिः
देवालयनिर्माणफलं
अग्निर् उवाच
वासुदेवाद्यालयस्य कृतौ वक्ष्ये फलादिकं ।
चिकीर्षोर्देवधामादि सहस्रजनिपापनुत् ॥००१॥
मूलम्

मनसा सद्मकर्तॄणां शतजन्माघनाशनं ।
येनुमोदन्ति कृष्णस्य क्रियमाणं नरा गृहं1 ॥००२॥

तेपि पापैर् विनिर्मुक्ताः प्रयान्त्यच्युतलोकतां ।
समतीतं भविष्यञ्च कुलानामयुतं नरः ॥००३॥

विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहं ।
वसन्ति2 पितरो दृष्ट्वा3 विष्णुलोके ह्य् अलङ्कृताः ॥००४॥

विमुक्ता नारकैर् दुःखैः कर्तुः कृष्णस्य मन्दिरं ।
ब्रह्महत्यादिपापौघघातकं देवतालयं ॥००५॥

फलं यन्नाप्यते यज्ञैर् धाम कृत्वा तदाप्यते ।
देवागारे कृते सर्वतीर्थस्नानफलं लभेत् ॥००६॥

देवाद्यर्थे हतानाञ्च रणे यत्तत्फलादिकं ।
शाठ्येन पांशुना वापि कृतं धाम च नाकदं ॥००७॥

:न्
[[१०९]]
विश्वास-प्रस्तुतिः
एकायतनकृत् स्वर्गी त्र्यगारी ब्रह्मलोकभाक् ।
पञ्चागारी शम्भुलोकमष्टागाराद्धरौ स्थितिः ॥००८॥

षोडशालयकारी तु1 भुक्तिमुक्तिमवाप्नुयात् ।
कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहं ॥००९॥

स्वर्गं च वैष्णवं लोकं मोक्षमाप्नोति च क्रमात् ।
श्रेष्ठमायतनं विष्णोः कृत्वा यद्धनवान् लभेत् ॥०१०॥

कनिष्ठेनैव तत् पुण्यं प्राप्नोत्यधनवान्नरः ।
समुत्पाद्य धनं कृत्या स्वल्पेनापि2 सुरालयं ॥०११॥

कारयित्वा हरेः पुण्यं सम्प्राप्नोत्यधिकं वरं ।
लक्षणाथ सहस्रेण शतेनार्धेन वा हरेः ॥०१२॥

कारयन् भवनं याति यत्रास्ते गरुडध्वजः ।
बाल्ये तु क्रीडमाणा ये पांशुभिर्भवनं हरेः ॥०१३॥

वासुदेवस्य कुर्वन्ति तेपि तल्लोकगामिनः ।
तीर्थे चायतने पुण्ये सद्धक्षेत्रे तथाष्टमे ॥०१४॥

कर्तुरायतनं विष्णोर्यथोक्तात्त्रिगुणं फलं ।
बन्धूकपुष्पविन्यासैः सुधापङ्केन वैष्णवं ॥०१५॥

ये विलिम्पन्ति भवनं ते यान्ति भगवत्पुरं ।
पतितं पतमानन्तु तथार्धपतितं नरः ॥०१६॥

समुद्धृत्य हरेर्धाम प्राप्नोति द्विगुणं फलं ।
पतितस्य तु यः कर्ता पतितस्य च रक्षिता ॥०१७॥

विष्णोरायतनस्येह नरो विष्णुलोकभाक् ।
इष्टकानिचयस्तिष्ठेद् यावदायतने हरेः ॥०१८॥

[[११०]]
विश्वास-प्रस्तुतिः
स एव पुण्यवान् पूज्य इह लोके परत्र च ॥०१९॥

कृष्णस्य वासुदेवस्य यः कारयति केतनं ।
जातः स एव सुकृती कुलन्तेनैव पावितं ॥०२०॥

विष्णुरुद्रार्कदेव्यादेर्गृहकर्ता स कीर्तिभाक् ।
किं तस्य वित्तनिचयैर् मूढस्य परिरक्षितः ॥०२१॥

दुःखार्जितैर् यः कृष्णस्य न कारयति केतनं ।
नोपभोग्यं धनं यस्य पितृविप्रदिवौकसां ॥०२२॥

नोपभोगाय बन्धूनां व्यर्थस्तस्य धनागमः ।
यथा ध्रुवो नृणां मृत्युर्वित्तनाशस् तथा ध्रुवः ॥०२३॥

मूढस्तत्रानुबध्नाति जीवितेथ चले घने ।
यदा वित्तं न दानाय नोपभोगाय देहिनां ॥०२४॥

नापि कीर्त्यै न धर्माथं तस्य स्वाम्येथ को गुणः ।
तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषादथ ॥०२५॥

