{अथ सप्तविंशो ऽध्यायः}
विश्वास-प्रस्तुतिः
दीक्षाविधिकथनं
नारद उवाच
वक्ष्ये दीक्षां सर्वदाञ्च मण्डलेब्जे हरिं यजेत् ।
दशम्यामुपसंहृत्य यागद्रव्यं समस्तकं ॥००१॥
मूलम्

विन्यस्य नारसिंहेन सम्मन्त्र्य शतवारकं ।
सर्षपांस्तु फडन्तेन1 रक्षोघ्नान् सर्वतः क्षिपेत् ॥००२॥

शक्तिं सर्वात्मकां तत्र न्यसेत् प्रासादरूपिणीं ।
सर्वौषधिं समाहृत्य विकिरानभिमन्त्रयेत् ॥००३॥

शतवारं शुभे पात्रे वासुदेवेन साधकः ।
संसाध्य पण्जगव्यन्तु पञ्चभिर्मूलमूर्तिभिः ॥००४॥

नारायणान्तैः सम्प्रोक्ष्य कुशाग्रैस्तेन तां
भुवं2।
विकिरान्वासुदेवेन क्षिपेदुत्तानपाणिना ॥००५॥

त्रिधा पूर्वमुखस्तिष्ठन् ध्यायेत् विष्णुं तथा हृदि ।
वर्धन्या सहिते कुम्भे साङ्गं विष्णुं प्रपूजयेत् ॥००६॥

:न्
[[७१]]
विश्वास-प्रस्तुतिः
शतवारं मन्त्रयित्वा त्वस्त्रेणैव च वर्धनीं ।
अच्छिन्नधारया सिञ्चन् ईशानान्तं नयेच्च तं ॥००७॥

कलसं पृष्ठतो नीत्वा स्थापयेद्विकिरोपरि ।
संहृत्य विकिरान् दर्भैः कुम्भेशं कर्करीं यजेत् ॥००८॥

सवस्त्रं पञ्चरत्नाढ्यं खण्डिले पूजयेद्धरिं ।
अग्नावपि समभ्यर्च्य मन्त्रान् सञ्जप्य पूर्ववत् ॥००९॥

प्रक्षाल्य पुण्डरीकेन विलिप्यान्तः सुगन्धिना ।
उखामाज्येन1 सम्पूर्य गोक्षीरेण तु साधकः ॥०१०॥

आलोक्य वासुदेवेन3 ततः सङ्कर्षणेन च ।
तण्डुलानाज्यसंसृष्टान् क्षिपेत् क्षीरे सुसंस्कृते ॥०११॥

प्रद्युम्नेन स्मालोड्य दर्व्या सङ्घट्टयेच्छनैः ।
पक्वमुत्तारयेत् पश्चादनिरुद्धेन देशिकः ॥०१२॥

प्रक्षाल्यालिप्य तत् कुर्यादूर्ध्वपुण्ड्रं तु भस्मना ।
नारायणेन पार्श्वेषु चरुमेवं सुसंस्कृतं ॥०१३॥

भागमेकं तु देवाय कलशाय द्वितीयकं ।
तृतीयेन तु भागेन प्रदद्यादाहुतित्रयं ॥०१४॥

शिष्यैः सह चतुर्थं तु गुरुरद्याद्विशुद्धये2 ।
नारायणेन सम्मन्त्र्य सप्तधा क्षीरवृक्षजम् ॥०१५॥

दन्तकाष्ठं भक्षयित्वा त्यक्त्वा ज्ञात्वास्वपातकं ।
ऐन्द्राग्न्युत्तरकेशानीमुखं पतितमुत्तमं ॥०१६॥

[[७२]]
विश्वास-प्रस्तुतिः
पूजागारं न्यसेन्मन्त्री प्राच्यां विष्णुं प्रदक्षिणं ॥०१७॥

संसारार्णवमग्नानां पशूनां पाशमुक्तये ।
त्वमेव शरणं देव सदा त्वं भक्तवत्सल ॥०१८॥

देवदेवानुजानीहि प्राकृतैः पाशबन्धनैः ।
पाशितान्मोचयिष्यामि त्वत्प्रसादात् पशूनिमान् ॥०१९॥

इति विज्ञाप्य देवेशं सम्प्रविश्य पशूंस्ततः ।
धारणाभिस्तु संशोध्य पूर्वज्ज्वलनादिना ॥०२०॥

