{अथ द्वातिंशो ऽध्यायः}
विश्वास-प्रस्तुतिः
संस्कारकथनं
अग्निर् उवाच
निर्वाणादिषु दीक्षासु चत्त्वारिंशत्तथाष्ट च ।
संस्कारान् कारयेद्धीमान् शृणुतान्यैः सुरो भवेत् ॥००१॥
मूलम्

गर्भाधानन्तु योन्यां वै ततः पुंसवनञ्चरेत् ।
सीमन्तोन्नयनञ्चैव जातकर्म च नाम च ॥००२॥

अन्नाशनं ततश्चूडा ब्रह्मचर्यव्रतानि च ।
चत्वारि वैष्णवी पार्थी भौतिकी श्रोत्रिकी तथा ॥००३॥

गोदानं सूतकत्वञ्च पाकयज्ञाश् च सप्त ते1 ।
अष्टका पार्वणश्राद्धं श्रावण्यग्रायणीति च ॥००४॥

चैत्री चाश्वयुजी सप्त हविर्यज्ञांश् च तान् शृणु ।
आधानञ्चाग्निहोत्रञ्च दर्शो वै पौर्णमासकः ॥००५॥

चातुर्मास्यं पशुबन्धः सौत्रामणिरथापरः ।
सोमसंस्थाः सप्त शृणु अग्निष्टोमः क्रतूत्तमः ॥००६॥

अत्यग्निष्टोम उक्थश् च षोडशो वाजपेयकः ।
अतिरात्राप्तोर्यामश् च सहस्रेशाः सवा इमे ॥००७॥

:न्
[[९२]]
विश्वास-प्रस्तुतिः
हिरण्यपाणिर्हेमाक्षो हेमाङ्गो हेमसूत्रकः ॥००८॥

हिरण्यास्यो हिरण्याङ्गो हेमजिह्वो हिरण्यवान् ।
अश्वमेधो हि सर्वेशो गुणाश्चाष्टाथ तान् शृणु ॥००९॥

दया च सर्वभूतेषु क्षान्तिश् चैव तथार्जवम् ।
शौचं चैवमनायासो मङ्गलं चापरो गुणः ॥०१०॥

अकार्पण्यञ्चास्पृहा च मूलेन जुहुयाच्छतम् ।
सौरशाक्तेयविष्ण्वीशदीक्षास्त्वेते समाः स्मृताः ॥०११॥

संस्कारैः संस्कृतश् चैतैर् भुक्तिमुक्तिमवाप्नुयात् ।
सर्वरोगाद्विनिर्मुक्तो देववद्वर्तते नरः ।०१२।
जप्याद्धोमात्पूजनाच्च ध्यानाद्देवस्य चेष्टभाक् ॥०१२॥

{इत्य् आदिमहापुराणे आग्नेये अष्टचत्वारिंशत्संस्कारकथनं नाम द्वात्रिंशो ऽध्यायः }