{अथ सप्तत्रिंशो ऽध्यायः}
विश्वास-प्रस्तुतिः
सर्वदेवपवित्रारोहणविधिः
अग्निर् उवाच
सङ्क्षेपात् सर्वदेवानां पवित्रारोहणं1 शृणु ।
पवित्र सर्वलक्ष्म स्यात् स्वरसानलगं त्वपि ॥००१॥
मूलम्
सर्वदेवपवित्रारोहणविधिः
अग्निर् उवाच
सङ्क्षेपात् सर्वदेवानां पवित्रारोहणं1 शृणु ।
पवित्र सर्वलक्ष्म स्यात् स्वरसानलगं त्वपि ॥००१॥
:न्
[[१०७]]
विश्वास-प्रस्तुतिः
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ॥००३॥
मूलम्
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ॥००३॥
विश्वास-प्रस्तुतिः
शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ।
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ॥००४॥
मूलम्
शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ।
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ॥००४॥
विश्वास-प्रस्तुतिः
इयं सांवत्सरी पूजा तवास्तु वेदवित्पते ।
सांवत्सरीमिमां पूजां सम्पाद्य विधिमन्मम ॥००५॥
मूलम्
इयं सांवत्सरी पूजा तवास्तु वेदवित्पते ।
सांवत्सरीमिमां पूजां सम्पाद्य विधिमन्मम ॥००५॥
विश्वास-प्रस्तुतिः
व्रज पवित्रकेदानीं स्वर्गलोकं विसर्जितः ।
सूर्यदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥००६॥
मूलम्
व्रज पवित्रकेदानीं स्वर्गलोकं विसर्जितः ।
सूर्यदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥००६॥
विश्वास-प्रस्तुतिः
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।
शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥००७॥
मूलम्
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।
शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥००७॥
विश्वास-प्रस्तुतिः
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।
वाणेश्वर1 नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥००८॥
मूलम्
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।
वाणेश्वर1 नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥००८॥
विश्वास-प्रस्तुतिः
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।
शक्तिदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥००९॥
मूलम्
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।
शक्तिदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥००९॥
विश्वास-प्रस्तुतिः
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।
नारायणमयं सूत्रमनिरुद्धमयं वरं2 ॥०१०॥
मूलम्
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।
नारायणमयं सूत्रमनिरुद्धमयं वरं2 ॥०१०॥
विश्वास-प्रस्तुतिः
धनधान्यायुरारोग्यप्रदं सम्प्रददामि ते ।
कामदेवमयं सूत्रं सङ्कर्षणमयं वरं ॥०११॥
मूलम्
धनधान्यायुरारोग्यप्रदं सम्प्रददामि ते ।
कामदेवमयं सूत्रं सङ्कर्षणमयं वरं ॥०११॥
विश्वास-प्रस्तुतिः
विद्यासन्ततिसौभाग्यप्रदं सम्प्रददामि ते ।
वासुदेवमयं सूत्रं धर्मकामार्थमोक्षदं ॥०१२॥
मूलम्
विद्यासन्ततिसौभाग्यप्रदं सम्प्रददामि ते ।
वासुदेवमयं सूत्रं धर्मकामार्थमोक्षदं ॥०१२॥
विश्वास-प्रस्तुतिः
संसारसागरोत्तारकारणं प्रददामि ते ।
विश्वरूपमयं सूत्रं सर्वदं पापनाशनं ॥०१३॥
मूलम्
संसारसागरोत्तारकारणं प्रददामि ते ।
विश्वरूपमयं सूत्रं सर्वदं पापनाशनं ॥०१३॥
:न्
[[१०८]]
विश्वास-प्रस्तुतिः
अतीतानागतकुलसमुद्धारं ददामि ते ।
कनिष्ठादीनि चत्वारि मनुभिस्तु क्रमाद्ददे ॥०१४॥
मूलम्
अतीतानागतकुलसमुद्धारं ददामि ते ।
कनिष्ठादीनि चत्वारि मनुभिस्तु क्रमाद्ददे ॥०१४॥
{इत्य् आदिमहापुराणे आग्नेये सङ्क्षेपपवित्रारोहणं नाम सप्तत्रिंशो ऽध्यायः ॥ }