०२५ वासुदेवादिमन्त्रनिरूपणम्

{अथ पञ्चविंशो ऽध्यायः}

विश्वास-प्रस्तुतिः

वासुदेवादिमन्त्रनिरूपणं

नारद उवाच
वासुदेवादिमन्त्राणां पूजानां लक्षणं वदे ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥००१॥

मूलम्

नमो भगवते चादौ अ आ अं अः स्ववीजकाः1
ओङ्काराद्या नमोन्ताश् च नमो नारायणस्ततः ॥००२॥

ॐ तत् सत् ब्रह्मणे चैव ॐ नमो विष्णवे नमः ।
ॐ क्षौं ॐ नमो भगवते नरसिंहाय वै नमः ॥००३॥

ॐ भूर्नमो भगवते वराहाय नराधिपाः ।
जवारुणहरिद्राभा नीलश्यामललोहिताः ॥००४॥

मूलम्

ॐ भूर्नमो भगवते वराहाय नराधिपाः ।
जवारुणहरिद्राभा नीलश्यामललोहिताः ॥००४॥

विश्वास-प्रस्तुतिः

मेघाग्निमधुपिङ्गाभा वल्लभा नव नायकाः ।
अङ्गानि स्वरवीजानां स्वनामान्तैर् यथाक्रमम् ॥००५॥

हृदयादीनि कल्पेत विभक्तैस्तन्त्रवेदिभिः ।
व्यञ्जनादीनि वीजानि तेषां लक्षणमन्यथा ॥००६॥

दीर्घस्वरैस्तु भिन्नानि नमोन्तान्तस्थितानि तु ।
अङ्गानि ह्रस्वयुक्तानि उपाङ्गानीति वर्ण्यते ॥००७॥

विभक्तनामवर्णान्तस्थितानि वीजमुत्तमं2
दीर्घैर् ह्रस्वैश् च संयुक्तं साङ्गोपाङ्गंस्वरैः क्रमात्3 ॥००८॥

व्यञ्जनानां क्रमो ह्य् एष हृदयादिप्रकॢप्तये ।
स्ववीजेन स्वनामान्तैर् विभक्तान्यङ्गनामभिः ॥००९॥

:न्

[[६५]]

विश्वास-प्रस्तुतिः

युक्तानि हृदयादीनि द्वादशान्तानि पञ्चतः1
आरभ्य कल्पयित्वा तु जपेत् सिद्ध्यनुरूपतः ॥०१०॥

हृदयञ्च शिरश्चूडा कवचं नेत्रमस्त्रकं ।
षडङ्गानि तु वीजानां मूलस्य द्वादशाङ्गकं ॥०११॥

हृच्छिरश् च शिखा वर्म चास्त्रनेत्रान्तयोदरं ।
प्रष्टबाहूरुजानूंश् च जङ्घा पादौ क्रमान्न्यसेत् ॥०१२॥

कं टं पं शं वैनतेयः खं ठं फं घं
गदामनुः2
गं डं बं सं पुष्ठिमन्तो घं ढं भं हं श्रियै
नमः ॥०१३॥

वं शं मं क्षं3 पाञ्चजन्यं छं तं पं4
कौस्तुभाय च ।
जं खं वं सुदर्शनाय श्रीवत्साय सं वं दं चं
लं5 ॥०१४॥

ॐ धं वं वनमालायै महानन्ताय वै नमः6
निर्वीजपदमन्त्राणां पदैर् अङ्गानि कल्पयेत् ॥०१५॥

जात्यन्तैर् नामसंयुक्तेर्हृदयादीनि पञ्चधा ।
प्रणवं हृदयादीनि ततः प्रोक्तानि पञ्चधा ॥०१६॥

प्रणवं हृदयं पूर्वं परायेति शिरः शिखा ।
नाम्नात्मना तु7 कवचं अस्त्रं नामान्तकं भवेत् ॥०१७॥

[[६६]]

विश्वास-प्रस्तुतिः

ॐ परास्त्रादिस्वनामात्मा1 चतुर्थ्यन्तो नमोन्तकः ।
एकव्यूहादिषड्विंशव्यूहात्तस्यात्मनो मनुः2 ॥०१८॥

