{अथ त्रिंशो ऽध्यायः}
विश्वास-प्रस्तुतिः
मण्डलविधिः
नारद उवाच
मध्ये पद्मे यजेद्ब्रह्म साङ्गं पूर्वेब्जनाभकं ।
आग्नेयेब्जे च प्रकृतिं याम्येब्जे पुरुषं यजेत् ॥००१॥
मूलम्

पुरुषाद्दक्षिणे च वह्निं नैरृते वारुणेनिलं ।
आदित्यमैन्दवे पद्मे ऋग्यजुश् चैशपद्मके ॥००२॥

इन्द्रादींश् च द्वितीयायां पद्मे षोडशके तथा ।
सामाथर्वाणमाकाशं वायुं तेजस् तथा जलं ॥००३॥

पृठिवीञ्च मनश् चैव श्रोत्रं त्वक् चक्षुरर्चयेत् ।
रसनाञ्च तथा घ्राणं भूर्भुवश् चैव षोडशं ॥००४॥

महर्जनस्तपः सत्यं तथाग्निष्टोममेव च ।
अत्यग्निष्टोमकं1 चोक्थं षोडशीं वाजपेयकं ॥००५॥

अतिरात्रञ्च सम्पूज्य तथाप्तोर्याममर्चयेत् ।
मनो बुद्धिमहङ्कारं शब्दं स्पर्शञ्च रूपकं ॥००६॥

:न्
[[८४]]
विश्वास-प्रस्तुतिः
जीवं मनोधिपञ्चाहं प्रकृतिं शब्दमात्रकं ॥००७॥

वासुदेवादिमूर्तीञ्च तथा चैव दशत्मकं ।
मनः श्रोत्रं त्वचं प्रार्च्य चक्षुश् च रसनं तथा ॥००८॥

घ्राणं वाक्पाणिपादञ्च द्वात्रिंशद्वारिजेष्विमान् ।
चतुर्थावरणे पूज्याः साङ्गाः सपरिवारकाः ॥००९॥

पायूपस्थौ च सम्पूज्य मासानां द्वादशाधिपान् ।
पुरुषोत्तमादिषड्विंशान् वाह्यावरणके यजेत् ॥०१०॥

चक्राब्जे तेषु सम्पूज्या मासानां पतयः क्रमात् ।
अष्टौ प्रकृतयः षड्वा पञ्चाथ चतुरो ऽपरे ॥०११॥

रजः पातं ततः कुर्याल्लिखिते मण्डले शृणु ।
कर्णिका पीतवर्णा स्याद्रेखाः सर्वाः सिताः समाः ॥०१२॥

द्विहस्ते ऽङ्गुष्टमात्राः स्युर्हस्ते चार्धसमाः सिताः ।
पद्मं शुक्लेन सन्धींस्तु कृष्णेन श्यामतोथवा ॥०१३॥

केशरा रक्तपीताः स्युः कोणान् रक्तेन पूरयेत् ।
भूषयेद्योगपीठन्तु यथेष्टं सार्ववर्णिकैः ॥०१४॥

लतावितानपत्राद्यैर् वीथिकामुपशोभयेत् ।
पीठद्वारे तु शुक्लेन शोभारक्तेन पीततः ॥०१५॥

उपशोभाञ्च नीलेन कोणशङ्ख्यांश् च वै सितान् ।
भद्रके पूरणं प्रोक्तमेवमन्येषु पूरणं ॥०१६॥

त्रिकोणं सितरक्तेन कृष्णेन च विभूषयेत् ।
द्विकोणं रक्तपीताभ्यां नाभिं कृष्णेन चक्रके ॥०१७॥

अरकान् पीतरक्ताभिः श्यामान् नेमिन्तु रक्ततः ।
सितश्यामारुणाः कृष्णाः पीता रेखास्तु वाह्यतः ॥०१८॥

शालिपिष्टादि शुक्लं स्याद्रक्तं कौसुम्भकादिकम् ।
हरिद्रया च हारिद्रं कृष्णं स्याद्दग्धधान्यतः ॥०१९॥

[[८५]]
विश्वास-प्रस्तुतिः
शमीपत्रादिकैः श्यामं वीजानां लक्षजाप्यतः ।
चतुर्लक्षैस्तु मन्त्राणां विद्यानां लक्षसाधनम् ॥०२०॥

अयुतं बुद्धिविद्यानां स्तोत्राणाञ्च सहस्रकम् ।
पूर्वमेवाथ लक्षेण मन्त्रशुद्धिस् तथात्मनः ॥०२१॥

तथापरेण लक्षेण मन्त्रः क्षेत्रीकृतो भवेत् ।
पूर्वमेवासमो होमो वीजानां सम्प्रकीर्तितः ॥०२२॥

पूर्वसेवा दशांशेन मन्त्रादीनां प्रकीर्तिता ।
परश् चर्ये तु मन्त्रे तु मासिकं व्रतमाचरेत् ॥०२३॥

भुवि न्यसेद्वामपादं न गृह्णीयात् प्रतिग्रहम् ।
एवं द्वित्रिगुणेनैव मध्यमोत्तमसिद्धयः ॥०२४॥

मन्त्रध्यानं प्रवक्ष्यामि येन स्यान्मन्त्रजं फलम् ।
स्थूलं शब्दमयं रूपं विग्रहं वाह्यमिष्यते ॥०२५॥

सुक्ष्मां ज्योतिर्मयं रूपं हार्दं चिन्तामयं भवेत् ।
चिन्तया रहितं यत्तु तत् परं प्रकीर्तितम् ॥०२६॥

वराहसिंहशक्तीनां स्थूलरूपं प्रधानतः ।
चिन्तया रहितं रूपं वासुदेवस्य कीर्तितम् ॥०२७॥

इतरेषां स्मृतं रूपं हार्दं चिन्तामयं सदा ।
स्थूलं वैराजमाख्यातं सूक्ष्मं वै लिङ्गितं भवेत् ॥०२८॥

चिन्तया रहितं रूपमैश्वरं परिकीर्तितम् ।
हृत्पुण्डरीकनिलयञ्चैतन्यं ज्योतिरव्ययम् ॥०२९॥

वीजं वीजात्मकं ध्यायेत् कदम्बकुसुमाकृतिं ।
कुम्भान्तरगतो दीपो निरुद्धप्रसवो यथा ॥०३०॥

संहतः केवलस्तिष्ठेदेवं मन्त्रेश्वरो हृदि ।
अनेकशुषिरे कुम्भे तावन्मात्रा गभस्तयः ॥०३१॥

[[८६]]
विश्वास-प्रस्तुतिः
अथावभासतो दैवीमात्मीकृत्य तनुं स्थिताः ॥०३२॥

हृदयात् प्रस्थिता नाड्यो दर्शनेन्द्रियगोचराः ।
अग्नीषोमात्मके तासां नाड्यौ नासाग्रसंस्थिते ॥०३३॥

सम्यग्गुह्येन योगेन जित्वा देहसमीरणम् ।
जपध्यानरतो मन्त्री मन्त्रलक्षणमश्नुते1 ॥०३४॥

संशुद्धभूततन्मात्रः सकामो योगमभ्यसन् ।
अणिमादिमवाप्नोति विरक्तः प्रविलङ्घ्य च ।०३५।
देवात्मके भूतमात्रान्मुच्यते चेन्द्रियग्रहात् ॥०३५॥

{इत्य् आदिमहापुराणे आग्नेये मण्डलादिवर्णनं नाम त्रिंशो ऽध्यायः }