०३३ विष्णुपवित्रारोहणादिविधानम्

{अथ त्रयस्त्रिंशो ऽध्यायः}

विश्वास-प्रस्तुतिः

पवित्रारोहणविधानं

अग्निर् उवाच
पवित्रारोहणं वक्ष्ये वर्षपूजाकलं हरेः ।
आषाढादौ कार्तिकान्ते प्रतिपद्वनदा तिथिः1 ॥००१॥

मूलम्

श्रिया गौर्या गणेशस्य सरस्वत्या गुहस्य च ।
मार्तण्डमातृदुर्गाणां नागर्षिहरिमन्मथैः ॥००२॥

शिवस्य ब्रह्मणस्तद्वद्द्वितीयादितिथेः क्रमात् ।
यस्य देवस्य यो भक्तः पवित्रा तस्य सा तिथिः ॥००३॥

आरोहणे तुल्यविधिः पृथक् मन्त्रादिकं यदि ।

:न्

[[९३]]

विश्वास-प्रस्तुतिः

सौवर्णे राजतं ताम्रं नेत्रकार्पासिकादिकं ॥००४॥

ब्राह्मण्या कर्तितं सूत्रं तदलाभे तु संस्कृतं ।
त्रिगुणं त्रिगुणीकृत्य तेन कुर्यात् पवित्रकं ॥००५॥

अष्तोत्तरशतादूर्ध्वं तदर्धं चोत्तमादिकं ।
क्रियालोपाविघातार्थं यत्त्वयाभिहितं प्रभो ॥००६॥

मया तत् क्रियते देव यथा यत्र पावित्रकं ।
अविघ्नं तु भवेदत्र कुरु नाथ जयाव्यय ॥००७॥

प्रार्थ्य तन्मण्डलायादौ गायत्र्या बन्धयेन्नरः ।
ॐ नारायणाय विद्महे वासुदेवाय धीमहि ॥००८॥

तन्नो विष्णुः प्रचोदयात् देवदेवानुरूपतः ।
जानूरुनाभिनामान्तं प्रतिमासु पवित्रकं ॥००९॥

पादान्ता वनमाला स्यादष्टोत्त्रसहस्रतः1
माला तु कल्पसाध्यं वा द्विगुणं षोडशाङ्गुलात् ॥०१०॥

कर्णिका केशरं पत्रं मन्त्राद्यं2 मण्डलान्तकं ।
मण्डलाङ्गुलमात्रैकचक्राब्जाद्यौ3 पवित्रकं ॥०११॥

स्थण्डिले ऽङ्गुलमानेन आत्मनः सप्तविंशतिः ।
आचार्याणां च सूत्राणि पितृमात्रादिपुस्तके ॥०१२॥

नाभ्यन्तं द्वादशग्रन्थिं तथा गन्धपवित्रके ।
द्व्यङ्गुलात् कल्पनादौ द्विर्माला चाष्टोत्तरं शतं ॥०१३॥

अथवार्कचतुर्विंशषड्त्रिंशन्मालिका द्विजः ।
अनामामध्यमाङ्गुष्ठैर् मन्दाद्यैः मालिकार्थिभिः 4 ॥०१४॥

[[९४]]

विश्वास-प्रस्तुतिः

कनिष्टादौ द्वादश वा ग्रन्थयः स्युः पवित्रके ।
रवेः कुम्भहुताशादेः सम्भवे विष्णुवन्मतम् ॥०१५॥

पीठस्य पीठमानं स्यान्मेखलान्ते च कुण्डकं ।
यथाशक्ति सूत्रग्रन्थिपरिचारेथ वैष्णवे ॥०१६॥

सूत्राणि वा सप्तदश सूत्रेण त्रिविभक्तके1
रोचनागुरुकर्पूरहरिद्राकुङ्कुमादिभिः ॥०१७॥

रञ्जयेच्चन्दनाद्यैर् वा स्नानसन्ध्यादिकृन्नरः ।
एकादश्यां यागगृहे भगवन्तं हरिं जयेत् ॥०१८॥

समस्तपरिवाराय बलिं पीठे समर्चयेत् ।
क्ष्यौं क्षेत्रपालाय द्वारान्ते द्वारोपरि तथा श्रियं ॥०१९॥

धात्रे दक्षे विधात्रे च गङ्गाञ्च यमुनां तथा ।
शङ्खपद्मनिधी पूज्य मध्ये वास्त्वपसारणं ॥०२०॥

सारङ्गायेति भूतानां भूतशुद्धिं स्थितश् चरेत् ॥०२०॥

ॐ ह्रूं हः फट् ह्रूं[^२] गन्धतन्मात्रं संहरामि नमः ॥

ॐ ह्रूं हः फट् ह्रूं3 रसतन्मात्रं संहरामि
नमः
ॐ ह्रूं हः फट् ह्रूं4 रूपतन्मात्रं संहरामि
नमः ॥

