०३५

{अथ पञ्चत्रिंशो ऽध्यायः}

विश्वास-प्रस्तुतिः

पवित्राधिवासनादिविधिः

अग्निर् उवाच
सम्पाताहुतिनासिच्य1 पवित्राण्यधिवासयेत् ।
नृसिंहमन्त्रजप्तानि गुप्तान्यस्त्रेण तानि तु ॥००१॥

मूलम्

वस्त्रसंवेष्टितान्येव पात्रस्थान्यभिमन्त्रयेत् ।
विल्वाद्यद्भिः प्रोक्षितानि मन्त्रेण चैकधा द्विधा2 ॥००२॥

कुम्भपार्श्वे तु संस्थाप्य रक्षां विज्ञाप्य देशिकः ।
दन्तकाष्ठञ्चामरकं पूर्वे सङ्कर्षणेन तु ॥००३॥

प्रद्युम्नेन भस्मतिलान् दक्षे गोमयमृत्तिकां ।

:न्

[[१०३]]

विश्वास-प्रस्तुतिः

वारुणेन चानिरुद्धेन सौम्ये नारायणेन च ॥००४॥

दर्भोदकञ्चाथ हृदा अग्नौ कुङ्कुमरोचनं ।
ऐशान्यां शिरसा धूपं शिखया नैरृतेप्यथ ॥००५॥

मूलपुष्पाणि दिव्यानि कवचेनाथ वायवे ।
चन्दनाम्ब्वक्षतदधिदूर्वाश् च पुटिकास्थिताः ॥००६॥

गृहं त्रिसूत्रेणावेष्ट्य पुनः सिद्धार्थकान् क्षिपेत् ।
दद्यात्पूजाक्रमेणाथ स्वैः स्वैर् गन्धपवित्रकं ॥००७॥

मन्त्रैर् वै द्वारपादिभ्यो विष्णुकुम्भे त्वनेन च ।
विष्णुतेजोभवं रम्यं सर्वपातकनाशनं ॥००८॥

सर्वकामप्रदं देवं तवाङ्गे धारयाम्यहं ।
सम्पूज्य धूपदीपाद्यैर् व्रजेद्द्वारसमीपतः ॥००९॥

गन्धपुष्पाक्षतोपेतं पवित्रञ्चाखिलेर्पयेत् 3
पवित्रं वैष्णवं तेजो महापातकनाशनं ॥०१०॥

धर्मकामार्थसिद्ध्यर्थं स्वकेङ्गे धारयाम्यहं ।
आसने परिवारादौ गुरौ दद्यात् पवित्रकं ॥०११॥

गन्धादिभिः समभ्यर्च्य गन्धपुष्पाक्षतादिमत् ।
विष्णुतेजोभवेत्यादिमूलेन हरयेर्पयेत् ॥०१२॥

वह्निस्थाय ततो दत्वा देवं सम्प्रार्थयेत्ततः ।
क्षीरोदधिमहानागशय्यावस्थितविग्रहः ॥०१३॥

प्रातस्त्वां पूजयिष्यामि सन्निधौ भव केशव ।
इन्द्रादिभस्ततो दत्वा विष्णुपार्षदके बलिं ॥०१४॥

ततो देवाग्रतः कुम्भं वासोयुगसमन्वितं ।
रोचनाचन्द्रकाश्मीरगन्धाद्युदकसंयुतं ॥०१५॥

गन्धपुष्पादिनाभूष्य मूलमन्त्रेण पूजयेत् ।

:न्

[[१०४]]

विश्वास-प्रस्तुतिः

मण्डपाद्वहिरागत्य विलिप्ते मण्डलत्रये ॥०१६॥

पञ्चगव्यञ्चरुन्दन्तकाष्ठञ्चैव क्रमाद्भवेत् ।
पुराणश्रवणं स्तोत्रं पठन् जागरणं निशि ॥०१७॥

परप्रेषकबालानां स्त्रीणां भोगभुजां तथा ।
सद्योधिवासनं कुर्याद्विना गन्धपवित्रकं ॥०१८॥

{इत्य् आदिमहापुराणे आग्नेये पवित्राधिवासनं नाम पञ्चत्रिंशो ऽध्यायः ॥ }

  1. पञ्चवक्त्रंश्चेति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  2. मन्त्राणां चैकधा द्विधेति ख, चिहिनितपुस्तकपाठः ↩︎ ↩︎

  3. स्वस्तिमुद्रयेति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