संस्कृत्य मूर्त्या संयोज्य1 नेत्रे बद्ध्वा प्रदर्शयेत् ।
पुष्पपूर्णाञ्जलींस्तत्र क्षिपेत्तन्नाम योजयेत् ॥०२१॥

अमन्त्रमर्चनं तत्र पूर्ववत् कारयेत् क्रमात् ।
यस्यां मूर्तौ पतेत् पुष्पं तस्य तन्नाम निर्दिशेत् ॥०२२॥

शिखान्तसम्मितं सूत्रं पादाङ्गुष्ठादि षड्गुणं ।
कन्यासु कर्तितं रक्तं3 पुनस्तत्त्रिगुणीकृतम् ॥०२३॥

यस्यां संलीयते विश्वं यतो विश्वं प्रसूयते ।
प्रकृतिं प्रक्रियाभेदैः संस्थितां तत्र चिन्तयेत् ॥०२४॥

तेन प्राकृतिकान् पाशान् ग्रथित्वा तत्त्वसङ्ख्यया2 ।
कृत्वा शरावे तत् सूत्रं कुण्डपार्श्वे निधाय तु4 ॥०२५॥

ततस्तत्त्वानि सर्वाणि ध्यात्वा शिष्यतनौ न्यसेत् ।
सृष्टिक्रमात् प्रकृत्यादिपृथिव्यन्तानि देशिकः ॥०२६॥

[[७३]]
विश्वास-प्रस्तुतिः
ज्ञातव्यः सर्वभेदेन ग्रथितस्तत्त्वचिन्तकैः ॥०२७॥

अङ्गैः पञ्चभिरध्वानं निखिलं विकृतिक्रमात् ।
तन्मात्रात्मनि संहृत्य मायासूत्रे पशोस्तनौ1 ॥०२८॥

प्रकृतिर्लिङ्गशक्तिश् च कर्ता बुद्धिस् तथा मनः ।
पञ्चतन्मात्रबुद्ध्याख्यं कर्माख्यं भूतपञ्चकं ॥०२९॥

ध्यायेच्च द्वादशात्मानं सूत्रे देहे तथेच्छया ।
हुत्वा सम्पातविधिना सृष्टेः सृष्टिक्रमेण तु ॥०३०॥

एकैकं शतहोमेन दत्त्वा पूर्णाहुतिं ततः ।
शरावे सम्पुटीकृत्य कुम्भेशाय निवेदयेत् ॥०३१॥

अधिवास्य यथा न्यायं भक्तं शिष्यं तु दीक्षयेत् ।
करणीं कर्तरीं वापि3 रजांसि खटिकामपि ॥०३२॥

अन्यदप्युपयोगि स्यात् सर्वं तद्वायुगोचरे ।
संस्थाप्य मूलमन्त्रेण परामृश्याधिवाधिवासयेत् ॥०३३॥

नमो भूतेभ्यश् च बलिः कुशे शेते स्मरन् हरिं ।
मण्डपं भूषयित्वाथ वितानघटलड्डुकैः2 ॥०३४॥

मण्डलेथ यजेद्विष्णुं ततः सन्तर्प्य पावकं ।
आहूय दीक्षयेच्छिष्यान् बद्धपद्मासनस्थितान् ॥०३५॥

सम्मोक्ष्य विष्णुं हस्तेन मूर्धानं स्पृश्य वै क्रमात् ।
प्रकृत्यादिविकृत्यन्तां साधिभूताधिदैवतां ॥०३६॥

सृष्टिमाध्यात्मिकीं कृत्वा हृदि तां संहरेत् क्रमात् ।
तन्मात्रभूतां सकलां जीवेन समतां गतां ॥०३७॥

[[७४]]
विश्वास-प्रस्तुतिः
अग्नेः समीपमागत्य पार्श्वे तं सन्निवेश्य तु ॥०३८॥

मूलमन्त्रेण सृष्टीशमाहुतीनां शतेन तं ।
उदासीनमथासाद्य पूर्णाहुत्या च देशिकः ॥०३९॥

शुक्लं रजः समादाय मूलेन शतमन्त्रितं ।
सन्ताड्य हृदयन्तेन हुम्फट्कारान्तसंयुतैः ॥०४०॥

वियोगपदसंयुक्तैर् वीजैः पदादिभिः क्रमात् ।
पृथिव्यादीनि तत्त्वानि विश्लिष्य जुहुयात्ततः ॥०४१॥

