{अथ एकत्रिंशो ऽध्यायः}
विश्वास-प्रस्तुतिः
मार्जनविधानं
अग्निर् उवाच
रक्षां स्वस्य परेषाञ्च वक्ष्ये तां मार्जनाह्वयां ।
यया विमुच्यते दुःखैः सुखञ्च प्राप्नुयान्नरः1 ॥००१॥
मूलम्

ॐ नमः परमार्थाय पुरुषाय महात्मने ।
अरूपबहुरूपाय व्यापिने परमात्मने ॥००२॥
मूलम्
ॐ नमः परमार्थाय पुरुषाय महात्मने ।
अरूपबहुरूपाय व्यापिने परमात्मने ॥००२॥
विश्वास-प्रस्तुतिः
निष्कल्मषाय शुद्धाय ध्यानयोगरताय च ।
नमस्कृत्य प्रवक्ष्यामि यत् तत्सिध्यतु मे वचः ॥००३॥

वराहाय नृसिंहाय वामनाय महामुने ।
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥००४॥

:न्
[[८७]]
विश्वास-प्रस्तुतिः
त्रिविक्रमाय रामाय वैकुण्ठाय नराय च ।
नमस्कृत्य प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ॥००५॥

वराह नरसिंहेश वामनेश त्रिविक्रम ।
हरग्रीवेश सर्वेश हृषीकेश हराशुभम् ॥००६॥
मूलम्
वराह नरसिंहेश वामनेश त्रिविक्रम ।
हरग्रीवेश सर्वेश हृषीकेश हराशुभम् ॥००६॥
विश्वास-प्रस्तुतिः
अपराजितचक्राद्यैश् चतुर्भिः परमायुधैः ।
अखण्डितानुभावैस्त्वं2 सर्वदुष्टहरो भव ॥००७॥

हरामुकस्य दुरितं सर्वञ्च कुशलं कुरु ।
मृत्युबन्धार्तभयदं दुरितस्य च यत् फलम् ॥००८॥

पराभिध्यानसहितैः प्रयुक्तञ्चाभिचारकम् ।
गदस्पर्शमहारोगप्रयोगं जरया जर ॥००९॥
मूलम्
पराभिध्यानसहितैः प्रयुक्तञ्चाभिचारकम् ।
गदस्पर्शमहारोगप्रयोगं जरया जर ॥००९॥
विश्वास-प्रस्तुतिः
ॐ नमो वासुदेवाय नमः कृष्णाय खड्गिने ।
नमः पुष्करनेत्राय केशवायादिचक्रिणे ॥०१०॥

नमः कमलकिञ्जल्कपीतनिर्मलवाससे ।
महाहररिपुस्कन्धसृष्टचक्राय चक्रिणे ॥०११॥

द्ंष्ट्रोद्धृतक्षितिभृते1 त्रयीमूर्तिमते नमः ।
महायज्ञवराहाय शेषभोगाङ्कशायिने ॥०१२॥

तप्तहाटककेशाग्रज्वलत्पावकलोचन ।
वज्राधिकनखस्पर्शं दिव्यसिम्ह नमोस्तु ते ॥०१३॥

काश्यपायातिह्रस्वाय ऋग्यजुःसामभूषित ।
तुभ्यं वामनरूपायाक्रमते गां3 नमो नमः ॥०१४॥

वराहाशेषदुष्टानि सर्वपापफलानि वै ।
मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम् ॥०१५॥

[[८८]]
विश्वास-प्रस्तुतिः
नरसिम्ह करालाख्य दन्तप्रान्तानलोज्ज्वल ।
भञ्ज भञ्ज निनादेन दुष्टान्यस्यार्तिनाशन ॥०१६॥

ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक् ।
प्रशमं सर्वदुःखानि नयत्त्वस्य जनार्दनः ॥०१७॥

ऐकाहिकं द्व्याहिकञ्च तथा त्रिदिवसं ज्वरम् ।
चातुर्थकन्तथात्युग्रन्तथैव सततज्वरम् ॥०१८॥

दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम् ।
शमं नयाशु गोविन्द च्छिन्धि च्छिन्ध्यस्य वेदनाम्2 ॥०१९॥

नेत्रदुःखं शिरोदुःखं दुःखञ्चोदरसम्भवम् ।
अन्तःश्वासमतिश्वासं1 परितापं सवेपथुम् ॥०२०॥

गुदघ्राणाङ्घ्रिरोगांश् च कुष्ठरोगांस् तथा क्षयं3 ।
कामलादींस् तथा रोगान् प्रमेहांश्चातिदारुणान् ॥०२१॥