ॐ ह्रूं हः फट् ह्रूं5 स्पर्शतन्मात्रं संहरामि
नमः

:न्

[[९५]]

विश्वास-प्रस्तुतिः

ॐ ह्रूं हः फट् ह्रूं1 शब्दतन्मात्रं संहरामि
नमः ॥
पञ्चोद्घातैर् गन्धतन्मात्ररूपं भूमिमण्डलं ।
चतुरस्रञ्च पीतञ्च कठिनं वज्रलाञ्छितम् ॥०२१॥

इन्द्राधिदैवतं पादयुग्ममध्यगतं स्मरेत् ।
शुद्धञ्च रसतन्मात्रं प्रविलिप्याथ संहरेत् ॥०२२॥

रसमात्ररूपमात्रे क्रमेणानेन पूजकः ॥०२२॥

मूलम्

रसमात्ररूपमात्रे क्रमेणानेन पूजकः ॥०२२॥

ॐ ह्रीं हः फट् ह्रूं2 रसतन्मात्रं संहरामि
नमः

ॐ ह्रूं हः फट्3 रूपतन्मात्रं संहरामि नमः

ॐ ह्रीं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि
नमः

विश्वास-प्रस्तुतिः

ॐ ह्रीं हः फट् ह्रूं4 शब्दतन्मात्रं संहरामि
नमः
जानुनाभिमध्यगतं5 श्वेतं वै पद्मलाञ्छितं ।
शुक्लवर्णं चार्धचन्द्रं ध्यायेद्वरुणदैवतं ॥०२३॥

चतुर्भिश् च तदुद्घातैः शुद्धं तद्रसमात्रकं ।
संहरेद्रूपतन्मात्रै रूपमात्रे च संहरेत् ॥०२४॥

ॐ ह्रूं हः फट् ह्रूं रूपतन्मात्रं संहरामि
नमः

ॐ ह्रूं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि
नमः

विश्वास-प्रस्तुतिः

ॐ ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि
नमः
इति त्रिभिस्तदुद्घातैस्त्रिकोणं वह्निमण्डलम् ।
नाभिकण्ठमध्यगतं रक्तं स्वस्तिकलाञ्छितं ॥०२५॥

ध्यात्वानलाधिदैवन्तच्छुद्धं स्पर्शे लयं नयत् ।

:न्

[[९६]]

ॐ ह्रौं हः फट् ह्रूं1 स्पर्शतन्मात्रं संहरामि

विश्वास-प्रस्तुतिः

नमः
ॐ ह्रौं हः फट् ह्रूं2 शब्दतन्मात्रं संहरामि
नमः ॥
कण्ठनासामध्यगतं वृत्तं वै वायुमण्डलम् ॥०२६॥

द्विरुद्घातैर् धूम्रवर्णं ध्यायेच्छुद्धेन्दुलाञ्छितम् ।
स्पर्शमात्रं शब्दमात्रैः संहरेद्ध्यानयोगतः ॥०२७॥

ॐ ह्रौं हः फट् ह्रूं शब्दतन्मात्रं संहरामि
नमः
एकोद्घातेन चाकाशं शुद्धस्फटिकसन्निभम् ।
नासापुटशिखान्तस्थमाकाशमुपसंहरेत् ॥०२८॥

शोषणाद्यैर् देहशुद्धिं कुर्यादेवम् क्रमात्ततः ।
शुष्कं कलेवरं ध्यायेत् पादाद्यञ्च शिखान्तकम् ॥०२९॥

यं वीजेन वं वीजेन ज्वालामालासमायुतम्3
देहं रमित्यनेनैव ब्रह्मरन्ध्राद्विनिर्गतम् ॥०३०॥

विन्दुन्ध्यात्वा चामृतस्य तेन भस्मकलेवरम् ।
सम्प्लावयेल्लमित्यस्मात् देहं सम्पाद्य दिव्यकम् ॥०३१॥

न्यासं कृत्वा करे देहे मानसं यागमाचरेत् ।
विष्णुं साङ्गं हृदि पद्मे मानसैः कुसुमादिभिः ॥०३२॥

मूलमन्त्रेण देवेशम्प्रार्चयेद्भुक्तिमुक्तिदम् ।
स्वागतं देवदेवेश सन्निधौ भव केशव ॥०३३॥

गृहाण मानसीं पूजां यथार्थं4 परिभाविताम् ।
आधारशक्तिः कूर्माथ पूज्योनन्तो मही ततः ॥०३४॥

मध्येग्न्यादौ च धर्माद्या अधर्मादीन्द्रमुख्यगम्[^४] ।

:न्

[[९७]]