वह्नावखिलतत्त्वानामालये व्याहृते हरौ ।
नीयमानं क्रमात्सर्वं तत्राध्वानं स्मरेद्बुधः ॥०४२॥

ताडनेन वियोज्यैवं1 आदायापाद्य शाम्यतां ।
प्रकृत्याहृत्य जुहुयाद्यथोक्ते जातवेदसि ॥०४३॥

गर्भाधानं जातकर्म भोगञ्चैव लयन्तथा ।
शुद्धं तत्त्वं समुद्धृत्य पूर्णाहुत्या तु देशिकः ।
सन्नयेद्द्विपरे तत्त्वे यावदव्याहृतं क्रमात् ॥०४५॥

तत् परं ज्ञानयोगेन विलाप्य परमात्मनि ।
विमुक्तबन्धनं जीवं परस्मिन्नव्यये पदे ॥०४६॥

निवृत्तं परमानन्दे शुद्धे बुद्धे स्मरेद्बुधः ।
दद्यात् पूर्णाहुतिं पश्चादेवं दीक्षा समाप्यते ॥०४७॥

प्रयोगमन्त्रान् वक्ष्यामि यैर् दीक्षा होमसंलयः ।
ॐ यं भूतानि विशुद्धं हुं फट्
अनेन ताडनं कुर्याद्वियोजनमिह द्वयं ॥०४८॥

ॐ यं भूतान्यापातयेहं
आदानं कृत्वा चानेन प्रकृत्या योजनं शृणु ।
:न्
[[७५]]
विश्वास-प्रस्तुतिः
ॐ यं भूतानि पुंश्चाहो
होममन्त्रं प्रवक्ष्यामि ततः पूर्णाहुतेर्मनुं ॥०४९॥

ॐ भूतानि संहर स्वाहा । ॐ अं ॐ नमो भगवते वासुदेवाय
वौषट्
पूर्णाहुत्यनन्तरे तु तद्वै शिष्यन्तु साधयेत्1 ।
एवं तत्त्वानि सर्वाणि क्रमात्संशोधयेद् बुधः ॥०५०॥

नमोन्तेन स्ववीजेन ताडनादिपुरःसरम् ।
ॐ वां वर्मेन्द्रियाणि । ॐ दें बुद्धीन्द्रियाणि
यं वीजेन समानन्तु ताडनादिप्रयोगकम् ॥०५१॥

ॐ सुङ्गन्धतन्मात्रे वियुङ्क्ष्व हुं फट् । ॐ सम्पाहिं
हा3 ॥ ॐ खं खं क्ष प्रकृत्या2 । ॐ सुं हुं
गन्धतन्मात्रे संहर स्वाहा
ततः पूर्णाहुतिश् चैवमुत्तरेषु प्रयुज्यते ।
ॐ रां रसतन्मात्रे । ॐ भें रूपतन्मात्रे । ॐ रं
विश्वास-प्रस्तुतिः
स्पर्शतन्मात्रे । ॐ एं शब्दतन्मात्रे । ॐ भं नमः । ॐ
सों अहङ्कारः । ॐ नं बुद्धे । ॐ ॐ प्रकृते
एकमूर्तावयं प्रोक्तो दीक्षायोगः समासतः ।०५२।
एवमेव प्रयोगस्तु नवव्यूहादिके स्मृतः ॥०५२॥

दग्धापरस्मिन् सन्दध्यान्निर्वाणे प्रकृतिन्नरः ।
अविकारे समादध्यादीश्वरे प्रकृतिन्नरः ॥०५३॥

शोधयित्वाथ भुतानि कर्माङ्गानि4 विशोधयेत् ।
बुद्ध्याख्यान्यथ तन्मात्रमनोज्ञानमहङ्कृतिं ॥०५४॥

[[७६]]
विश्वास-प्रस्तुतिः
पुरुषं प्राकृतं शुद्धमीश्वरे धाम्नि संस्थितं ॥०५५॥

स्वगोचरीकृताशेषभोगमुक्तौ कृतास्पदं ।
ध्यायन् पूर्णाहुतिं दद्याद्दीक्षेयं त्वधिकारिणी ॥०५६॥

अङ्गैर् आराध्य मन्त्रस्य नीत्वा तत्त्वगणं समं ।
क्रमादेवं विशोध्यान्ते सर्वसिद्धिसमन्वितं ॥०५७॥