कनिष्टादिकराग्रेषु प्रकृतिं देहकेर्चयेत् ।
पराय पुरुषात्मा स्यात् प्रकृत्यात्मा द्विरूपकः ॥०१९॥

ॐ परयाम्न्यात्मने चैव वाय्वर्कौ च द्विरूपकः ।
अग्निं त्रिमूर्तौ3 विन्यस्य व्यापकं करदेहयोः ॥०२०॥

वाय्वर्कौ करशाखासु सव्येतरकरद्वये ।
हृदि मूर्तो तनावेष त्रिव्यूहे तुर्यरूपके ॥०२१॥

ऋग्वेदं व्यापकं हस्ते अङ्गुलीषु यजुर्न्यसेत् ।
तलद्वयेथर्वरूपं शिरोहृच्चरणान्तकः ॥०२२॥

आकाशं व्यापकं न्यस्य करे देहे तु पूर्ववत् ।
अङ्गुलीषु च वाय्वादि शिरोहृद्गुह्यपादके ॥०२३॥

वायुर्ज्योतिर्जलं पृथ्वी पञ्चव्यूहः समीरितः ।
मनः श्रोत्रन्त्वग्दृग्जिह्वा घ्राणं षड्व्यूह ईरितः ॥०२४॥

व्यापकं मानसं न्यस्य ततोङ्गुष्टादितः क्रमात् ।
मूर्धास्यहृद्गुह्यपत्सु कथितः करुणात्मकः ॥०२५॥

आदिमूर्तिस्तु सर्वत्र व्यापको जीवसञ्ज्ञितः ।
भूर्भुवः स्वर्महर्जनस्तपः स्त्यञ्च सप्तधा ॥०२६॥

करे देहे न्यसेदाद्यमङ्गुष्टादिक्रमेण तु ।
तलसंस्थः सप्तमश् च4 लोकेशो देहके क्रमात् ॥०२७॥

[[६७]]

विश्वास-प्रस्तुतिः

देहे शिरोललाटास्यहृद्गुह्याङ्ग्रिषु संस्थितः ।
अग्निष्ठोमस्तथोक्थस्तु षोडशी वाजपेयकः ॥०२८॥

अतिरात्राप्तोर्यामञ्च1 यज्ञात्मा सप्तरूपकः ।
धीरहं मनः शब्दश् च स्पर्शरूपरसास्ततः2 ॥०२९॥

गन्धो बुद्धिर्व्यापकं तु करे देहे न्यसेत् क्रमात् ।
न्यसेदन्त्यै च3 तलयोः के ललाटे मुखे हृदि ॥०३०॥

नाभौ गुह्ये च पादे च अष्टव्यूहः पुमान् स्मृतः4
वीजो बुद्धिरहङ्कारो मनः शब्दो गुणोनिलः ॥०३१॥

रूपं रसो नवात्मायं जीव अङ्गुष्ठकद्वये ।
तर्जन्यादिक्रमाच्छेषं यावद्वामप्रदेशिनीं ॥०३२॥

देहे शिरोललाटास्यहृन्नाभिगुह्यजानुषु ।
पादयोश् च दशात्मायं इन्द्रो व्यापी समास्थितः ॥०३३॥

अङ्गुष्ठकद्वये वह्निस्तर्जन्यादौ परेषु च ।
शिरोललाटवक्त्रेषु हृन्नाभिगुह्यजानुषु ॥०३४॥

पादयोरेकदशात्मा मनः श्रोत्रं त्वगेव च ।
चक्षुर्जिह्वा तथा घ्राणं वाक्पाण्यङ्घ्रिश् च पायुकः ॥०३५॥

उपस्थं मानसो व्यापी श्रोत्रमङ्गुष्ठकद्वये ।
तर्जन्यादिक्रमादष्टौ अतिरिक्तं तलद्वये ॥०३६॥