विश्वास-प्रस्तुतिः

सत्त्वादि मध्ये पद्मञ्च मायाविद्याख्यतत्त्वके ॥०३५॥

कालतत्त्वञ्च सूर्यादिमण्डलं पक्षिराजकः ।
मध्ये ततश् च वायव्यादीशान्ता गुरुपङ्क्तिकाः ॥०३६॥

गणः सरस्वती पूज्या1 नारदो नलकूवरः ।
गुरुर्गुरुपादुका च परो गुरुश् च पादुका ॥०३७॥

पूर्वसिद्धाः परसिद्धाः केशरेषु च शक्तयः ।
लक्ष्मीः सरस्वती प्रीतिः कीर्तिः शान्तिश् च कान्तिका ॥०३८॥

पुष्टिस्तुष्टिर्महेन्द्राद्या मध्ये वाचाहितो हरिः ।
धृतिः श्रीरतिकान्त्याद्या मूलेन स्थापितो ऽच्युतः ॥०३९॥

ॐ अभिमुखो भवेति प्रार्थ्य सन्निहितो भव ।
विन्यस्यार्घ्यादिकं दत्वा गन्धाद्यैर् मूलतो यजेत् ॥०४०॥

ॐ भीषय भीषय हृत् शिरस्त्रासय वै पुनः ।
मर्दय मर्दय शिखा अग्न्यादौ शस्त्रतोस्त्रकं ॥०४१॥

रक्ष रक्ष प्रध्वंसय प्रध्वंसय कवचाय2 नमस्ततः ।
ॐ ह्रूं3 फट् अस्त्राय नमो मूलवीजेन चाङ्गकं ॥०४२॥

पूर्वदक्षाप्यसौम्येषु मूर्त्यावरणमर्चयेत् ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥०४३॥

अग्न्यादौ श्रीधृतिरतिकान्तयो मूर्तयो हरेः ।
शङ्खचक्रगदापद्ममग्न्यादौ पूर्वकादिकं ॥०४४॥

शार्ङ्गञ्च मुषलं खड्गं वनमालाञ्च तद्वहिः ।
इन्द्राद्याश् च तयानन्तो नैरृत्यां वरुणस्ततः ॥०४५॥

ब्रह्मेन्द्रेशानयोर्मध्ये अस्त्रावरणकं वहिः ।
ऐरावतस्ततश्छागो महिषो वानरो झषः ॥०४६॥

[[९८]]

विश्वास-प्रस्तुतिः

मृगः शशो ऽथ वृषभः कूर्मो हंसस्ततो वहिः ।
पृश्निगर्भः कुमुदाद्या द्वारपाला द्वयं द्वयं ॥०४७॥

पूर्वाद्युत्तरद्वारान्तं हरिं नत्वा बलिं वहिः ।
विष्णुपार्षदेभ्यो नमो बलिपीठे बलिं ददेत् ॥०४८॥

विश्वाय विश्वक्सेनात्मने ईशानके यजेत् ।
देवस्य दक्षिणे हस्ते रक्षासूत्रञ्च बन्धयेत् ॥०४९॥

संवत्सरकृताचार्याः सम्पूर्णफलदायिने ।
पवित्रारोहणायेदं कौतुकं धारय ॐ नमः ॥०५०॥

उपवासादिनियमं कुर्याद्वै देवसन्निधौ ।
उपवासादिनियतो देवं सन्तोषयाम्यहम् ॥०५१॥

मूलम्

उपवासादिनियमं कुर्याद्वै देवसन्निधौ ।
उपवासादिनियतो देवं सन्तोषयाम्यहम् ॥०५१॥

विश्वास-प्रस्तुतिः

कामक्रोधादयः सर्वे मा मे तिष्ठन्तु सर्वथा ।
अद्यप्रभृति देवेश यावद्वैशेषिकं दिनम् ॥०५२॥

यजमानो ह्य् अशक्तश्चेत् कुर्यान्नक्तादिकं व्रती ।
हुत्वा विसर्जयेत् स्तुत्वा श्रीकरन्नित्यपूजनम् ॥०५३॥

ॐ ह्रीं1 श्रीं श्रीधराय त्रैलोक्यमोहनाय नमः ॥०५३॥

{इत्य् आदिमहापुराणे आग्नेये पवित्रारोहणे श्रीधरनित्यपूजाकथनं नाम त्रयस्त्रिंशोध्यायः }

  1. वर्धते तिथिरिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. गदाद्यमिति घ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. चक्राङ्गदौ पवित्रके इति घ, चिह्नितपुतकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. मन्दादौ इति ख, ग, चिह्नितपुस्तकद्वयपाठः मन्द्राद्यैर् इति घ,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. पद्मासनमध्यगतमिति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