दद्यात् सम्यग् द्विजाग्र्येभ्यः कीर्तनानि च कारयेत् ।
दानेभ्यश्चाधिकं यस्मात् कीर्तनेभ्यो वरं यतः ॥०२६॥

अतस्तत्कारयेद्धीमान् विष्ण्वादेर्मन्दिरादिकं ।
विनिवेश्य हरेर्धाम भक्तिमद्भिर् नरोत्तमैः ॥०२७॥

निवेशितं भवेत् कृत्स्नं त्रैलोक्यं सचराचरं ।
भूतं भवयम् भविष्यञ्च स्थूलं सूक्ष्मं तथेतरत्1 ॥०२८॥

आब्राह्मस्तम्बपर्यन्तं सर्वं विष्णोः समुद्भवं ।
तस्य देवादिदेवस्य सर्वगस्य2 महात्मनः ॥०२९॥

निवेश्य भवनं विष्णोर् न भूयो भुवि जायते ।
यथा विष्णोर्धामकृतौ फलं तद्वद्दिवौकसां ॥०३०॥

[[१११]]
विश्वास-प्रस्तुतिः
शिवब्रह्मार्कविघ्नेशचण्डीलक्ष्म्यादिकात्मनां ।
देवालयकृतेः पुण्यं प्रतिमाकरणेधिकं3 ॥०३१॥

प्रतिमास्थापने यागे फलस्यान्तो न विद्यते ।
मृण्मयाद्दारुजे पुण्यं दारुजादिष्ट्काभवे ॥०३२॥

इष्टकोत्थाच्छैलजे स्याद्धेमादेरधिकं फलं ।
सप्तजन्मकृतं पापं प्रारम्भादेव नश्यति ॥०३३॥

देवालयस्य स्वर्गी स्यान्नरकं न स गच्छति ।
कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः ॥०३४॥

यमो यमभटानाह देवमन्दिरकारिणः ।
यम उवाच
प्रतिमापूजादिकृतो नानेया नरकं नराः ॥०३५॥

देवालयाद्यकर्तार आनेयास्ते तु गोचरे1 ।
विसारध्वं यथान्यायन्नियोगो मम पाल्यतां 2 ॥०३६॥
विश्वास-प्रस्तुतिः
नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् ।
केवलं ते जगत्तातमनन्तं समुपाश्रिताः ॥०३७॥

भवद्भिः परिहर्तव्यास्तेषां नात्रास्ति संस्थितिः ।
ये च भगवता लोके तच्चित्तास्तत्परायणाः ॥०३८॥

पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ।
यस्तिष्ठन् प्रस्वपन् गच्छन्नुत्तिष्ठन् स्खलिते स्थिते[^४] ॥०३९॥

सङ्कीर्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः ।
नित्यनैमित्तिकैर् देवं ये यजन्ति जनार्दनम् ॥०४०॥

[[११२]]
विश्वास-प्रस्तुतिः
ये पुष्पधूपवासोभिर्भूषणैश्चातिवल्लभैः ॥०४१॥

अर्चयन्ति न ते ग्राह्या नराः कृष्णालये गताः1 ।
उपलेपनकर्तारः सम्मार्जनपराश् च ये ॥०४२॥

कृष्णालये परित्यज्यास्तेषां पुत्रास् तथा कुलम् ।
येन चायतनं विष्णोः कारितं तत्कुलोद्भवम् ॥०४३॥

पुंसां शतं नावलोक्यं भवद्भिर्दुष्टचेतसा ।
यस्तु देवालयं विष्णोर्दारुशैलमयं तथा ॥०४४॥

कारयेन् मृण्मयं वापि सर्वपापैः प्रमुच्यते ।
अहन्यहनि यज्ञेन यजतो यन् महाफलम् ॥०४५॥

प्राप्नोति तत् फलं विष्णोर्यः कारयति केतनं ।
कुलानां शतमागामि समतीतं तथा शतं ॥०४६॥

कारयन् भगवद्धाम नयत्यच्युतलोकतां ।
सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहं ॥०४७॥

तारयत्यक्षयांल्लोकानक्षयान् प्रतिपद्यते ।
इष्टकाचयविन्यासो यावन्त्यब्दानि तिष्ठति ॥०४८॥

तावद्वर्षसहस्राणि तत्कर्तुर्दिवि संस्थितिः ।
प्रतिमाकृद्विष्णुलोकं स्थापको लीयते हरौ ।०४९।
देवसद्मप्रतिकृतिप्रतिष्ठाकृत्तु गोचरे ॥०४९॥

यमोक्ता नानयंस्तेथ प्रतिष्ठादिकृतं हरेः ।
हयशीर्षः प्रतिष्ठार्थं2 देवानां ब्रह्मणे ऽब्रवीत् ॥०५०॥

{इत्य् आदिमहापुराणे आग्नेये देवालयादिमाहात्म्यवर्णनं नाम अष्टत्रिंशोध्यायः ॥ }
:न्
[[११३]]