भगन्दरातिसारांश् च मुखरोगांश् च वल्गुलीम् ।
अश्मरीं मूत्रकृच्छ्रांश् च रोगानन्यांश् च दारुणान् ॥०२२॥

ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ।
कफोद्भवाश् च ये केचित् ये चान्ये सान्निपातिकाः ॥०२३॥

आगन्तुकाश् च ये रोगा लूता विस्फोटकादयः ।
ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः4 ॥०२४॥

विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च ।
क्षयं गछ्हन्तु चाशेषास्ते चक्राभिहता हरेः ॥०२५॥

[[८९]]
विश्वास-प्रस्तुतिः
अच्युतानन्तगोविन्दनामोच्चारणभीषिताः ।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥०२६॥

स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् ।
दन्तोद्भवं नखभवमाकाशप्रभवं विषम् ॥०२७॥

लूतादिप्रभवं यच्च विषमन्यत्तु दुःखदं ।
शमं नयतु तत् सर्वं कीर्तितोस्य जनार्दनः ॥०२८॥

ग्रहान् प्रेतग्रहांश्चापि तथा वै डाकिनीग्रहान्2 ।
वेतालांश् च पिशाचांश् च गन्धर्वान् यक्षराक्षसान्1 ॥०२९॥

शकुनीपूतनाद्यांश् च तथा वैनायकान् ग्रहान् ।
मुखमण्डीं तथा क्रूरां रेवतीं वृद्धरेवतीम् ॥०३०॥

वृद्धकाख्यान् ग्रहांश्चोग्रांस् तथा मातृग्रहानपि ।
बालस्य विष्णोश् चरितं हन्तु बालग्रहानिमान् ॥०३१॥

वृद्धाश् च ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित् ।
नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने ॥०३२॥

सदा3 करालवदनो नरसिंहो महाबलः ।
ग्रहानशेषान्निःशेषान् करोतु जगतो हितः ॥०३३॥

नरसिम्ह महासिम्ह ज्वालामालोज्ज्वलानन ।
ग्रहानशेषान् सर्वेश खाद खादाग्निलोचन ॥०३४॥

ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ।
यानि च क्रूरभृतानि ग्रहपीडाश् च दारुणाः ॥०३५॥

शस्त्रक्षतेषु ये दोषा ज्वालागर्दभकादयः ।
तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः ॥०३६॥

[[९०]]
विश्वास-प्रस्तुतिः
किञ्चिद्रूपं समास्याय वासुदेवास्य नाशय ॥३७॥

क्षिप्त्वा सुदर्शनञ् चक्रं ज्वालामालातिभीषणम् ।
सर्वदुष्टोपशमनं कुरु देववराच्युत ॥०३८॥

सुदर्शन महाज्वाल च्छिन्धि च्छिन्धि महारव2 ।
सर्वदुष्टानि रक्षांसि क्षयं यान्तु विभीषण ॥०३९॥

प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस् तथा ।
रक्षाङ्करोतु सर्वात्मा नरसिंहः सुगर्जितः1 ॥०४०॥

दिवि भुव्यन्तरीक्षे च पृष्ठतः पार्श्वतोग्रतः ।
रक्षाङ्करोतु भगवान् बहुरूपी जनार्दनः ॥०४१॥

यथा विष्णुर्जगत्सर्वं सदेवासुरमानुषं ।
तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै3 ॥०४२॥

यथा विष्णौ स्मृते सद्यः सङ्क्षयं यान्ति पातकाः ।
सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ॥०४३॥

परमात्मा यथा विष्णुर्वेदान्तेषु च गीयते ।
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥०४४॥

यथा यज्ञेश्वरो विष्णुर्देवेष्वपि हि गीयते ।
सत्येन तेन सकलं यन्मयोक्तं तथास्तु तत् ॥०४५॥

शान्तिरस्तु शिवञ्चास्तु दुष्टमस्य प्रशाम्यतु ।
वासुदेवशरीरोत्थैः कुशैर् निर्मथितं मया5 ॥०४६॥

अपमार्जतु गोविन्दो नरो नारायणस् तथा ।
तथास्तु सर्वदुःखानां प्रशमो जपनाद्धरेः ॥०४७॥

[[९१]]
विश्वास-प्रस्तुतिः
अपमार्जनकं शस्त्रं सर्वरोगादिवारणम् ।
अयं हरिः कुशो विष्णुर्हता रोगा मया तव ॥०४८॥

{इत्य् आदिमहापुराणे आग्नेये कुशापमार्जनं नाम एकत्रिंशो ऽध्यायः }