०३४

{अथ चतुस्त्रिंशो ऽध्यायः}

विश्वास-प्रस्तुतिः

होमादिविधिः

अग्निर् उवाच
विशेदनेन मन्त्रेण यागस्थानञ्च भूषयेत् ।
नमो ब्रह्मण्यदेवाय श्रीधरायाव्ययात्मने ॥००१॥

मूलम्

:न्

[[९९]]

विश्वास-प्रस्तुतिः

ऋग्यजुःसामरूपाय शब्ददेहाय ।
विलिख्य मण्डलं सायं यागद्रव्यादि चाहरेत् ॥००२॥

प्रक्षालितकराङ्घ्रिः सन् विन्यस्यार्घ्यकरो नरः ।
अर्घ्यादिभिस्तु शिरः प्रोक्ष्य द्वारदेशादिकं यथा ॥००३॥

आरभेद् द्वारयागञ्च तोरणेशान् प्रपूजयेत् ।
अश्वत्थोदुम्बरवटप्रक्षाः पूर्वादिगा नगाः ॥००४॥

ऋगिन्द्रशोभनं प्रास्यां युजुर्यमसुभद्रकम् ।
सामापश् च सुधन्वाख्यं सोमाथर्वसुहोत्रकम् ॥००५॥

तोरणान्तः पताकाश् च कुमुदाद्या घटद्वयम् ।
द्वारि द्वारि स्वनाम्नार्च्याः पूर्वे पूर्णश् च पुष्करः ॥००६॥

आनन्दनन्दनौ दक्षे वीरसेनः सुषेणकः ।
सम्भवप्रभवौ सौम्ये द्वारपांश् चैव पूजयेत् ॥००७॥

अस्त्रजप्तपुष्पक्षेपाद्विघ्नानुत्सार्य संविशेत् ।
भूतशुद्धिं विधायाथ विन्यस्य कृतमुद्रवः ॥००८॥

फट्कारान्तां शिखां जप्त्वा सर्षपान् दिक्षु निक्षिपेत् ।
वासुदेवेन गोमूत्रं सङ्कर्षणेन गोमयम् ॥००९॥

प्रद्युम्नेन पयस्तज्जात् दधि नारायणाद् घृतम् ।
एकद्वित्र्यादिवाराणि घृताद्वै भागतोधिकम् ॥०१०॥

घृतपात्रे तदेकत्र पञ्चगव्यमुदाहृतम् ।
मण्डपप्रोक्षणायैकञ्चापरम्प्राशनाय च ॥०११॥

आनीय दशकुम्भेषु इन्द्राद्यान् लोकपान् यजेत् ।
पूज्याज्ञां श्रावयेत्तांश् च स्थातव्यं चाज्ञया हरेः ॥०१२॥

यागद्रव्यादि संरक्ष्य विकिरान् विकिरेत्ततः ।
मूलाष्टशतसञ्जप्तान् कुशकूर्चान् हरेश् च तान् ॥०१३॥

ऐशान्यां दिशि तत्रस्थं स्थाप्यं कुम्भञ्च वर्धनीं ।

[[१००]]

विश्वास-प्रस्तुतिः

कुम्भे साङ्गं हरिं प्रार्च्य वर्धन्यामस्त्रमर्चयेत् ॥०१४॥

प्रदक्षिणं यागगृहं वर्धन्याच्छिन्नधारया ।
सिञ्चन्नयेत्ततः कुम्भं पूजयेच्च स्थिरासने ॥०१५॥

सपञ्चरत्नवस्त्राढ्यकुम्भे गन्धादिभिर्हरिम् ।
वर्धन्यां हेमगर्भायां यजेदस्त्रञ्च वामतः ॥०१६॥

तत्समीपे वास्तुलक्ष्मीं भूविनायकमर्चयेत् ।
स्रपनं कल्पयेद्विष्णोः सङ्क्रान्त्यादौ तथैव च ॥०१७॥

पूर्णकुम्भान् नव स्थाप्य नवकोणेषु निर्ब्रणान् ॥०१८॥

पूर्वादिकलसेग्न्यादौ पञ्चामृतजलादिकम् ।
दधि क्षीरं मधूष्णीदं पाद्यं स्याच्चतुरङ्गकम् ॥०१९॥

पद्मश्यामाकदूर्वाश् च विष्णुपत्नी च पाद्यकम् ।
तथाष्टाङ्गार्घ्यमाख्यातं यवगन्धफलाक्षतम् ॥०२०॥

कुशाः सिद्धार्थपुष्पानि तिला द्रव्याणि चार्हणम्1
लवङ्गकक्कोलयुते दद्यादाचमनीयकम् ॥०२१॥

