०२६ मुद्रालक्षणकथनम्

{अथ षड्विंशो ऽध्यायः}

विश्वास-प्रस्तुतिः

मुद्रालक्षणकथनं

नारद उवाच
मुद्राणां लक्षणं वक्ष्ये सान्निध्यादिप्रकारकं ।
अञ्जलिः प्रथमा मुद्रा वन्दनी हृदयानुगा ॥००१॥

मूलम्

ऊर्ध्वाङ्गुष्ठो
वाममुष्टिर्दक्षिणाङ्गुष्ठबन्धनं ।
सव्यस्य तस्य चाङ्गुष्ठो यस्य चोर्ध्वे प्रकीर्तितः1 ॥००२॥

तिस्रः साधरणा व्यूहे अथासाधरणा इमाः ।
कनिष्ठादिविमोकेन अष्टो मुद्रा यथाक्रमं ॥००३॥

अष्टानां पूर्ववीजानां क्रमशस्त्ववधारयेत् ।
अङ्गुष्ठेन कनिष्टान्तं नमयित्वाङ्गुलित्रयं ॥००४॥

ऊर्ध्वं कृत्वा सम्मुखञ्च वीजाय नवमाय वै ।
वामहस्तमथोत्तानं कृत्वार्धं नामयेच्छनैः ॥००५॥

:न्

[[७०]]

विश्वास-प्रस्तुतिः

वराहस्य स्मृता मुद्रा अङ्गनाञ्च क्रमादिमाः ।
एकैकां मोचयेद्बद्ध्वा वाममुष्टो तथागुलीं ॥००६॥

आकुञ्चयेत् पूर्वमुद्रां दक्षिणेप्येवमेव च ।
ऊर्ध्वाङ्गुष्ठो वाममुष्ठिर्मुद्रासिद्धिस्ततो भवेत् ॥००७॥

{इत्य् आदिमहापुराणे आग्नेये मुद्राप्रदर्शनं नाम षड्विंशो ऽध्यायः }

  1. यः सव्येर्धे प्रकीर्तित इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