{अथ ऊनत्रिंशो ऽध्यायः}
विश्वास-प्रस्तुतिः
सर्वतोभद्रमण्डलकथनं
नारद उवाच
साधकः साधयेन्मन्त्रं देवतायतनादिके ।
शुद्धभूमौ गृहे प्रार्च्य मण्डले हरिमीश्वरं ॥००१॥
मूलम्

चतुरस्त्रीकृते क्षेत्रे मण्डलादीनि वै लिखेत् ।
रसवाणाक्षिकोष्ठेषु सर्वतोभद्रमालिखेत् ॥००२॥

षट्त्रिंशत्कोष्ठकैः पद्मं पीठं पङ्क्त्या
वहिर्भवेत् ।
द्वाभ्यान्तु वीथिका तस्माद् द्वाभ्यां द्वाराणि दिक्षु च ॥००३॥

[[७९]]
विश्वास-प्रस्तुतिः
वर्तुलं भ्रामयित्वा तु पद्मक्षेत्रं पुरोदितम् ।
पद्मार्धे भामयित्वा तु भागं द्वादशमं वहिः ॥००४॥

विभज्य भ्रामयेच्छेषं चतुःक्षेत्रन्तु वर्तुलं ।
प्रथमं कर्णिकाक्षेत्रं केशराणां द्वितीयकम् ॥००५॥

तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम् ।
प्रसार्य कोणसूत्राणि कोणदिङ्मध्यमन्ततः ॥००६॥

निधाय केशराग्रे तु दलसन्धींस्तु लाञ्छयेत् ।
पातयित्वाथ सूत्राणि तत्र पत्राष्टकं लिखेत् ॥००७॥

दलसन्ध्यन्तरालन्तु मानं मध्ये निधाय तु ।
दलाग्रं भ्रामयेत्तेन तदग्रं तदनन्तरं ॥००८॥

तदन्तरालं तत्पार्श्वे कृत्वा वाह्यक्रमेण च ।
केशरे तु लिखेद्द्वौ द्वौ दलमध्ये ततः पुनः ॥००९॥

पद्मलक्ष्मैतत् सामान्यं द्विषट्कदलमुच्यते ।
कर्णिकार्धेन मानेन प्राक्संस्थं भ्रामयेत् क्रमात् ॥०१०॥

तत्पार्श्वे भ्रमयोगेन कुण्डल्यः षड् भवन्ति हि ।
एवं द्वादश मत्स्याः स्युर्द्विषट्कदलकञ्च तैः ॥०११॥

पञ्चपत्राभिसिद्ध्यर्थं मत्स्यं कृत्वैवमब्जकम् ।
व्योमरेखावहिः पीठन्तत्र कोष्टानि मार्जयेत् ॥०१२॥

त्रीणि कोणेषु पादार्थं द्विद्विकान्यपराणि तु ।
चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्त्युत ॥०१३॥

ततः पङ्क्तिद्वयं दिक्षु वीठ्यर्थन्तु विलोपयेत्1 ।
द्वाराण्याशासु कुर्वीत चत्वारि चतसृष्वपि ॥०१४॥

:न्
[[८०]]
विश्वास-प्रस्तुतिः
तत्पार्श्व उपशोभास्तु तावत्यः परिकीर्तिताः ॥०१५॥

समीप उपशोभानां कोणास्तु परिकीर्तिताः1 ।
चतुर्दिक्षु ततो द्वे द्वे चिन्तयेन्मध्यकोष्ठकैः ॥०१६॥

चत्वारि वाह्यतो मृज्यादेकैकं पार्श्वयोरपि ।
शोभार्थं पार्श्वयोस्त्रीणि त्रीणि लुम्पद्दलस्य तु ॥०१७॥

तद्वद्विपर्यये कुर्यादुपशोभां ततः परम् ।
कोणस्यान्तर्वहिस्त्रीणि चिन्तयेद्द्विर्विभेदतः ॥०१८॥

एवं षोडशकोष्ठं स्यादेवमन्यत्तु मण्डलम् ।
द्विषट्कभागे षट्त्रिंशत्पदं पद्मन्तु वीथिका ॥०१९॥

एका पङ्क्तिः प्राभ्यां तु द्वारशोभादि पूर्ववत् ।
द्वादशाङ्गुलिभिः पद्ममेकहस्ते तु मण्डले ॥०२०॥

द्विहस्ते हस्तमात्रं स्याद्वृद्ध्या द्वारेण वाचरेत् ।
अपीठञ्चतुरस्रं स्याद्विकरञ्चक्रपङ्कजम् ॥०२१॥

पद्मार्धं नवभिः प्रोक्तं नाभिस्तु तिसृभिः स्मृता ।
अष्टाभिर्द्वारकान् कुर्यान्नेमिन्तु चतुरङ्गुलैः ॥०२२॥

त्रिधा2 विभज्य च क्षेत्रमन्तर्द्वाभ्यामथाङ्कयेत् ।
पञ्चान्तस्वरसिद्ध्यर्थं3 तेष्वस्फाल्य लिखेदरान् ॥०२३॥

इन्दीवरदलाकारानथवा मातुलाङ्गवत् ।
पद्मपत्रायतान्वापि लिखेदिच्छानुरूपतः ॥०२४॥

भ्रामयित्वा वहिर् नेमावरसन्ध्यन्तरे स्थितः ।
भ्रामयेदरमूलन्तु सन्धिमध्ये व्यवस्थितः ॥०२५॥

[[८१]]
विश्वास-प्रस्तुतिः
अरमध्ये स्थितो मधमरणिं भ्रामयेत् समम् ।
एवं सिद्ध्यन्तराः सम्यक् मातुलाङ्गनिभाः समाः ॥०२६॥