स्नापयेन्मूलमन्त्रेण देवं पञ्चामृतैर् अपि ।
शुद्धोदं मध्यकुम्भेन देवमूर्ध्नि विनिःक्षिपेत् ॥०२२॥

कलशान्निःसृतं तोयं कूर्चाग्रं2 संस्पृशेन्नरः ।
शुद्धोदकेन पाद्यञ्च अर्घ्यमाचमनन्ददेत् ॥०२३॥

परिमृज्य पटेनाङ्गं सवस्त्रं मण्डलं नयेत् ।
तत्राभ्यर्च्याचरेद्धोमं कुण्डादौ प्राणसंयमी ॥०२४॥

प्रक्षाल्य हस्तौ रेखाश् च तिस्रः पूर्वाग्रगामिनीः ।

:न्

[[१०१]]

विश्वास-प्रस्तुतिः

दक्षिणादुत्तराश् च तिस्रश् चैवओत्तराग्रगाः ॥०२५॥

अर्घ्योदकेन सम्प्रोक्ष्य योनिमुद्राम्प्रदर्शयेत् ।
ध्यात्वाग्निरूपञ्चाग्निन्तु योन्यां कुण्डे क्षिपेन्नरः ॥०२६॥

पात्राण्यासादयेत् पश्चाद्दर्भश्रुक्श्रुवकादिभिः ।
बाहुमात्राः परिधय इध्मव्रश् चनमेव च ॥०२७॥

प्रणीता प्रोक्षणीपात्रमाज्यस्थाली घृतादिकम् ।
प्रस्थद्वयं तण्डुलानां युग्मं युग्ममधोमुखम् ॥०२८॥

प्रणीताप्रोक्षणीपात्रे न्यसेत् प्रागग्रगं कुशम् ।
अद्भिः पूर्यप्रणीतान्तु ध्यात्वा देवं प्रपूज्य च ॥०२९॥

प्रणीतां स्थापयेदग्रे द्रव्याणाञ्चैव मध्यतः ।
प्रोक्षणीमद्भिः सम्पूर्य प्रार्च्य दक्षे तु विन्यसेत् ॥०३०॥

चरुञ्च श्रपयेदग्नौ ब्रह्माणं दक्षिणे न्यसेत् ।
कुशानास्तीर्य पूर्वादौ परिधीन् स्थापयेत्ततः ॥०३१॥

वैष्णवीकरणं कुर्याद् गर्भाधानादिना नरः ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनञ्जनिः ॥०३२॥

नामादिसमावर्तनान्तं जुहुयादष्ट चाहुतीः ।
पूर्णाहुतीः प्रतिकर्म श्रुचा स्रुवसुयुक्तया ॥०३३॥

कुण्डमध्ये ऋतुमतीं लक्ष्मीं सञ्चिन्त्य होमयेत् ।
कुण्डलक्ष्मीः समाख्याता प्रकृतिस्त्रिगुणात्मका ॥०३४॥

सा योनिः सर्वभूतानां विद्यामन्त्रगणस्य च ।
विमुक्तेः कारणं वह्निः परमात्मा च मुक्तिदः ॥०३५॥

प्राच्यां शिरः समाख्यातं बाहू कोणे व्यवस्थितौ ।
ईशानाग्नेयकोणे तु जङ्घे वायव्यनैरृते ॥०३६॥

उदरं कुण्डमित्युक्तं योनिर्योनिर्विधीयते ।
गुणत्रयं मेखलाः स्युर्ध्यात्वैवं समिधो दश ॥०३७॥

[[१०२]]

विश्वास-प्रस्तुतिः

पञ्चाधिकांस्तु जुहुयात् प्रणवान्मुष्टिमुद्रया1
पुनराघारौ जुहुयाद्वाय्वग्न्यन्तं ततः श्रपेत् ॥०३८॥

ईशान्तं मूलमन्त्रेण आज्यभागौ तु होमयेत् ।
उत्तरे द्वादशान्तेन दक्षिणे तेन मध्यतः ॥०३९॥

व्याहृत्या पद्ममध्यस्थं ध्यायेद्वह्निन्तु संस्कृतम् ।
वैष्णवं सप्तजिह्वं च सूर्यकोटिसमप्रभम् ॥०४०॥

चन्द्रवक्त्रञ्च2 सूर्याक्षं जुहुयाच्छतमष्ट च ।
तदर्धञ्चाष्ट मूलेन अङ्गानाञ्च दशांशतः ॥०४१॥

{इत्य् आदिमहापुराणे आग्नेये अग्निकार्यकथनं नाम चतुर्त्रिंशो ऽध्यायः ॥ }

  1. ॐ क्रीमिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  2. दूर्वाग्रमिति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