उत्तमाङ्गुलललाटास्यहृन्नाभावथ गुह्यके ।
उरुयुग्मे तथा जङ्घे गुल्फपादेषु च क्रमात् ॥०३७॥

[[६८]]

विश्वास-प्रस्तुतिः

विष्णुर्मधुहरश् चैव त्रिविक्रमकवामनौ ।
श्रीधरोथ हृषीकेशः पद्मनाभस्तथैव च ॥०३८॥

मूलम्

विष्णुर्मधुहरश् चैव त्रिविक्रमकवामनौ ।
श्रीधरोथ हृषीकेशः पद्मनाभस्तथैव च ॥०३८॥

विश्वास-प्रस्तुतिः

दामोदरः केशवश् च नारायणस्ततः परः ।
माधवश्चाथ गोविन्दो विष्णुं वै व्यापकं न्यसेत् ॥०३९॥

अङ्गुष्ठादौ तले द्वौ च पादे जानुनि वै कटौ ।
शिरःशिखरकट्याञ्च जानुपादादिषु न्यसेत् ॥०४०॥

द्वादशात्मा पञ्चविंशः षड्विंशव्यूहकस् तथा ।
पुरुषो धीरहङ्कारो मनश्चित्तञ्च शब्दकः ॥०४१॥

तथा स्पर्शो रसो रूपं गन्धः श्रोत्रं त्वचस् तथा ।
चक्षुर्जिह्वा नासिका च वाक्पाण्यङ्घ्रिश् च पायवः ॥०४२॥

उपस्थो भूर्जलन्तेजो वायुराकाशमेव च ।
पुरुषं व्यापकं न्यस्य अङ्गुष्ठादौ दश न्यसेत् ॥०४३॥

शेषान् हस्ततले न्यस्य शिरस्यथ ललाटके ।
मुखहृन्नाभिगुह्योरुजान्वङ्घ्रौ करणोद्गतौ ॥०४४॥

पादे जान्वोरुपस्थे च हृदये मूर्ध्नि च क्रमात् ।
परश् च पुरुषात्मादौ षड्विंशे पूर्ववत्परं ॥०४५॥

सञ्चिन्त्य मण्डलैके तु प्रकृतिं पूजयेद्बुधः ।
पूर्वयाम्याप्यसौम्येषु हृदयादीनि पूजयेत् ॥०४६॥

अस्त्रमग्न्यादिकोणेषु1 वैनतेयादि पूर्ववत् ।
दिक्पालांश् च विधिस्त्वन्यः2 त्रिव्यूहेग्निश् च मध्यतः ॥०४७॥

पूर्वादिदिग्बलावसोराज्यादिभिरलङ्कृतः ।
कर्णिकायां नाभसश् च मानसः कर्णिकास्थितः ॥०४८॥

[[६९]]

विश्वास-प्रस्तुतिः

विश्वरूपं सर्वस्थित्यै1 यजेद्राज्यजयाय च ।
सर्वव्यूहैः समायुक्तमङ्गैर् अपि च पञ्चभिः ॥०४९॥

गरुडाद्यैस्तथेन्द्राद्यैः सर्वान् कामानवाप्नुयात् ।
विश्वक्सेनं यजेन्नाम्ना वै वीजं व्योमसंस्थितं2 ॥०५०॥

{इत्य् आदिमहापुराणे आग्नेये मन्त्रप्रदर्शनं नाम पञ्चविंशो ऽध्यायः }

  1. द्वादशाक्षरवीजका इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. स्थितवीजार्थमुत्तममिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. दीर्घस्वरैश् च संयुक्तमङ्गोपाङ्गं स्वरैः क्रमादिति ख,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. स्वरवीजेषु नामान्तैर् विभक्तान्यङ्गनामभिरिति ङ,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. श्रीवत्साय च पञ्चममिति ङ, चिह्नितपुस्त्कपाठः श्रीवत्सो
    वं चं दं ठं लं इति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  6. नमोनन्ताय वै नम इति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  7. नाम्नामुना तु इति ख, ङ, चिह्नितपुस्त्कद्वयपाठः ↩︎ ↩︎