ध्यायन् पूर्णाहितिं दद्यात्दीक्षेयं साधके स्मृता ।
द्रव्यस्य वा न सम्पत्तिरशक्तिर्वात्मनो यदि ॥०५८॥

इष्ट्वा देवं यथा पूर्वं सर्वोपकरणान्वितं ।
सद्योधिवास्य द्वादश्यां दीक्षयेद्देशिकोत्तमः ॥०५९॥

भक्तो विनीतः शारीरैर् गुणैः सर्वैः समन्वितः ।
शिष्यो नातिधनी यस्तु स्थण्डिलेभ्यर्च्य दीक्षयेत् ॥०६०॥

अध्वानं निखिलं दैवं3 भौतं वाध्यात्मिकी कृतं ।
सृष्टिक्रमेण शिष्यस्य देहे ध्यात्वा तु देशिकः ॥०६१॥

अष्टाष्टाहुतिभिः पूर्वं क्रमात् सन्तर्प्य सृष्टिमान् ।
स्वमन्त्रैर् वासुदेवादीन् जननादीन् विसर्जयेत्3 ॥०६२॥

होमेन शोधयेत् पश्चात्संहारक्रमयोगतः ।
योनिसूत्राणि बद्धानि मुक्त्वा कर्माणि देशिकः ॥०६३॥

शिष्यदेहात्समाहृत्य क्रमात्तत्त्वानि शोधयेत् ।
अग्नौ प्राकृतिके विष्णौ लयं नीत्वाधिदैवके ॥०६४॥

शुद्धं तत्त्वमशुद्धेन पूर्णाहुत्या तु साधयेत्2 ।
शिष्ये प्रकृतिमापन्ने दग्ध्वा प्राकृतिकान् गुणान् ॥०६५॥

[[७७]]
विश्वास-प्रस्तुतिः
मौचयेदधिकारे वा नियुञ्ज्याद्देशिकः शिशून्1 ।
अथान्यान् शक्तिदीक्षां वा कुर्यात् भावे स्थितो गुरुः ॥०६६॥

भक्त्या सम्प्रातिपन्नानां यतीनां निर्धनस्य च ।
सम्पूज्य स्थण्डिले विष्णुं पार्श्वस्थं स्थाप्य पुत्रकं ॥०६७॥

देवताभिमुखः शिष्यस्तिर्यगास्यः स्वयं स्थितः ।
अध्वानं निखिलं ध्यात्वा पर्वभिः स्वैर् विकल्पितं ॥०६८॥

शिष्यदेहे तथा देवमाधिदैविकयाचनं ।
ध्यानयोगेन सञ्चिन्त्य पूर्ववत्ताडनादिना ॥०६९॥

क्रमात्तत्त्वानि सर्वाणि शोधयेत् स्थण्डिले हरौ ।
ताडनेन वियोज्याथ गृहीत्वात्मनि तत्परः3 ॥०७०॥

देवे संयोज्य संशोध्य गृहीत्वा तत् स्वभावतः ।
आनीय शुद्धभावेन सन्धयित्वा क्रमेण तु ॥०७१॥

शोधयेद्ध्यानयोगेन सर्वतो ज्ञानमुद्रया ।
शुद्धेषु सर्वतत्त्वेषु प्रधाने चेश्वरे स्थिते ॥०७२॥

दग्ध्वा निर्वापयेच्छिष्यान् पदे चैशे नियोजयेत् ।
निनयेत् सिद्धिमार्गे वा साधकं देशिकोत्तमः ॥०७३॥

एवमेवाधिकारस्थो गृही कर्मण्यतन्द्रितः ।
आत्मानं शोधयंस्तिष्ठेद् यावद्रागक्षयो भवेत् ॥०७४॥

क्षीणरागमथात्मानं ज्ञात्वा संशुद्धिकिल्विषः ।
आरोप्य पुत्रे शिष्ये वा ह्य् अधिकारन्तु संयमी ॥०७५॥

दग्ध्वा मायामयं पाशं प्रव्रज्य स्वात्मनि स्थितः ।
शरीरपातमाकाङ्क्षन्नासीताव्यक्तलिङ्गवान् ॥०७६॥

{इत्य् आदिमहापुराणे आग्नेये सर्वदीक्षाकथनं नाम सप्तविंशोध्यायः }
:न्
[[७८]]