{अथ षट्त्रिंशो ऽध्यायः}
विश्वास-प्रस्तुतिः
पवित्रारोपणविधानं
अग्निर् उवाच
प्रातः स्नानं कृत्वा द्वारपालान्1 प्रपूज्य च ।
प्रविश्य गुप्ते देशे च समाकृष्याथ धारयेत् ॥००१॥
मूलम्

पूर्वाधिवासितं द्रव्यं वस्त्राभरणगन्धकं ।
निरस्य सर्वनिर्माल्यं देवं संस्थाप्य पूजयेत् ॥००२॥

पञ्चामृतैः कषायैश् च शुद्धगन्धोदकैस्ततः ।
पूर्वाधिवासितं दद्याद्वस्त्रं गन्धं च पुष्पकं ॥००३॥

अग्नौ हुत्वा नित्यवच्च देवं सम्प्रार्थयेन्नमेत् 2 ।
समर्प्य कर्म देवाय पूजां नैमित्तिकीं चरेत् ॥००४॥

द्वारपालविष्णुकुम्भवर्धनीः प्रार्थयेद्धरिं ।
अतो देवेति मन्त्रेण मूलमन्त्रेण कुम्भके ॥००५॥

:न्
[[१०५]]
विश्वास-प्रस्तुतिः
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ॥००६॥
मूलम्
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ॥००६॥
विश्वास-प्रस्तुतिः
पवित्रकं कुरुध्वाद्य यन्मया दुष्कृतं कृतं ।
शुद्धो भवाम्यहं देव त्वत्प्रसादात् सुरेश्वर ॥००७॥

पवित्रञ्च हृदाद्यैस्तु आत्मानमभिषिच्य च ।
विष्णुकुम्भञ्च सम्प्रोक्ष्य व्रजेद्देवसमीपतः ॥००८॥

पवित्रमात्मने दद्याद्रक्षाबन्धं विसृज्य च1 ।
गृहाण ब्रह्मसूत्रञ्च यन्मया कल्पितं प्रभो ॥००९॥

कर्मणां पूरणार्थाय यथा दोषो न मे भवेत् ।
द्वारपालासनगुरुमुख्यानाञ्च पवित्रकम् ॥०१०॥

कनिष्टादि च देवाय वनमालाञ्च मूलतः ।
हृदादिविश्वक्सेनान्ते पवित्राणि समर्पयेत् ॥०११॥

वह्नौ हुत्वाग्निवर्तिभ्यो विष्ण्वादिभ्यः पवित्रकम् ।
प्रार्च्य पूर्णाहुतिं दद्यात् प्रायश्चित्ताय मूलतः ॥०१२॥

अष्टोत्तरशतं वापि पञ्चोपनिषदैस्ततः ।
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ॥०१३॥

इयं सांवत्सरी पूजा तवास्तु गरुडध्वज ।
वनमाला यथा देव कौस्तुभं सततं हृदि ॥०१४॥
मूलम्
इयं सांवत्सरी पूजा तवास्तु गरुडध्वज ।
वनमाला यथा देव कौस्तुभं सततं हृदि ॥०१४॥
विश्वास-प्रस्तुतिः
तद्वत् पवित्रतन्तूंश् च पूजां च हृदये वह2 ।
कामतो ऽकामतो वापि यत्कृतं नियमार्चने ॥०१५॥

विधिना विघ्नलोपेन परिपूर्णं तदस्तु मे ।
प्रार्थ्य नत्वा क्षमाप्याथ पवित्रं मस्तके ऽर्पयेत् ॥०१६॥

[[१०६]]
विश्वास-प्रस्तुतिः
विप्रान् भोजनवस्त्राद्यैर् दिवसं पक्षमेव वा ॥०१७॥

पवित्रं स्नानकाले च अवतार्य समर्पयेत् ।
अनिवारितमन्नाद्यं दद्याद्भुङ्क्तेथ च स्वयं ॥०१८॥

विसर्जने ऽह्नि सम्पूज्य पवित्राणि विसर्जयेत् ।
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम ॥०१९॥

व्रज पवित्रकेदानीं विष्णुलोकं विसर्जितः ।
मध्ये सोमेशयोः प्रार्च्य विष्वक्सेनं हि तस्य च ॥०२०॥

पवित्राणि समभ्यर्च्य ब्राह्मणाय समर्पयेत् ।
यावन्तस्तन्तवस्तस्मिन् पवित्रे परिकल्पिताः ॥०२१॥

तावद्युगसहस्राणि विष्णुलोके महीयते ।
कुलानां शतमुद्धृत्य दश पूर्वान् दशापरान् ।०२२।
विष्णुलोकं तु संस्थाप्य स्वयं मुक्तिमवाप्नुयात् ॥०२२॥

{इत्य् आदिमहापुराणे आग्नेये विष्णुपवित्रारोहणं नाम षट्त्रिंशो ऽध्यायः ॥ }