{अथ अष्टाविंशोध्यायः }
विश्वास-प्रस्तुतिः
अभिषेकविधानं
नारद उवाच
अभिषेकं प्रवक्ष्यामि यथाचार्यस्तु पुत्रकः ।
सिद्धिभाक् साधको येन रोगी रोगाद्विमुच्यते ॥००१॥
मूलम्

राज्यं राजा सुतं स्त्रीञ्च प्राप्नुयान्मलनाशनं ।
मूर्तिकुम्भान् सुरत्नाढ्यान्मध्यपूर्वादितो न्यसेत् ॥००२॥

सहस्रावर्तितान् कुर्यादथवा शतवर्तितान् ।
मण्डपे मण्डले विष्णुं प्राच्यैशान्याञ्च पीठिके ॥००३॥

निवेश्य शकलीकृत्य पुत्रकं साधकादिकं ।
अभिषेकं समभ्यर्च्य कुर्याद्गीतादिपूर्वकं ॥००४॥

दद्याच्च योगपीठादींस्त्वनुग्राह्यास्त्वया नराः ।
गुरुश् च समयान् ब्रूयाद्गुप्तः शिष्योथ सर्वभाक् ॥००५॥

{इत्य् आदिमहापुराणे आग्नेये आचार्याभिषेको नाम अष्टाविंशो ऽध्यायः }