विभज्य सप्तधा क्षेत्रं चतुर्दशकरं समम् ।
द्विधा कृते शतं ह्य् अत्र षण्नवत्यधिकानि तु ॥०२७॥

कोष्टकानि चतुर्भिस्तैर् मध्ये भद्रं समालिखेत् ।
परितो विसृजेद्वीथ्यै तथा दिक्षु समालिखेत् ॥०२८॥

कमलानि पुनर्वीथ्यै परितः परिमृज्य तु ।
द्वे द्वे मध्यमकोष्ठे तु ग्रीवार्थं दिक्षु लोपयेत् ॥०२९॥

चत्वारि वाह्यतः पश्चात्त्रीणि त्रीणि तु लोपयेत् ।
ग्रीवापार्श्वे वहिस्त्वेका शोभा सा परिकीर्तिता ॥०३०॥

विमृज्य वाह्यकोणेषु सप्तान्तस्त्रीणि मार्जयेत् ।
मण्डलं नवभागं स्यान्नवव्यूहं हरिं यजेत् ॥०३१॥

पञ्चविंशतिकव्यूहं मण्डलं विश्वरूपगं ।
द्वात्रिंशद्धस्तकं क्षेत्रं भक्तं द्वात्रिंशता समं ॥०३२॥

एवं कृते चतुर्विंशत्यधिकन्तु सहस्रकं ।
कोष्ठकानां समुद्दिष्टं मध्ये शोडशकोष्ठकैः ॥०३३॥

भद्रकं परिलिख्याथ पार्श्वे पङ्क्तिं विमृज्य तु ।
ततः षोडशभिः कोष्टैर् दिक्षु भद्राष्टकं लिखेत्1 ॥०३४॥

ततोपि पङ्क्तिं सम्मृज्य तद्वत् षोडशभद्रकं ।
लिखित्वा परितः पङ्क्तिं विमृज्याथ प्रकल्पयेत् ॥०३५॥

द्वारद्वादशकं दिक्षु त्रीणि त्रीणि यथाक्रमं ।
षड्भिः परिलुप्यान्तर्मध्ये चत्वारि पार्श्वयोः ॥०३६॥

चत्वार्यन्तर्वहिर्द्वे तु शोभार्थं परिमृज्य तु ।
उपद्वारसिद्ध्यर्थं त्रीण्यन्तः पञ्च वाह्यतः ॥०३७॥

[[८२]]
विश्वास-प्रस्तुतिः
परिमृज्य तथा शोभां पूर्ववत् परिकल्पयेत् ।
वहिः कोणेषु सप्तान्तस्त्रीणि कोष्ठानि मार्जयेत् ॥०३८॥

पञ्चविंशतिकव्यूहे परं ब्रह्म यजेत् कजे1 ।
मध्ये पूर्वादितः पद्मे वासुदेवादयः क्रमात् ॥०३९॥

वराहं पूजयित्वा च पूर्वपद्मे ततः क्रमात् ।
व्यूहान् सम्पूजयेत्तावत् यावत् षड्विंशमो भवेत् ॥०४०॥

यथोक्तं व्यूहमखिलमेकस्मिन् पङ्कजे क्रमात् ।
यष्टव्यमिति यत्नेन2 प्रचेता मन्यते ऽध्वरं3 ॥०४१॥
विश्वास-प्रस्तुतिः
सत्पन्तु मूर्तिभेदेन विभक्तं मन्यते ऽच्युतं ।
चत्वारिंशत् करं क्षेत्रं ह्य् उत्तरं4 विभजेत् क्रमात् ॥०४२॥

एकैकं सप्तधा भूयस्तथैवैकं द्विधा पुनः ।
चतुःषष्ट्युत्तरं सप्तशतान्येकं सहस्रकं ॥०४३॥

कोष्ठकानां भद्रकञ्च मध्ये षोडशकोष्ठकैः ।
पार्श्वे वीथीं ततश्चाष्टभद्राण्यथ च वीथिका ॥०४४॥

षोडशाब्जान्यथो वीथी चतुर्विंशतिपङ्कजं ।
वीथीपद्मानि द्वात्रिंशत् पङ्क्तिवीथिकजान्यथ ॥०४५॥

चत्वारिंशत्ततो वीथी शेषपङ्क्तित्रयेण च ।
द्वारशोभोपशोभाः स्युर्दिक्षु मध्ये विलोप्य च ॥०४६॥

द्विचतुःषड्द्वारसिद्ध्यै चतुर्दिक्षु विलोपयेत् ।
पञ्च त्रीण्येककं वाह्ये शोभोपद्वारसिद्धये ॥०४७॥

[[८३]]
विश्वास-प्रस्तुतिः
द्वाराणां पार्श्वयोरन्तः षड् वा चत्वारि मध्यतः ।
द्वे द्वे लुम्पेदेवमेव षड् भवन्त्युपशोभिकाः ॥०४८॥

एकस्यां दिशि सङ्ख्याः स्युः चतस्रः प्रिसङ्ख्यया ॥४९॥

एकैकस्यां दिशि त्रीणि द्वाराण्यपि भवन्त्युत ।
पञ्च पञ्च तु कोणेषु पङ्क्तौ पङ्क्तौ क्रमात् मृजेत् ।०५०।
कोष्टकानि भवेदेवं मर्त्येष्ट्यं मण्डलं शुभं ॥०५०॥

{इत्य् आदिमहापुराणे आग्नेये मण्डलादिलक्षणं नाम ऊनत्रिंशो ऽध्यायः }